OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 31, 2020

भारते सम्पूर्णपिधानं सोपानबद्धतया निराक्रियते। 
राष्ट्रस्य उद्घाटनाय सोपानत्रयं विहितम्! उद्घाटनं १ जूण् ८ दिनाङ्कतः!
 नवदिल्ली >  ६७ दिनानां पिधानस्यानन्तरं राष्ट्रोद्घाटनाय भारतम्। जूण् प्रथमे दिने आरभ्यमाणे पिधानस्य पञ्चमसोपाने केवलं तीव्रमण्डलेष्व कर्कशनियन्त्रणानि विधास्यन्ति। अन्यमण्डलप्रदेशेषु सोपानबद्धतया साधारणप्रवर्तनानि अनुमोदितुं केन्द्रशासनेन 'अण्लोक् -१'नामकाः मार्गनिर्देशाः उद्घुष्टाः। 
  मुख्याः निर्देशाः - 
* अपिधानं - १ काले$पि मुखावरणधारणं, सामाजिकदूरपालनम् इत्यादीनि अवश्यानि!
* विवाहः,मरणानन्तरक्रिया इत्यादीनां सामान्यकार्यक्रमाणां नियन्त्रणमनुवर्तिष्यते!
* तीव्रमण्डलेभ्यः बहिः कानि कानि नियन्त्रणानि  आवश्यकानीति तत्तद्राज्यसर्वकारैः निर्णेतुं शक्यते! 
* जूण् ८तः आराधनालयाः विपणिकलापाः, भोजनालयाश्च उद्घाटनीयाः! 
 'अपिधानं २' सोपाने  विद्यालयानामुद्घाटनविषये राज्यसर्वकारैः सह चर्चां कृत्वा अन्तिमनिर्णयः कार्यः! अपिधानस्य तृतीयसोपाने चलच्चित्रशालाः ,उद्यानानि , इत्यादीनां सामान्यजनसम्पर्कमण्लानां विषयेषु निर्णयः भविष्यति!
राष्ट्रस्य कोविड्प्रतिरोधः एकमनसा एव - अमितशाहः। 
               नवदहली > कोविड्प्रतिरोधप्रवर्तनेषु राष्ट्रम् एकमनसा एव अग्रेसरत् वर्तते इति केन्द्रगृहमन्त्री अमितशाहः। ऐक्यस्यास्य संरक्षणेन कोविड्युद्धे विजयः सुनिश्चित एव इति सः अवदत्। आनुकूल्यसहितेन पञ्चमवारपिधानेन राष्ट्रं पूर्वस्थितिं प्राप्स्यति इत्यपि सः अभिप्रयत्। राज्यान्तरीयकर्मकराणां जीवनसमस्यासु केन्द्रसर्वकारस्य श्रद्धा अवश्यं वर्तते, कोविड्प्रतिरोधप्रवर्तनेषु राज्यैः सह पर्यालोच्य एव केन्द्रसर्वकारेण निर्णया: स्वीक्रियन्ते प्रख्याप्यन्ते च - अमितशाहः असूचयत्।

Friday, May 29, 2020

कायिकम् - भारतस्य प्रथमा विदेश 'डे नैट् टेस्ट्' स्पर्धा डिसम्बरमासे।
       सिड्नी> भारतस्य प्रथमा विदेश डे नैट् टेस्ट् स्पर्धा डिसम्बरमासे ओस्ट्रेलियमध्ये प्रचलिष्यति। एतत्सम्बन्ध्य समयसारिणी क्रिकेट् ओस्ट्रेलियसंस्थया प्रख्यापिता वर्तते। अस्यां श्रेण्यां चतस्रः स्पर्धाः वर्तन्ते। प्रथमा स्पर्धा डिसम्बरमासस्य ११ दिनाङ्कतः १५ दिनाङ्कपर्यन्तम् अड्लेय्ड्मैताने प्रचलिष्यति। समयसारिणी प्रख्यापिता चेदपि कोविड्१९ रोगस्य तदानीन्तनावस्थां निरीक्ष्य एव क्रिकेट्स्पर्धानां सञ्चालनं भविष्यति इत्यपि क्रिकेट् ओस्ट्रेलियसंस्थया प्रस्तावितम्।
एम् पि वीरेन्द्रकुमारः दिवंगतः। 

