OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 28, 2022

रष्येण युद्धं तीव्रं कृतम्। वातकनालिकाश्रृङ्खला भग्नायिता।  धूमः व्याप्स्यति। खार्किविले जाग्रतानिर्देशः।  

कीव्> रष्यस्य अग्निबाणप्रहरेण युक्रैने खार्किवि देशे वातकनालिकाश्रृङ्गला भग्नायिता। रविवासरे प्रातःकाले आसीत् युक्रैन् राष्ट्रे द्वितीयं वृहत्तमं नगरं इति ख्याते खार्किविदेशस्थस्य वातकनालिका-श्रृङ्खलायाः उपरि आक्रमणम् इति युक्रैन् राष्ट्रपतेः कार्यालयात् आवेदितम्। स्फोटनानन्तरं प्रदेशं सर्वत्र व्याप्तः धूमः पारिस्थितिकदुरन्तस्य कारणं भवेत् इति अधिकारिभिः पूर्वसूचना दत्ता।

 युक्रैनात् ६७० भारतीयाः प्रतिनिवृत्ताः। 

नवदिल्ली> आकाङ्क्षायाः आशङ्कायाश्च होराः अतीत्य युक्रैनात् ६७० भारतीयाः स्वदेशम् आनीतवन्तः। हंगरी, रुमानिया देशाभ्यां त्रीणि विमानानि रविवासरे दिल्लीं प्राप्तानि। सर्वे यात्रिकाः युक्रैने चिकित्साशास्त्रछात्राः सन्ति। उत्तरप्रदेश‌ः, हरियानं, केरलं, तेलुङ्कानम् इत्यादिभ्यः विविधेभ्यः राज्येभ्यः अध्येतारः एव ह्यः आगतवन्तः।

उत्तरप्रदेशे ५३. ९३% मतदानम्। 

लख्नौ> उत्तरप्रदेशे ६१ विधानसभामण्डलेषु ह्यः सम्पन्ने पञ्चमचरणविधानसभानिर्वाचने ५३. ९३% मतदानम् अङ्कितम्। मतदानप्रक्रिया सामान्यतया शान्तिपूर्णमासीत्। 

  निर्वाचनस्य अन्तिमं चरणद्वयं मार्च् ३, ४ दिनाङ्कयोः भविष्यति। फलप्रख्यापनं दशमदिनाङ्के भविष्यति।

Sunday, February 27, 2022

 युक्रैने युद्धः तीव्रः - आत्मसमर्पणविमुखतया राजधानी । 

कीव्> दिनत्रयं यावत् युक्रैने रूसेन अनुवर्तमानः युद्धः तीव्रः अभवत्। रूससेनया कृते अग्निक्षेपण्याक्रमणे बहूनि भवनयूथानि विशीर्णानि। १९८ नागरिकाः हता‌ः। ३३ बालकान् समेत्य १,११५ जनाः व्रणिताः। 

   कीव् नामिकां राजनगरीम् अभिभावयितुं रष्येण यावच्छक्यं प्रायतत तथापि स्वयं र ष्याधिपत्यम् अङ्गीकर्तुं युक्रैनः इतः एतावत्पर्यन्तं न सन्नद्धः भवति। ते यावच्छक्यं प्रतिरोधं कुर्वन्ति। 

  जनाः गुप्तिषु ('बङ्कर्')  अन्तर्भौमस्थानेषु अभयं प्राप्ताः सन्ति। किन्तु कीव् नगरात् सपादलक्षं जनाः पलायिताः इति वार्ताहरैः सूचितम्।

 उत्तरप्रदेशे अद्य पञ्चमचरणं निर्वाचनम्।

लख्नौ> उत्तरप्रदेशे विधानसभानिर्वाचनस्य पञ्चमसोपानम् आरब्धम्। १२ जनपदानां ६१ विधानसभा स्थानेभ्यः ६९२ स्थानाशिनः स्पर्धन्ते। २. २४ मतदायकाः सन्ति। 

  कौशाम्बी जनपदस्थे सिरात्तुमण्डले उपमुख्यमन्त्री केशवप्रसादमौर्यः, अलहबादे सिद्धार्थनाथसिंहः, प्रतापगढे राजेन्द्रसिंहः, मङ्कापुरे रमापतिशास्त्री इत्येते चरणेSस्मिन् जनहिताकांक्षिणः प्रमुखाः भवन्ति। 

  परं सोपानद्वयमवशिष्यते। तत् मार्च् ३, ७ दिनाङ्कयोः विधास्यति।

Saturday, February 26, 2022

 युक्रैन् राष्ट्रस्योपरि रष्येण आरब्धान् आक्रमणान्  अपलपितुं प्रकाशितं यु एन् अभिमतपत्रं रष्येण निरोधाधिकारेण निराकृतम्। भारतं चीनः च अभिमतपत्रस्य प्रकाशनात् निस्सङ्गतया प्रतिनिवृत्तौ।

युनैट्टड् नेषन्स्> युक्रैन् राष्ट्रस्योपरि रष्येण आरब्धान् आक्रमणान् अपलपितुं तथा युद्धस्थगनं प्रवर्तयितुं यु एन् रक्षासमित्यां प्रकाशितम् अभिमतपत्रं रष्येण निरोधाधिकारेण (veto) निराकृतम्। भारतेन चीनेन च निसङ्गता अवलम्बिता। युक्रैन् राष्ट्रस्य आक्रमणान् शक्तियुक्तम् अपलपितुं तथा रष्यस्य सेनाम् आपत्कालीनतया प्रतिनिवर्तयितुं च आह्वानमेव अभिमतपत्रे उद्घोषितम्।

वर्षासमेतं करकवर्षः। नवदिल्ल्यां जनमनासु कौतुकमावहत् मनोहरदृश्यम्।

नवदिल्ली> दिल्लीनगरे सर्वत्र वर्षासमेतं  करकपातः कौतुकमजनयत्। शुक्रवासरे रात्रौ एव नगरे सर्वत्र अतिवृष्ट्या सह बृहद्रूपेण करकपातः अपि सञ्जातः। वातावरणमन्त्रालयस्य प्रतिवेदनमनुसृत्य नवदिल्ल्यां शुक्रवासरे उन्नततापमानम्२७.९°c आसीत्। न्यूनतापमानं१२.५°c इति रेखाङ्कितम्।

संयुक्तराष्ट्रसभायां भारतस्य आश्रयं प्रतीक्षते इति रष्यः। सैनिकप्रक्रमाः चीनेन अनुकूलिताः।

युक्रैन्> रष्यस्य सैनिकप्रक्रमेषु संयुक्तराष्ट्रसभायां निर्णायकम् अभिमतपत्रम् अवतारयितुम् भारतेन सन्नद्धे सति रक्षासमित्यां भारतस्य सहकारित्वं प्रतिक्षते इति रष्येण निगदितम्। युक्रैने अधुनातनासु अवस्थासु नीतान् कारणान् अधिकृत्य भारतस्य अतिदृढा धारणा अस्ति तथा राष्ट्रद्वयोः मध्ये प्रत्येकं नयतन्त्रपरं बन्धं पुरस्कृत्य भारतस्य पूर्णसहकारित्वं प्रतीक्षते इति रष्यस्य प्रतिनिधिस्थाने वर्तमानेन रोमन् बाबुष्कीनेन प्रोक्तम्।