राज्यसभासदस्यः, भूतपूर्वः केन्द्रमन्त्री, 'मातृभूमी' दिनपत्रिकायाः अध्यक्षः, प्रमुखः साहित्यकारः , .....कर्मनिरतः जनकीयनेता। 
अन्त्यः ह्यः रात्रौ ११.३०, अन्त्यकर्माणि अद्य सायं पञ्चवादने वयनाटस्थे स्वगृहे।
कोष़िक्कोट् >  साहित्यकारः, प्रभाषकः, कर्मनिरतः सामाजिकः, प्रमुखः 'सोष्यलिस्ट्'नेता , भूतपूर्वः केन्द्रमन्त्री, पत्रकारितामण्डलेषु कृहस्तः नेता .... इत्यादिभिः बहुभिर्विशेषणैः अलङ्क्रियमाणः एम् पि वीरेन्द्रकुमारः दिवंगतः। ह्यः रात्रौ ११.३०वादने कोषिक्कोटस्थे कस्मिंश्चित् निजीयातुरालये हृदयाघातेन आसीत् तस्य परलोकप्राप्तिः। अन्त्यकर्माणि अद्य सायं ५ वादने वयनाटस्थे पुलियार्मलनामके जन्मग्रामे स्वगृहे सम्पत्स्यति। 
  जनतादलमिति राजनैतिकदलस्य अध्यक्षपदं बहुकालमलङ्कृवान् वीरेन्द्रकुमारः केन्द्रमन्त्रिसभायां वित्तमन्त्रालये वृत्तिमन्त्रालये च सहमन्त्रिरूपेण बहुकालं कार्यं कृतवान्।  इदानीं केरलतः राज्यसभासदस्यः भवति। 
  साहित्यमण्डले च सः स्वकीयां व्यक्तिमुद्रामालेखितवान्। सांस्कृतिक- दार्शनिकविषयेषु असंख्यानां प्रौढानां कृतीनां कर्ता भवति वीरेन्द्रकुमारः। केन्द्र-केरलसाहित्याक्कादमीपुरस्काराः , ओडक्कुष़ल् पुरस्कारः, वयलार् पुरस्कारः इत्यािभिः बहुभिः पुरस्कारैः सम्मानितः। 
  पत्रकारमण्डले अपि तस्य स्थानम् अद्वितीयमासीत्। 'मातृभूमि' इति कैरलीपत्रिकायाः चेयर्मान्, मानेजिङ् एडिट्टर् च अस्ति। प्रस् ट्रस्ट् आफ् इन्डिया इत्यस्य उपाध्यक्षः, कोमण् वेल्त् प्रस् यूणियन् अङ्गः, इन्डियन् न्यूस् पेपर् सोसैटि इत्यस्य निर्वाहकसमित्यङ्गः एतादृशानि बहूनि पदानि तेन अलंकृतानि। 

Thursday, May 28, 2020

लद्दाख समीपस्थं व्योमनिलयं चीना विकासयति ; धावनमार्गे युद्धविमानानि। 
नवदिल्ली > संघर्षावस्थायां वर्तमानायाः लद्दाख प्रविश्यायाः समीपस्थं व्योमनिलयं चीनया विकास्यते इति सूचना। मेय् ५, ६ दिनाङ्कयोः 'पाङ्कोङ्' ह्रदसमीपं  भारत-चीनसैनिकयोर्मिथः प्रतिद्वन्द्वः संवृत्तः आसीत्। ततः २०० कि. मी. दूरस्थे व्योमनिलये महन्निर्माणप्रवर्तनानि प्रचलन्तीति उपग्रहचित्रैः स्पष्टते। 'एन् डि टि वि' वार्ताप्रणाल्या एवेयं वार्ता बहिरागता। 
  टिबटस्थे 'एन्गारि गुन्सा' व्योमनिलये एव निर्माणप्रवर्तनानि प्रचलन्ति।उदग्रयानानां युद्धविमानानां च अवतारणाय द्वितीयं भाटकयानमार्गमपि निर्माति। 
  विमाननिलयस्थस्य मुख्यधावनमार्गस्य किमपि समीपचित्रं उपग्रहचित्रेषु विद्यते। तत्र चैनाव्योमसेनायाः चत्वारि युद्धविमानानि दृश्यन्ते। तानि 'जे - ११' अथवा 'जे - १६' नामकानि युद्धविमानानि स्युः इति संभाव्यते।