Thursday, February 24, 2022

 युक्रैने रूसस्य आक्रमणमारब्धम्; शताधिकाः हता‌ः। 


मोस्को> युक्रैन-रूससंघर्षः तस्य परमकाष्ठां प्राप्तवान्। युक्रेनस्योपरि रूसराष्ट्रेण व्योमाक्रमणमारब्धम्। सैनिकाः स्थलमार्गेण चेर्णोबिल् नगरमुपयाति। युद्धापनयनाय अमेरिका, ब्रिट्टनादिभिः राष्ट्रैः कृताः सर्वे प्रयत्नाः विफलाः जाताः। 

  गुरुवासरस्य प्रभाते एव युद्धः आरब्धः। इतःपर्यन्तं शताधिकाः जनाः हताः। तेषु ४० युक्रेनसैनिकाः उपविंशति नागरिकाश्च अन्तर्भवन्ति। ५० रूस् सैनिकाः अपि व्यापादिताः इति युक्रनेन च निगदितम्। २०३ आक्रमणानि स्वेन कृतानीति रूसेन निगदितम्।

Tuesday, February 22, 2022

 के पि ए सी ललिता दिवंगता। 

कोच्चि> विख्याता मलयालचलच्चित्राभिनेत्री के पि ए सी ललिता ह्यः रात्रौ तृप्पूणित्तुरायां दिवंगता। ७४ वयस्का केरल संगीतनाटक अक्कादमी संस्थायाः अध्यक्षपदं अलङ्कुवर्वन्ती आसीत्। 

  १९६९ तमे संवत्सरे मलयालचलनचित्रमण्डलं प्रविष्टा सा ५२ संवत्सरान्तरेषु विविधासु भाषासु ५०० अधिकेषु चलच्चित्रेषु स्वाभिनयपाटवं प्रदर्शितवती। ततः पूर्वं केरलेषु विविधासु नाटकसमितिषु प्रवर्तितवती सा तत्रापि नाट्यप्रतिभां प्रदर्शितवती।  द्विवारं राष्ट्रियपुरस्कारेण समादृता। कैरल्याः निदेशकवरिष्ठः भरतः आसीत् तस्याः भर्ता। चलच्चित्रनिदेशकः नटश्च सिद्धार्थभरतः पुत्रः भवति। श्रीक्कुट्टी नामिका पुत्री अपि विद्यते।

 केरलेषु विद्यालयाः पूर्णतया उद्घाटिताः। 

कोच्ची> केरले विद्यालयेषु प्रथमकक्ष्यातः आरभ्य सर्वासु कक्ष्यासु सायं यावत् सोमवासरादारभ्य पूर्णोपस्थितित्वेन अध्ययनं विहितम्। पूर्वं १०,११,१२ इत्येताभ्यः कयक्ष्याभ्यः मात्रम आसीत् अपराह्णीयम् अध्ययनम्। १ आरभ्य ९ पर्यन्तं कक्ष्यासु मध्याह्नं यावत् विभागशः कक्ष्याः संवृत्ताः आसन्। 

  ह्यः ८२. ७७% छात्राणामुपस्थिति आसीदिति शिक्षामन्त्रालयेनोक्तम्। राज्यसर्वकारस्य कोविडनुशासनं परिपाल्य एव कक्ष्याः अनुवर्तन्ते।

 उत्तरप्रदेशे चतुर्थचरणनिर्वाचनं श्वः। 

नवदिल्ली> उत्तरप्रदेशे विधानसभानिर्वाचनस्य चतुर्थचरणं बुधवासरे सम्पत्स्यति। सघोषप्रचारणं सोमवासरे समाप्तम्। 

  ९ जनपदेषु ५९ स्थानेभ्यः ६२४ स्थानाशिनः स्पर्धावेदिकायां सन्ति। कृषकाणां प्रक्षोभवेलायां केन्द्रमन्त्रिणः अजय मिश्रस्य पुत्रस्य कार् यानघट्टनेन चत्वारः कृषकाः हताः इत्यनेन प्रकरणेन  सर्वदेशश्रद्धां प्राप्तं लखिंपुरमण्डलम् अपि श्वस्तनीये निर्वाचनमण्डले अन्तर्भवति।

Monday, February 21, 2022

 विधानसभानिर्वाचनं - उत्तरप्रदेशे ६१. ०२%, पञ्चाबे ७०% ।

नवदिल्ली> राष्ट्रे अनुवर्तमानायाः विधानसभानिर्वाचनपरम्परायाः तृतीयचरणे ह्यः उत्तरप्रदेशे ६१. ०२% मतदायकाः स्वाभिमतमङ्कितवन्तः। उत्तरप्रदेशनिर्वाचनस्य तृतीयचरणत्वेन १६ जनपदेषु ५९ मण्डलेष्वेव ह्यः निर्वाचनं सम्पन्नम्। २. १६ कोटि जनैः मतदानं विनियुक्तम्। 

  पञ्चाबराज्ये आहत्य विद्यमानेषु ११७ मण्डलेषु एकेनैव चरणेन सम्पन्ने निर्वाचने ७०% जनाः स्वाभिमतमङ्कितवन्तः।

Sunday, February 20, 2022

 युक्रैने रष्यस्यआक्रमणं यस्यकस्यापि क्षणे भवेत् इति जो बैडनः। विश्वं सर्वं आशङ्कायाम्।

मोस्को> युक्रैनम् आलक्ष्य रष्यस्य सैनिकपदक्षेपः यस्मिन् कस्मिन् वापि क्षणे  भवेत् इति प्रतिवेदनानि एव बहिरागच्छन्ति। शनिवासरे रविवासरे च राष्ट्रपतेः व्लाडिमिर् पुटिनस्य नेतृत्वे रष्यस्य सैन्यानि सैनिकाभ्यासान् कृतवन्तः। आगामिनि दिनेषु सैनिकाभ्यासाः अनुवर्तिष्यन्ते इति पूर्वसूचना अपि दत्ता अस्ति। बलारसदेशे रष्यस्य ३० सेनायूथानि आक्रमणाय सुसज्जानि भूत्वा समवेतानि इति नाट्टोसंस्थया रविवासरे निगदितम् आसीत्।

Saturday, February 19, 2022

 युक्रैन् सीमनि रष्येण युद्धविमानानि विन्यस्थानि। 

यु


क्रेन् देशस्य सोमनि रष्येण आधुनिकयुद्ध विमानानि विन्यस्थानि इति उपग्रहचित्राणि सूचयन्ति । मक्सार् संस्थया प्रकाशितात् चित्रात् पञ्चप्रदेशेषु विमानानां सान्निद्ध्यमस्ति इति सूचना उपलभ्यते । सीमनि कदाचित् युद्धं भविष्यति इति अमेरिकेन उक्तम् ।

Friday, February 18, 2022

 रूस् सेना न निवर्तितेति यू एस् ; ७००० सैनिकाः अपि युक्रेन सीम्नि। 

वाषिङ्टण्> युक्रेनसीमाप्रदेशात् कञ्चन सैन्यविभागं व्यनिवर्तत इति रूसस्य वादः अमेरिक्कया निरस्तः। किञ्च सप्तसहस्रं सैनिकाः रूसेन अधिकतया विन्यस्ताः इति यू एस् राष्ट्रेण निगदितम्। 

  रूस् सैनिकानां विनिवर्तनविषयः न दृढीकृतः इति युक्रेनेणापि उक्तम्। परन्तु निवर्तनमनुवर्तते, पूर्तीकर्तुं काल‌ः अपेक्षित इति रूसेन पुनरुक्तम्। सीमायां १. ३लक्षं रूसीय सैनिकाः वर्तन्ते। युक्रेनसीमायाः ६ कि मी दूरे बलारसनद्यां सेतुनिर्माणस्य उपग्रहचित्राणि बहिरागतानि।

उत्तरप्रदेशे विवाहकार्यक्रमान्तरे कूपं पतित्वा १३ मरणानि। 

कुशिनगरम्> उत्तरप्रदेशस्थे कुशिनगरे विवाहकार्यक्रमे सम्पद्यमाने महिलाः बालिकाः समेत्य १३ जनाः कूपं पतित्वा मृत्युवशं गताः। नौरांगिया टोला नामके ग्रामे इयं दुर्घटना जाता। १५ तः अरभ्य- ३५ वयस्कानां मध्ये एव प्रायः मृताः वर्तन्ते। 

  बुधवासरे 'हल्दी'नामक विवाहपूर्वोत्सवे सम्पन्ने कूपस्य उपरि स्थापितं संरक्षणजालं प्रभञ्ज्य तदुपरि स्थिताः जनाः कूपान्तरं पतिताः इति जनपदन्यायाधिपः एस् राजलिङ्गम् उक्तवान्। मृतानां परिवारेभ्यः ४ लक्षं रूप्यकक्रमेण दास्यतीति अधिकारिभिरुक्तम्।

Thursday, February 17, 2022

 केरले विधानसभामेलनं श्वः आरभ्य। 

अनन्तपुरी> १५ तमकेरलविधानसभायाः चतुर्थं सम्मेलनं राज्यपालस्य आरिफ् मुहम्मद खानस्य नयप्रख्यापनेन शुक्रवासरे आरभते। चरणद्वयात्मकमिदं मेलनं मार्च् २३तमे दिनाङ्के समाप्तिं प्राप्स्यति। मार्च् ११तमे दिनाङ्के राज्यस्य आयव्ययपत्रं वित्तमन्त्री बालगोपालः अवतारयिष्यति। 

  सम्मेलनस्य प्रथमचरणं १८ दिनाङ्कादारभ्य २४ पर्यन्तमस्ति। २५ - मार्च् १० पर्यन्तं विरामः विधत्तः। ११ तमे आयव्ययपत्रावतरणेन द्वितीयसोपानमारप्स्यते। 

   सम्मेलनकालः विधानसभायां बहुभिः  तर्कवितर्कैः विपक्षदलप्रक्षोभैश्च प्रक्षुब्धः भविष्यतीति राजनैतिकनिरीक्षकै‌ः प्रकल्प्यते।

 युक्रैन् सीमायाः स्वसेनां प्रतिनिवर्तते इति रष्येण ख्यापितम्।

मोस्को> युक्रेन् सीमानिकटे क्रैमियादेशात् सैनिकशक्तिप्रदर्शनानां विरामं कृत्वा सेनां प्रतिनिवर्तते इति रष्येण ख्यापितम्। युक्रैन् सीमायाः सैनिकान् स्वशिबिरं प्रत्यानेतुमारब्धम् इति गतदिने रष्येण ख्यापितमासीत्। तत्पश्चात् एव नूतनपदक्षेपः। दक्षिणसेनायाः जनपदविभागाः तेषां तन्त्रपराणि सैनिकशक्तिप्रदर्शनानि पूर्तीकृत्य पूर्वविन्यस्तशिबिरेषु प्रतिनिवर्तमानाः सन्ति इति रष्यस्य प्रतिरोधमन्त्रालयेन तेषां प्रतिवेदने सूचितम् अस्ति।

Wednesday, February 16, 2022

 युद्धभीषा - भारतीयाः तात्कालिकतया युक्रैन् देशात् स्वदेशं प्रत्यागच्छेयुः इति निर्देशः।

किव्> युद्धभीषा अनुवर्तमाने सन्दर्भे अस्मात् युक्रैन्देशात् तात्कालिकतया स्वराष्ट्रं प्रत्यागन्तुं युक्रैन् देशस्थेन भारतीयदूतावासेन निर्देशो दत्तः। युक्रैने अधिनिवेशनं कर्तुं रष्यः पूर्वसज्जीकरणं करोति इति यु एस् राष्ट्रस्य निरन्तरपूर्वसूचनायाः पश्चात् एव अयं प्रक्रमः। तत्रत्याम् अनिश्चितावस्थां परिगणय्य भारतीयेम्यः विशिष्य छात्रेभ्यः वासाय अनिवार्या आवश्यकता नास्ति चेत् युक्रैन् देशं परित्यज्य तात्कालिकतया स्वदेशं प्रत्यागन्तुं निर्देशो दत्तः।

 भारते कोविड्रोगिणाः प्रतिदिनसंख्या ३०,००० तः अधो जाता। 

नवदिल्ली> मङ्गलवासरस्य प्रभाते समाप्ते अहोरात्रे भारते २७,४०९ जनाः नूतनतया कोविड्बाधिताः अभवन्। ४४ दिनानामनन्तरं प्रथममेव रोगिसंख्या ३०,००० तः अधो प्राप्नोति। रोगस्थिरीकरणमानं २. २३% अस्ति। 

   ४,२३,१२७ जनाः परिचर्यायां वर्तन्ते। गतदिने ८२,८१७ जनाः  स्वस्थीभूताः जाताः। ३४७ मरणानि अभवन्। आहत्य मरणानि ५,०९,३५८। राष्ट्रे अशेषे १७३. ४२ कोटि प्रत्यौषधमात्राः वितरीताः।

Tuesday, February 15, 2022

 युक्रैन् - नयतन्त्रपरिहारः साध्यः इति रूस्।

मोस्को> युक्रैनप्रकरणे नयतन्त्ररूपेण परिहारस्य साध्यता पुनः अवशिष्यते इति रूस् राष्ट्रेण निगदितम्। सैनिकपरिशीलनेषु कानिचन स्थगयितुमुद्दिश्यते इति विदेशकार्यमन्त्रिणा सेर्जि लव् रोव इत्यनेनोक्तम्। 

  'नाटो' मध्ये अङ्गत्वं स्वकीयसुरक्षार्थं मुख्यमिति युक्रैनस्य राष्ट्रपतिः व्लादिमिर् सेलनस्कि इत्येषः उक्तवान्। जर्मनी राष्ट्रस्य चान्सलर् पदस्थेन ओलाफ् षोल्स् इत्यनेन सह कृते पत्रकारमेलने भाषमाणः आसीदयम्।

 निर्वाचनं शान्तिपूर्णम्। 

गोवा - ७५.२९%, यू पि- ६०. ४४%, उत्तरखण्डः - ६२.०५%। 

गोवा, उत्तरप्रदेशः, उत्तरखण्डः इत्येतेषु राज्येषु गतदिनस्य मतदानप्रक्रिया शान्तिपूर्णेन सम्पन्ना। उत्तरप्रदेशे ५५ मण्डलेषु द्वितीयचरणरूपेण, गोवा उत्तरखण्डराज्ययोः सर्वेषु मण्डलेषु च निर्वाचनं सम्पन्नम्। 

  किन्तु गोवा उत्तराखण्ड मण्डलद्वयेऽपि मतदानप्रतिशतता गतनिर्वाचनमपेक्ष्य न्यूना अभवत् इति दृश्यते।