Wednesday, May 27, 2020

राष्ट्रान्तराण्यपेक्षया भारते कोविड्१९ मरणानुपातः न्यूनः - स्थास्थ्यमन्त्रालयः।
          नवदहली> अन्यानि विश्वराष्‍ट्राण्यपेक्षया कोविड्१९ मरणानुपातः भारते न्यूनः इति स्वास्थ्यमन्त्रालयस्य अवलोकनम्।  विश्वे कोविड्१९ मरणानुपातः लक्षे ४.४ भवति, किन्तु भारते अनुपातोऽयं ०.३ भवति इति स्वास्थ्यमन्त्रालयः सूचयति। भारते रोगमुक्तेः अनुपातः ४१.६१ भवति। रोगबाधितेषु ६०४९० जनाः कोविड्१९ मुक्ताः अभवन्। इतरराज्येषु कर्म कुर्वतां जनानां प्रत्यागमनेन विविधराज्येषु कोविड्१९ रोगिणां संख्यायामपि वर्धनं जातं दृश्यते इत्यपि स्वास्थ्यमन्त्रालयः अवालोकयत्।
भारते कोविड्१९ रोगनिर्णयपरीक्षणं वर्धितम् - ऐ सि एम् आर्।
        नवदहली> गतमासेषु भारतराष्ट्रे कोविड्१९ रोगनिर्णयपरीक्षणं वर्धितम् इति ऐ सि एम् आर्। भारते अधुना प्रतिदिनं १.१ लक्षं रोगनिर्णयपरीक्षणं क्रियते इति ऐ सि एम् आर् अध्यक्षः डा.बलरामभार्गवः अवदत्। राष्ट्रे वर्तमानासु ६१२ कोविड्१९ रोगनिर्णयप्रयोगशालासु ४३० प्रयोगशालाः सर्वकारीयाः भवन्ति इत्यपि सः अवदत्। प्रयोगफलं दृश्यते इत्यतः कोविड्१९ प्रतिरोधाय राष्ट्रे हैड्रोक्सिक्लोरिक्विन् औषधस्य प्रयोगम् अनुवर्तयिष्यति,अपि च अस्य औषधस्य प्रयोगेण पार्श्वफलानां काठिन्यमपि न्यूनं भवति - सोऽवदत्। सुरक्षायाः आशङ्कतया विश्वस्वास्थ्यसमित्या हैड्रोक्सिक्लोरिक्विन् औषधस्य प्रयोगः आंशिकतया निरोधितः आसीत्। किन्तु भारते  औषधप्रयोगविषये गतसप्ताहेषु कृतानां पठनानाम् आधारेण एव  औषधस्यास्य प्रयोगाय ऐ सि एम् आर् पक्षतः निर्देशः दत्तः वर्तते।
यु एन् शान्तिदौत्यसम्बन्धतया भारतस्य सैनिककर्मचारिण्यै पुरस्कारः।
मेजर् सुमन् गवानी
       जनीव> भारतस्य सैनिककर्मचारिण्यै ऐक्यराष्ट्रसमितेः पुरस्कारः। यु एन् शान्तिदौत्यसम्बन्धतया एव 'मेजर् सुमन् गवानी' महोदयायै ऐक्यराष्ट्रसमित्‍या पुरस्कारोऽयं कल्पितः वर्तते। २०१९ तमवर्षस्य युणैटट् नेषन्स् मिलिटरि जेन्टर् नामकः पुरस्कारः एव लब्धः वर्तते। 
        ब्रसीलराज्यस्य कार्ला मोन्टय्रो दे कास्ट्रो अरौजो नामिकायै वनिताकर्मचारिण्यै अपि सुमन् गवानी महोदयया सह पुरस्कारः कल्पितः अस्ति। सुमन् गवानी अधुना यु एन् दौत्यविभागे मिलिटरि ओब्सेर्वर् नामिकायां पदव्यां सौत्सुडान् मण्डले कार्यं कुर्वन्‍ती अस्ति। अनेन पुरस्कारेण आदृता प्रथमभारतीया भवति इयम्।