Monday, February 14, 2022

विधानसभानिर्वाचनं - अद्य  गोवा, उत्तराखण्डः, उत्तरप्रदेशः। 

नवदिल्ली> गोवा, उत्तरखण्डः, उत्तरप्रदेशः इत्येतेषु राज्येषु सम्मतिदायकाः अद्य तेषां मतं प्रकाशयन्ति। उत्तरप्रदेशे जनहितस्य द्वितीयसोपानमेव अद्य प्रचलति। ९ जनपदेषु ५५ सभीयस्थानानां प्रत्याशिनां कृते मतदानं भविष्यति। 

   गोवायां ४० आसनेषु ३०१ स्थानाशिनः जनहितं कांक्षन्ते। आहत्य मण्डलेषु अद्यैव मतदानं भविष्यति। 

  उत्तरखण्डस्य आहत्य ७० मण्डलेषु अद्य निर्वाचनं प्रचलति। तत्र ६३६ स्थानाशिनः जनविधिकांक्षिणः वर्तन्ते। ८१. ७२लक्षं मतदायकाः सन्ति।

 भारतं चीनात् भीषामभिमुखीकरोतीति अमेरिक्का।

वाषिङ्टण्> भारतचीनयोः सीमामण्डले पूर्वलडाक् नामके स्थाने भारतं चीनात् भीषाम् अभिमुखीकरोतीति अमेरिक्कया बहिर्नीते 'इन्डो पसफिक्'आवेदनपत्रे परामृशति। जो बैडनस्य राष्ट्पतिपदप्राप्त्यनन्तरं प्रथमतया बहिर्नीतं 'इन्डो पसफिक्'आवेदनपत्रमेतत्। 

  चीनस्य कृत्यानि भारताय शक्तमभिग्रहं प्रददति। लडाक् मण्डले चीनेन क्रियमाणेन आर्थिक - सैनिक- नयतन्त्रशक्तिसम्पादनेन विश्वस्मिन् अतिशक्तं भवितुमुद्यममेव चीनेन  क्रियते इति आवेदनपत्रे सूचितम्।

Sunday, February 13, 2022

 तमिलनाटे कोविडस्य तृतीयं व्यापनं समाप्तमिति सर्वकारः। 

चेन्नै> तमिलनाट्राज्ये कोविड्रोगस्य तृतीयं व्यापनं समाप्तमिति सर्वकारस्य मूल्यनिर्णयः। ओमिक्रोणप्रभेदस्य व्यापनस्य शमनमभवदिति स्वास्थ्यमन्त्रिणा एं सुब्रह्मण्येनोक्तम्। परन्तु जाग्रत्ताप्रक्षेपाः अनुवर्तिष्यन्ते। वाक्सिनप्रदानकार्यक्रमाः अपि पूर्वाधिकमुत्तमरीत्या एव अनुवर्तिष्यन्ते। 

  कोविड्रोगिणां प्रतिदिनसंख्या ३०,००० इत्यस्मिन् स्थाने ३,००० अभवत्। टि पि आर् मानं तु इदानीं त्रि प्रतिशतं वर्तते। पूर्वं २० आसीदेषा संख्या।

 राहुल बजाजः दिवंगतः। 


मुम्बई> प्रमुखः उद्योगी तथा 'बजाज्' इति उद्योगसंस्थायाः भूतपूर्व अध्यक्षः राहुलबजाजः [८३] दिवंगतः। शनिवासरे अपराह्ने २. ३० वादने पूणैस्थे रूबि हाल् क्लिनिक् आतुरालये आसीत् तस्यान्त्यः। 

  १९६५ तमे वर्षे बजाज् संरम्भकसंघस्य अध्यक्ष्यपदं प्राप्तवान् राहुलः १९६८ तमे 'बजाज् ओटो' इत्यस्य सि ई ओ पदं , १९७२ तमे निदेशकमुख्यस्थानं च स्वीकृतवान्। तदनन्तरं चेतक् इति कृतनामधेयायाः द्विचक्रिकायाः निर्माणविपणनेन राष्ट्रस्य सामान्यजनेभ्यः सः प्रियोद्योग प्रदायी अभवत् 

  बजाज् ओटो संघस्य निदेशमुख्यः राजीव बजाजः, बजाज् फिन्सेर्व् इत्यस्य निदेशकप्रमुखः सञ्जीव बजाज, सुनैना केज्रिवाल् इत्येते तस्य अपत्यानि भवन्ति।

अचिरादेव युक्रैनं रूस् आक्रमिष्यतीति अमेरिक्का; वृथा भीतिं न जनयेदिति रूस्।

वाषिङ्टण्> अविलम्बेनैव रूस् राष्ट्रं युक्रैनं आक्रमिष्यतीति अमेरिक्कायाः पुनरुक्तिः। विमानेन बोम्बवर्षं कुर्वन्नेव रूसस्य आक्रमणमिति अमेरिक्कायाः पूर्वसूचना। किन्तु वृथा जनेषु भीतिं मा जनयेदिति रूस् राष्ट्रेण प्रत्युक्तम्। 

  युक्रैनस्य सीमासु रूसेन लक्षाधिकाः सैनिकाः विन्यस्ताः अपि अधिनिवेशमधिकृत्य आरोपणानि प्रारम्भे एव निरस्यते रूसेन। युद्धभीतेः आधारे रूस् राष्ट्रपतिना व्लादिमिर पुतिनेन सह यू एस् राष्ट्रपतिः जो बैडनः गतदिने ५० मिनिट्समयं यावत् दूरवाण्या संभाषणं कृतवान्।

Saturday, February 12, 2022

उदग्रयन्त्रस्य देशान्तरादानयनं भारतेन निरुद्धम्। केचन समाश्वासाः च प्रख्यापिताः।


उदग्रयन्त्रस्य देशान्तरादानयने भारतेन नियन्त्रणमानीतम्। युगपत् स्वदेशीयानाम् उदग्रयन्त्राणां निर्माणं प्रोत्साहयितुं केचन समाश्वासाः च सर्वकारेण ख्यापिताः। विकासः, प्रतिरोधः, सुरक्षा आवश्यानि इत्यादिभ्यः उदग्रयन्त्राणां देशान्तरादानयनं न निषिद्धम्। किन्तु एवं देशान्तरादानयनाय अनुमतिः आवश्यकी। उदग्रयन्त्रस्य भागाः विदेशादानयनाय विशेषानुमतिः न आवश्यकी इति मन्त्रालयेन विशदीचकार। विदेशीयोदग्रयन्त्रस्य निरोधनं संबन्ध्य ख्यापनं व्यवसाय -वाणिज्यमन्त्रालयस्य अधीने वर्तमानया सामान्य- विदेशवाणिज्यसंस्थया प्रकाशितम्। निरोधः सम्पूर्णतया विदेशे निर्मितानाम् उदग्रयन्त्राणामेव दापितः।

 नवीनं पाकिस्थानराष्ट्रं रूपीकर्तुं स्वयं पराजितः इति पाकिस्थानस्य प्रधानमन्त्री इम्रान् खानः।

इस्लामाबाद्> नवीनं पाकिस्थानराष्ट्रं रूपीकरिष्यामि इति निर्वाचनवाग्दानपालने पराजितः इति पाकिस्थानस्य प्रधानमन्त्रिणा इम्रान् खानेन प्रोक्तम्। विप्लवात्मकेन प्रक्रमेण राष्ट्रे अतिशीघ्र-परिवर्तनानि आनेतुं शक्यं इति पूर्वं सः चिन्तितवान्। किन्तु राष्ट्रे इदानीन्तनसुविधाः तदर्थं पर्याप्तं न भवन्ति इति तेन प्रत्यभिज्ञातम् इत्यपि सःउक्तवान्। पण्यानि वर्धितरूपेण विदेशविक्रयणं कृत्वा राष्ट्रं सुस्थिरं कर्तुं, जनानां जीवनसाहचर्यं सुखपूर्णं कर्तुं, दारिद्र्यनिर्माजनं कर्तुं च मन्त्रिणः प्रवर्तन्ते वा ? इति सः अपृच्छत्। राष्ट्रतात्पर्यस्य तथा प्रशासनसभायाः प्रवर्तनस्य च मध्ये महान् अन्तरः अस्ति इत्येषा एव अधुना प्रधानसमस्या इति तेन सूचितम्।

Friday, February 11, 2022

भारतस्य अणुशक्तिनिलयाः अन्तर्जालिकाक्रमणात् सुरक्षिताः इति केन्द्रमन्त्री।


भारतस्य अणुशक्तिनिलयाः अन्तर्जालिकाक्रमणात् सुरक्षिताः इति सर्वकारः राज्यसभायां न्यवेदयत्। भारतीय - अणु निलयानां रूपकल्पना, विकासाः, प्रवर्तनम् इत्यादीन् संबन्ध्य कठिनप्रक्रमाः स्वीकृताः सन्ति। स्वदेशे संस्फुटीकृताः यन्त्रांशाः तथा तन्त्रांशाः एव एतदर्थम् उपयुक्ताः। तत् अधिकारिणां परिशोधनाविधेयम् अनुमतिविधेयं च भवति। तत्कारणेनैव ते अन्तर्जालिकाक्रमणात् सुरक्षिताः च भवन्ति। आणवोर्ज -बाह्याकाश-सहमन्त्रिणा डो. जितेन्द्र सिंहेनैव राज्यसभायाम् एवं आवेदितम्।

Thursday, February 10, 2022

भौमकान्तिकचण्डवाते स्पेस् एक्स् इत्यस्य ४० स्टार्लिङ्क् उपग्रहाः विनष्टाः।

न्यूयोर्क्> सूर्यात् समुत्पन्ने भौमकान्तिक-चण्डवाते स्पेस् एक्स् ४० स्टार्लिङ्क् उपग्रहाः नष्टाः। लो एर्त् ओर्बिट्ट् मध्ये ४९ स्टार्लिङ्क् उपग्रहाणां नूतनप्रकरस्य विक्षेपानन्तरं कानिचन दिनाभ्यन्तरे भौम-कान्ति-कचण्डवाते उपग्रहेषु ४० संख्याकाः विनष्टाः इति स्पेस् एक्सेन विशदीकृतम्। फेब्रुवरि तृतीये दिने उपग्रहाणां विक्षेपानन्तरमेव भौमकान्तिकचण्डवातः जातः। चण्डवातः तु होराचतुष्टयं दीर्घितम् आसीत्।

अतिदुर्गमे लम्बाग्रपर्वतशिलारन्ध्रे पतितः युवकः सेनया रक्षितः। 

 अतिदुर्गमे लम्बाग्रपर्वतशिलारन्ध्रे पतितः बाबु नामकः केरलीययुवकः सेनया रक्षितः। पाशबद्धो भूत्वा युवकस्य निकटमागतः सैनिकः प्रथमं तस्मै जलमदात्। अनन्तरं २०० मीट्टर् अधस्तात् रज्जुमुपयुज्य बाबुं उपरि उत्थापितवान्। ४६ होरानन्तरमेव बाबुः रक्षितः। तं सेनायाः उदग्रयाने  पालक्काट् जनपदस्य आतुरालयं नीतः च। विशदस्वास्थ्यावलोकनानन्तरं तस्य स्वास्थ्यं समीचीनं चेत् बाबू बन्धुजनैः साकं गृहं प्रतिनिवर्तिष्यते।

Wednesday, February 9, 2022

 महर्षि-नारदपुरस्कारेण बलदेवानन्द -सागरः समादृतः।


उत्तरप्रदेश-संस्कृत-संस्थानं २०१९-वर्षे मार्चमासीये १८-दिनाङ्के संस्कृत-पत्रकारितायै प्रदीयमानं ‘महर्षि-नारदपुरस्कारम्’सुख्याताय संस्कृतकवि-लेखकाय, मीडिया-कर्मिणे पत्रकाराय च डॉ. बलदेवानन्द-सागर-वर्याय प्रदातुम् उदघोषयत्, यो हि कोरोनाकालस्य प्रभावेण, नातिचिरमेव तस्मै संचार-प्रैष (कोरियर)-माध्यमेन उपायनीकृतः। पुरस्कारोऽयं प्रशस्ति-पत्रेण, अङ्गवस्त्रेण, स्मारिकया सहस्रोत्तरलक्षरूप्यकाणां धनादेशपत्रेण च सहकृतः सागर-महोदयस्य आवासं प्रापितः।    

             १९५२-तमे वर्षे जून-मासे चतुर्दश-दिनाङ्के गुजरातस्य भावनगर-जनपदे चमारडी-ग्रामे, शांकर-गुरुपरम्परायां समुत्पन्नः डॉ. बलदेवानन्द-सागरः सद्गुरोः तपोमूर्तेः स्वामिनः शिवोऽहं-सागरवर्यस्य आशीर्वादानुग्रहैः विश्वनाथ-नगर्यां काश्यां विद्यार्जनस्य शुभावसरम् अवाप्नोत्। नवदिल्ल्याम् आकाशवाणीतः संस्कृत-वार्तानां सम्पादनानुवाद-प्रसारणस्य ४५-वर्षात्मकेन, दूरदर्शने च २२-वर्षात्मकेन अनुभवेन साकं डॉ.सागरः विश्वस्मिन्  दृश्य-माध्यमेषु प्रप्रथमस्य संस्कृत-वार्ताप्रसारकस्य यशस्तिलकम् अध्यगच्छत्। साम्प्रतमपि, असौ एतन्-माध्यम-द्वयात् अनारतं, भारतस्य माननीय-प्रधानमन्त्रिणः श्रीनरेन्द्रमोदिनः ‘मन की बात’- कार्यक्रमस्य संस्कृत-भाषान्तरस्य प्रसारणस्य च दायित्वं निभालयति। ‘संस्कृत-पत्रकारिताम्’ अधिकृत्य, ‘संस्कृतपत्रकारिता : इतिवृत्तम् अधुनातन-स्वरूपञ्च’- नाम्नः, प्रप्रथमं संस्कृतभाषया विरचित-पुस्तकस्य लेखन-सम्पादनाभ्यां सहैव सागरवर्यस्य एतद्-विषयकाः अनेके शोधलेखाः विभिन्नासु पत्र-पत्रिकासु सततं प्रकाश्यन्ते। एतदतिरिच्य, लेखक-कविः डॉ.सागरः, आधुनिकसंस्कृत-साहित्ये, संस्कृत-रंगकर्मणि अध्यापने च स्वीयं विशिष्टं योगदानं विदधाति। विविधैः पुरस्कारैः सम्मानितः डॉ.बलदेवानन्द-सागरः २०१८-तमे वर्षे संस्कृतभाषायाः पत्रकारितायाः च क्षेत्रे विशिष्ट-योगदानार्थं महामहिम्नः राष्ट्रपतेः “सम्मान-प्रमाणपत्र-प्रदानेन” सम्मानितः।

 विद्यालयाः महाविद्यालयाः च फेब्रुवरिमासस्य अन्तिमपादे पूर्णतया प्रवर्तनसज्जाः भविष्यन्ति। जनपदेषु नियन्त्रणानि अनुवर्तन्ते।