Tuesday, May 26, 2020

यात्रा नियन्त्रणे समाश्वासः, यू.ए.ई. सामान्यावस्थायां प्रत्यागच्छति।
     दुबई> यु.ए.ई. मन्दं सामान्यावस्थां प्रति आगच्छति। तदर्थम् दुबय्यां यात्रा नियन्त्रणे समाश्वासः प्रदत्तः। बुधवासरतः प्रभाते ६वादनतः रात्रौ ११वादनपर्यन्तं बहिः गन्तुं नियन्त्रणं नास्ति। औद्यमिकसंस्थानाः, जनजीवितं च सामान्य- अवस्थायाम् आनयितुमेव एमिरेट्स् उद्दिश्यति। धनकार्यमण्डले कोरोणा रोगाणुना सृष्टं समस्यायाः परिहारं लक्षीकृत्य भवति नूतनाः निर्देशाः।
    'अमर्तषील्' केन्द्राः सामान्यसमयक्रममनुसृत्य उद्घाटयेयुः। अल्पशो वा बहुशो वा विक्रेतृभ्यः साधारणरीत्या प्रवर्तयेत्। प्राथमिकस्तरस्य चिकित्सालयानां प्रवर्तनानुमतिः दत्ता। लघुशस्त्रक्रिया अपि अत्र कर्तुं शक्यते। शिशोः अध्ययनानुगुण-चिकित्सा-केन्द्राणां साधारणरीत्या प्रवर्तनाय अनुज्ञा अस्ति। कायपालन-केन्द्रेभ्यः, चलनचित्र-शालाभ्यः प्रवर्तनानुमतिः अस्ति। शारीरिकदूरं पालयित्व एव अत्र जनानां प्रवेशः। मुखावरणं आवश्यकं च। निश्चितहोराभ्यन्तरे  अणुनाशनम् करणीयमिति निर्बन्धः अस्ति।
दुबई व्योमयाननिलयं प्रति विदेशेभ्यः  समागतान् यात्रिकान् स्वीकर्तुं सज्जीकृतः। विदेशेषु आगतवन्तः निश्चयेन १४दिनानि यावत् एकान्तवासः पालनीयः। ६०वयः उपरि जनाः,१२वयः अधः शिशुः च बहिर्गमनं न करणीयम्।
     सौदि अरेब्यायामपि नियन्त्रणेषु गुरुवासरतः क्रमेण समाश्वासः भविष्यति। सामान्य-जनान् दैनं दिनजीवने प्रत्यागन्तुं प्रारम्भाणि प्रवर्तनानि सौदिराष्ट्रेण क्रियन्ते।