तिरुवनन्तपुरम्> केरलेषु विद्यालयेषु महाविद्यालयेषु च फेब्रुवरि मासस्य अन्तिमे पादे सर्वान् छात्रान् समाविश्य प्रातः आरभ्य सायाह्नपर्यन्तं प्रवर्तनाय सज्जीकर्तुं कोविडस्य अवलोकनयोगे निश्चितः। तदर्थं विद्यालयेषु सज्जीकरणानि समारब्धुं मुख्यमन्त्रिणा पिणरायी विजयेन निर्देशो दत्तः। ततः पर्यन्तं केवलं समार्धछात्रान् समाविश्य कक्ष्याः चालयिष्यन्ति।

 अरुणाचले हिमपातः - सप्त सैनिकाः अप्रत्यक्षाः।

इटानगरम्> अरुणाचलप्रदेशे कमेङ् नामकमण्डलस्य उच्चस्थानेषु क्रियमाणायां  निशापरिक्रमवेलायां जातेन महता हिमपातेन सप्त सैनिकाः अप्रत्यक्षाः अभवन्। चीनेन भूट्टानेन सह सीमांशं गृह्यमाणं १४,०००पादोन्नतपरिमितं जनवासरहितं वनप्रदेशमण्डलं भवति केमाङ्। 

  शैत्यकाले निशापरिक्रमणमत्र बहुदुष्करं भवति। कतिपयदिनेषु महान् हिमपातः अत्र वर्तते। किन्तु सर्वसन्नाहमुपयुज्य रक्षाप्रवर्तनमनुवर्तते इति सेनाधिकारिभिः उक्तम्।

विधानसभानिर्वाचनानि - प्रथमचरणं श्वः उत्तरप्रदेशे आरभ्यते। 

नवदिल्ली> पञ्चसु राज्येषु प्रचाल्यामानानां विधानसभानिर्वाचनानां प्रथमचरणं श्वः आरभ्यते। उत्तरप्रदेशस्य ११ जनपदेषु ५८ विधानसभामण्डलेषु च श्वः मतदानं भविष्यति। २. २७ कोटिजनाः प्रथमचरणे मतदानाधिकारं विनियोक्ष्यन्ते।

  ५८ मण्डलेषु सघोषप्रचारणं ह्यः समाप्तम्। ७ चरणैः उत्तरप्रदेशे निर्वाचनं विधातव्यमस्ति।

Tuesday, February 8, 2022

 पुतिनेन सह चर्चायै मक्रोणः मोस्को प्राप्तः।

मोस्को> यूक्रेन रूस् राष्ट्रयोः मिथः विप्रतिपत्तिं लघूकर्तुमुद्यमाय फ्रान्स् राष्ट्रपतिः मक्रोणः मोस्कोनगरं प्राप्तः। रूसस्य राष्ट्रपतिना व्लादिमिर् पुतिनेन सह सः चर्चां करिष्यति। यूक्रेनराष्ट्रमपि तेन संद्रक्ष्यति।

कोविड् वैराणुं नाशयितुं नैट्रिक् ओक्सैड् वातकः फलप्रदः इति अध्ययनम्।

नैट्रिक् ओक्सैड् वातकस्य श्वसनेन सार्क् कोविड् वैराणुं नाशयितुं शक्यमिति अध्ययनं सूचयति। कोच्चि देशे अमृत आतुरालयीयभिषग्वराः तथा अमृत विश्वविद्यापीठस्य च अधीने वर्तमानस्य अमृत स्कूल् ओफ् बयोटेक्नोलजि संस्थायाः वैज्ञानिकाः च समेत्य कृताध्ययने एव अवगतज्ञानमिदं दृढीकृतम्।

आतुरालये कृते प्रायोगिकाध्ययने नैट्रिक् ओक्सैड् चिकित्सां स्वीकृताः कोविड् 19 रोगिणः , सामान्य कोविड्चिकित्सा लब्धवतां रोगिणाम् अपेक्षया शीघ्रं रोगात् मोचनं प्राप्तवन्तः इति दृढीकृतः। तेषु मरणमानमपि शून्यमिति स्थिरीकृतम्।

Monday, February 7, 2022

अन्ताराष्ट्र-बाह्याकाशनिलयः २०३१ तमे संवत्सरे शान्तसमुद्रे निपतिष्यति।

अन्ताराष्ट्र-बाह्याकाशनिलयस्य प्रवर्तनं २०३० पर्यन्तम् अनुवर्तिष्यते।। तदनन्तरं २०१३ तमे संवत्सरे एतं शान्तसमुद्रे पातयिष्यति। नासया एव वार्तेयं सूचिता। १९९८ तमे संवत्सरे विक्षिप्तः बाह्याकाशनिलयः जनुवरि मासस्य ३१ तमे दिनाङ्के भ्रमणपथात् निष्कासयितुं नासया प्रक्रमाः समायोजिताः। भ्रमणपथात् विचलितः बाह्याकाशनिलयः क्रमेण भूमौ उप्लुत्य पसफिक् समुद्रे पोयन्ट् नेमो इति ख्याते स्थाने निपतिष्यति। तीरात् २७०० । कि. मि . दूरपरिधौ बाह्याकाशनिलय-श्मशानम् इति ख्याते अस्मिन् स्थाने एव उपग्रहाः, अन्ये मानवनिर्मितावशिष्टानि च आपातयिष्यन्ति।

रूस् राष्ट्रे प्रतिदिनकोविड्प्रकरणानि १.८ लक्षम्। 

मोस्को> रूस् राष्ट्रे कोविड्रोगिणः संख्या अनुदिनं वर्धते। गतदिनद्वये प्रतिदिनसंख्या १.८ लक्षम् अतीता। गतदिने ६६१ मरणानि चाभवन्। आराष्ट्रम् ओमिक्रोण् प्रभेद एव व्याप्यते इति अधिकृतैः निगदितम्। 

  गतमासमपेक्ष्य कोविड्बाधितानां संख्या दशगुणितमभवत्। सम्पूर्णपिधानं वा किमपि नियन्त्रणं वा सर्वकारेण न विधत्तम्। ओमिक्रोणः बालकानपि अबाधत इत्यतः सामान्यस्थानेषु ऊनाष्टादशवयस्कानां प्रवेशाय नियन्त्रणं विधत्तम्। 

  अद्यावधि राष्ट्रे १.८ कोटिजनाः कोविड्बाधिताः अभवन्। आहत्य मरणानि ३,३५,४१४ अभवन्।

अष्टसंवत्सरानन्तरं गूगिल् क्रोमस्य नूतनम् अभिज्ञानचित्रम् आगच्छति।

अष्टसंवत्सरकालावधौ गूगिल् क्रोमस्य नूतनम् अभिज्ञानचित्रम् (Logo) आगच्छति। पुरातनचित्रात् कैश्चित् परिवर्तनैः सह केचन ललितपरिष्काराः समायोज्य अभिज्ञानचित्रम् सज्जीकृतम्। विलम्बं विना सर्वेषु उपकरणेषु चित्रम् उपलभ्येत।

Sunday, February 6, 2022

भारतस्य प्रियगीतिका लता मङ्केष्करः दिवंगता। 

मुम्बई> जवाहरलालनेह्रूमहोदयेन भारतस्य प्रियगीतिका इति विशिष्टनामधेया गानसरस्वती लतामङ्केष्करः [९२] अद्य प्रभाते मुम्बय्यां ब्रीच् कान्टी आतुरालये मृत्युमुपगता। कोविड्बाधिता सा सप्ताहं यावत् परिचर्यायामासीत्। अन्त्येष्टिक्रियाः अद्य सायं मुम्बय्यां शिवजीउद्याने विधास्यन्ति। 

  भारतीयसंगीतस्य महाराज्ञिपदमलङ्कृता सा ३६ अधिकासु भाषासु उप ४०,००० चलच्चित्रगानानाम् आलपनेन आराष्ट्रं जनानां मनसि चिरप्रतिष्ठामवाप्तवती। लतायाः वियोगे राष्ट्रपतिः प्रधानमन्त्री उपराष्ट्रपतिः इत्यादयः अनेके अन्यराष्ट्रियनेतारश्च अनुशोचनं प्रकाशितवन्तः। दिनद्वयात्मकं देशीयदुःखाचरणं च प्रख्यापितम्।

 ऊनविंशतिः वयोमितानाम् विश्वचषकक्रिकेटस्पर्धा भारतेन विजिता

- पुरुषोत्तम शर्मा -

भारत-इङ्ग्लैण्डयोः मध्ये क्रीडिता ऊनविंशतिः वयोमितानाम् विश्वचषकक्रिकेटस्पर्धा भारतेन विजिता। निर्णायकस्पर्धायां भारतेन चतुः क्रीडकाणां सुरक्षापूर्वकम् इङ्ग्लैण्डदलं पराजितम्। अयं पञ्चमः अवसरः यदा भारतेन इयं स्पर्धा विजिता। पणकं विजित्य इङ्ग्लैण्डदलेन आदौ धावनाङ्कनिर्माणं स्वीकृतम्। भारतेन नवत्यधिकैकशतं धावनाङ्कानां लक्ष्यम् अष्टचत्वारिंशे कन्दुकक्षेपचक्रे सम्प्राप्तम्। भारतस्य राजबावाय श्रेष्ठप्रदर्शनात् स्पर्धापुरुषः इति प्रदतः च।

 २१६ पादोन्नता रामानुजाचार्यस्य समत्वप्रतिमा प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पिता।

हैदराबाद्> एकादशशतके सामूहिकपरिष्कर्ता तथा भक्तसन्यासी इति प्रख्यातस्य श्रीरामानुजाचार्यस्य समत्वप्रतिमा प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पिता। प्रतिमा एषा ज्ञानस्य प्रतिरूपं भवति। श्रीरामानुजेन यत् उद्घोषितं तत् विश्वाय मार्गदर्शकं भूयात् इति प्रार्थये इति उद्घाटनसमारोहे प्रधानमन्त्रिणा निगदितम्। वसन्तपञ्चमीदिने एव प्रतिमा समर्पिता। भारतस्य पौराणिकसंस्कृतिं परिपोषयति एषा प्रतिमा। २१६ पादोन्नता प्रतिमा पञ्चलोहेन निर्मिता भवति। हैदराबाददेशे षंषाबादे ४५ एक्कर् विस्तृते भवनसमुच्चये एव प्रतिमा स्थापिता। विश्वस्मिन् उपविश्यमानरूपेण वर्तमानासु प्रतिमासु बृहत्तमा लोहप्रतिमा भवति एषा।

'भद्रवेदी' नाम ५४ पादोन्नते भवने एव प्रतिमा स्थापिता। भवने एका अङ्कीयग्रन्थशाला, अनुसन्धानकेन्द्रं, श्रीरामानुजाचार्यस्य कृतयः तथा तत्त्वचिन्ताप्रतिपादकः शैक्षिकमंचः (gallery),  एका रङ्गभूमिः (theatre) च सज्जीकृता अस्ति।

 कोविड् - केरलम् आश्वासतीरमायाति। 

अनन्तपुरी> केरलराज्ये डिसम्बरमासस्य अन्तिमदिनेषु आरब्धस्य कोविड्तृतीयतरङ्गस्य तीव्रता गतेन दिनत्रयेण आकुञ्चमाना दृश्यते। प्रतिदिनरोगस्थिरीकरणमानं [TPR%] प्रतिदिनरोगिणां संख्या च अधोमुखेन आक्ञ्चतीति आश्वासस्य विषयः। फेब्रुवरि द्वितीयवारे प्रतिदिनसंख्या दशसहस्राधः भविष्यतीति स्वास्थ्यनिपुणैः गण्यते। अतः राज्ये कोविड्नियन्त्रणेषु लाघवं विधत्तम्। 

  डिसम्बर् २७तमे दिनाङ्के राज्ये १६३६ कोविड्प्रकरणानि प्रस्तुतानि। तृतीयतरङ्गस्य प्रारम्भदिनमिति मन्यमाने २८ तमे दिनाङ्के २४७४ नूतनाः रोगिणः अभवन्। ततः प्रतिदिनरोगिणां संख्या लम्बतया वर्धमाना आसीत्। जनुवरि १२तमे नूतनरोगिणः १२७४२ अभवन्। ततः पञ्चमे दिने २२,९४६ अभवत् रोगिसंख्या। २५तमे दिनाङ्के ५५,४७५ जनाः रोगबाधिताः अभवन्। तृतीयतरङ्गस्य अत्युच्चस्था संख्या एषा आसीत्। ततः रोगिणां प्रतिदिनसंख्या क्रमेण आकुञ्चिता अभवत्। 

  ह्यः ३३,५३८ नूतनरोगिणः जाताः। टिपिआर् मानं तु ३२.६३ आसीत्। रविवासरेषु विधत्तं पिधानसमानं नियन्त्रणं अद्यापि अस्ति।

Saturday, February 5, 2022

 संस्कृतेः समार्जने कलायाः अतीव प्राधान्यमस्ति।

फुजैरा> संस्कृतेः समार्जने सर्गात्मककलानाम् अतीव प्रधान्यमस्ति इति फुजैरादेशस्य उत्तराधिकारिणा शैख् मोहम्मद् बिन् हमद् बिन् मोहम्मद् अल् शर्खिणा प्रोक्तम्। फुजैरा अल् हनिया मरुप्रदेशे इट्टलीदेशस्य शिल्पिना जागो नामकेन निर्मितम् 'अत्र पश्यतु' इति कलारूपं सन्द्रष्टुम् आगतः आसीत् मोहम्मद् अल् शर्खि। फुजैरा सर्वकारस्य सहकारतया इट्टलीदेशात् फुजैरादेशं प्रति नीत्वा स्थापितम् आसीत् एतत् शिल्पम्। शिशोः आकारसदृशं शिल्पमिदम् इदानीं सन्दर्शकान् कलास्वादकान् च हठादाकर्षत् विराजते।

Friday, February 4, 2022

 बेयिजिङ् ओलिम्पिक्स् उद्घाटन-समापन कार्यक्रमान् तिरस्कर्तुं भारतेन निश्चितम्।

नवदिल्ली> २०२२ बेयिजिङ् ओलिम्पिक्स् उद्घाटन-समापन कार्यक्रमान् तिरस्कर्तुं भारतेन निश्चितम्। भारतस्य चीनस्य च मध्ये गाल्वान्देशे जाते प्रतिद्वन्दे व्रणितः चीनस्य लिबरेषन् सेनाध्यक्षः क्वि फबावो दीपशिखां समुद्वहति इति कारणेनैव कार्यक्रमः  तिरस्कर्तुं भारतेन निश्चितम्। केन्द्रविदेशकार्यमन्त्रालयस्य वक्त्रा अरिन्दं बग्जिना  वार्तामेलने वार्तेयं आवेदिता।

ऐ एस् मुख्यः निहतः इति अमेरिक्का। आक्रमणे स्त्रियः बालिकाबालकौ च  निहताः।

वाषिङ्टण्> ऐ एस् मुख्यः अबु इब्राहिं अल्- हाष्मि अल् - खुरैषिः सेनया व्यापादितः इति अमेरिक्का। उत्तरपश्चिमसिरियादेशे यु एस् सेनया कृते आक्रमणे एव अल् - खुरैषि मृतः इति यु एस् राष्ट्रपतिना जो बैडनेन प्रोक्तम्। ' सायुधसेनायाः निपुणतायै धीरतायै च धन्यवादान् अर्पयामहे इति बैडनेन स्वप्रस्तावे अवदत्। दौत्ये भागं स्वीकृताः सर्वे अमेरिक्कादेशीयाः सुरक्षिताः सन्तः प्रत्यागताः इत्यपि तेन सूचितम्।

Thursday, February 3, 2022

 ३७० अनुच्छेदस्य निरासानन्तरं जम्मूकश्मीरे ४३९ भीकराः हताः इति केन्द्रसर्वकारः।

नवदिल्ली> ३७० अनुच्छेदस्य निरासानन्तरं जम्मूकश्मीरे अद्यावधि ४३९ भीकराः निहताः तथा केन्द्रप्रशासनप्रदेशे भीकरप्रवर्तनसम्बन्धिनः ५४१ घटनाः पञ्चीकृताः इत्यपि आभ्यन्तरसहमन्त्रिणा नित्यानन्दरायेन राष्ट्रसभायां आवेदितम्। ३७० अनुच्छेदस्य निरासानन्तरं९८ सामान्यजनानां जीवनाशः अभवत्।१०९ सैनिकाः वीरमृत्युं प्राप्ताः इति आभ्यन्तरसहमन्त्रिणा प्रोक्तम्।

 कोविड् चिकित्सामालिन्यानि परिस्थितिभीषां जनयति इति विश्वस्थास्थ्यसंस्था।

कोविड् चिकित्सालयात् बहिः व्यापृतानि चिकित्सामालिन्यानि मानवाय परिस्थितेः च भीषाः भविष्यन्ति इति विश्वस्वास्थ्यसंस्थायाः पूर्वसूचना । मालिन्यसंस्करणसुविधायाः पुनःशोधनमधिकृत्य विश्वस्वास्थ्यसंस्थायाः नूतनावेदने इयं पूर्वसूचना प्रकाशिता। अयुताधिकं टण् मितानि चिकित्सकीयमालिन्यानि एव कोविड् महामारिकारणेन जातानि। एतानि आविश्वं स्वास्थ्यसुविधायै भीषां जनयन्ति।

Wednesday, February 2, 2022

 तमिल्नाटे शैक्षिकसंस्थाः उद्घाटिताः। 

चेन्नई> तमिल्नाटुराज्ये कोविड्व्यापनेन पिहिताः विद्यालयाः कलालयाश्च पुनरुद्घाटिताः। पिधाने लाघवानि प्रख्यापितानि इत्यतः प्रथमकक्ष्यायाः आरभ्य +२ पर्यन्तासु कक्ष्यासु ह्यः आरभ्य सम्मुखाध्ययनमारब्धम्। १००% छात्रेभ्यः विद्यालयान् प्रति आगमनाय अनुज्ञा दत्ता। 

  कोविडमाधारीकृत्य अनुशासनानि पालनीयानीति राज्यस्य स्वास्थ्यमन्त्रिणा एम् सुब्रह्मण्येन निगदितम्। आराज्यं १.१० कोटि छात्राः अध्ययनं कुर्वन्ति।

 विश्वक्रीडापुरस्कारः श्रीजेषाय। 

लोसान्> गतवर्षस्य श्रेष्ठः विश्वक्रीडक‌ः [World games athlete of the year] इति पुरस्काराय भारतस्य यष्टिक्रीडादलस्य लक्ष्यस्थानपालक‌ः आर् श्रीजेषः चितः। विविधराष्ट्रेभ्यः चितेभ्यः २४ क्रीडकान् मतदानप्रक्रियया पृष्ठतः अपसृत्य एव केरलीयोऽयम् अनेन अन्ताराष्ट्रपुरस्कारेण समादृतः। 

  अनेन पुरस्कारेण समाद्रियमाणः द्वितीयः भारतीयक्रीडको भवति श्रीजेषः। टोक्यो ओलिम्पिक्स् मध्ये भारताय कांस्यपतकं प्राप्तवान्। भारतस्य ध्यान्चन्द् खेल्रत्नपुरस्कारोऽपि अनेन लब्धः आसीत्।

 ई- पारपंत्रं, ५ जि, अङ्कीयरूप्यकं च अस्मिन् संवत्सरे- आयव्ययसंकल्पप्रख्यापनम्।


राष्ट्रे ई - पारपत्रसौविध्यं विलम्बं विना प्रवृत्तिपथमानेष्यति इति वित्तमन्त्रिण्या निर्मलासीतारामेण प्रोक्तम्। २०२२-२३ आर्थिकसंवत्सरे ई पारपत्रसौविध्यं पौरजनेभ्यः लप्स्यते। पारपत्रस्य बाह्यपुटे ई-शकलं, सुरक्षासंबन्धिविवरणानि च आलेखयिष्यन्ति। अधिकसुरक्षासुविधया सम्पन्नं भविष्यति ई- पारपत्रम्।

५जि (पञ्चम-जनरेषन्) इत्यस्य शीघ्रवार्ताविनिमयोपाधेः उपयोगार्थं अनुमतिः अस्मिन् संवत्सरे एव चालयिष्यति इति मन्त्रिण्या आयव्ययसंकल्पभाषणे आवेदितम्।२०२२-२३ आर्थिकसंवत्सरे एव ५जि सेवाः राष्ट्रे लप्स्यते।


 अङ्कीयरूप्यकम्।

नवदिल्ली> २०२२-२३ संवत्सरे अङ्कीयरूप्यकं प्रकाशयिष्यति इति आयव्ययसंकल्पे ख्यापितम्। गुप्तव्यवस्थाशृङ्खला (block chain), अन्यानि प्रौद्योगिकविज्ञानानि च उपयुज्य अङ्कीयरूप्यकाणि भारतीय रिज़र्व वित्तकोशः प्रकाशयिष्यन्ति। एतानि आर्थिकक्षेत्रे प्रचोदकानि भविष्यन्ति इति वित्तमन्त्रिण्या प्रोक्तम्।

Tuesday, February 1, 2022

राष्ट्रं ८.८५% अभिवृद्धिं प्राप्स्यति इति आर्थिकसर्वेक्षणम्

नवदिल्ली> आगामिनि आर्थिकसंवत्सरे राष्ट्रं ८.८५% अभिवृद्धिं प्राप्स्यति इति आर्थिकसर्वेक्षणफलं सूचयति। आयव्यय-सङ्कल्पं पुरस्कृत्य वित्तमन्त्रिण्या निर्मला सीतारामेण संसदे समर्पिते आर्थिकसर्वेक्षणे एव अभिवृद्धिः भविष्यति इति सूचना। भूरिजनैः कोविड्प्रतिरोधवाक्सिनं स्वीकृतम् इत्यतः आर्थिकस्वरूपस्य प्रत्यागमने शीघ्रता भविष्यति इत्यपि सर्वेक्षणं ज्ञापयति।