Monday, May 25, 2020

कोविड् चिकित्सार्थं केरलस्य स्वास्थ्य सेवकानां सेवनम् महाराष्ट्रेण  अपेक्षितम्।
        मुंबई>कोविड् रोगाणुव्यापनम्  अनियन्त्रित रूपेण वर्धिते साहचर्ये कोविड् चिकित्सार्थं केरलात् वैद्यानां, अनुवैद्यानां च साहाय्यम्  महाराष्ट्र सर्वकारेण अपेक्षितम्।
एतदर्थं महाराष्ट्र स्वास्थ्यशिक्षायाः सूत्रधारः टी.पी.लहाने स्वास्थ्य मन्त्रिणी के.के.शैलजायै पत्रं प्रेषितवान्।
     कुशलान्  ५० वैद्यान् १००अनुवैद्यान् च प्रेषणीयम्  इत्यस्ति महाराष्ट्रस्य प्रार्थना। मुंबई, पूने इत्यादि नगरयोः केरलस्य स्वास्थ्यप्रवर्तकान् विन्यस्तुं महाराष्ट्र सर्वकारः उद्दिश्यते।
ताना नगरात् रविवासरे सायं काले प्रस्थितुं निश्चितस्य श्रमिक् रेलयानस्य यात्रां  कैरलसर्वकारस्य प्रतिषेधेन अन्तिमहोरायां स्तगितम् अभवत्I यात्रिकेभ्यः ई-पास् नास्ति, एकान्तवासगृहाणि आवश्यकतानुसारं सज्जीकर्तुम् अधिकः समयः आवश्यकः इति केरलं महाराष्ट्रं प्रति अभ्यर्थितम्। विगते २५ घण्टान्तरे ३०४१ जनाः महाराष्ट्र राज्ये कोविड् महाव्याधिना  बाधिताः। एवं राज्यस्य कोविड् रोगबाधितानां संख्या ५०००० अतीतः। मरणसंख्या तु १६३५ इति अवर्धत। प्रतिदिनं रोगबाधितानां तथा मृतानां संख्या वर्धिते साहचर्ये एव केरलराज्यस्य साहाय्यमपि महाराष्ट्रेण अपेक्षितम्।
चन्द्रेमण्डलं तथा मङ्गलग्रहं प्रति मानवं प्रेषयिष्यते-नासा।
      वाषिङ्टण्> नाससंस्थया चन्द्रेमण्डलं तथा मङ्गलग्रहं प्रति मानवं प्रेषयिष्यते। तदर्थं परीक्षणाध्ययनाय मानवान् आह्वयते नासया। अष्टमासपर्यन्तं एकान्तवासं कारयित्वा एव अध्ययनं प्रचालयिष्यतेI रष्याराष्ट्रे  तदर्थं एकान्तवसतेः निर्माणं प्रचलतिI  एकान्तगृहे मङ्गलग्रहस्य समानावस्था सज्जीक्रियते। विविधराष्ट्रेभ्यः निर्वाचिताः भविष्यन्ति अध्ययनार्थिनः। निर्वाचनाय अर्हता निर्णीय विज्ञापिता अस्ति। आङ्लेय रष्यभाषयोः प्रवीणाः भवन्तु। 30 - 55 मध्ये भवतु आयुः। पि एच् डि, एम् डि, एम् एस् उपाधिषु एका लब्धा भवन्तुl अथवा सैनिकशिक्षा प्राप्तवन्तः भवन्तु।
विश्वे कोविड्बाधिताः ५५ लक्षमुपगच्छन्ति ; मृत्युसंख्या ३,४६,००० अतीता। 
 > आविश्वं कोविड् व्यापनस्य मानम् आशङ्कायमानं वर्धते। ह्यः अर्धरात्रं यावत् ५४,९१४४८ जनेषु रोगः स्थिरीकृतः। ३,४६,५३५ जनाः मृताश्च। गते २४ होराभ्यन्तरे ६६,६३५ जनेषु रोगः दृढीकृतः १९२८ जनाः मृत्युवशं गताश्च। रोगमुक्तिः इतःपर्यन्तं २२,८७,४१४ जनानामस्ति। 
  रोगबाधिनानां संख्यायाम् अमेरिक्का अग्रिमस्थाने वर्तते - १६,७६,४६० रोगबाधिताः। रविवासरे एव ९६३२ जनेषु रोगः स्थिरीकृतः। 
  द्वितीयस्थाने ब्रसील् राष्ट्रं तिष्ठति। ३,५२,७४० जनाः तत्र रोगबाधिताः अभवन्। २४ होराभ्यन्तरे ५३५० जनान् रोगः अबाधत। तृतीयस्थाने रूस् राष्ट्रं वर्तते - ३,४४,४८०। 
  भारते इतःपर्यन्तं १,३१,८६८ जनेषु रोगः स्थिरीकृतः। मृत्युसंख्या ३,८६७ अभवत्। ५४,४४१ जनाः रोगमुक्ताः अभवन्।

Sunday, May 24, 2020

'गगनयान्' परियोजना पुनरारब्धा।
     बङ्गलुरु> ऐ एस् आर् ओ संस्थायाः 'गगनयान्' इति स्वप्नपरियोजनायाः प्रारम्भप्रवर्तनानि पुनरारब्धानि। कोविड्१९ व्यापनस्य सन्दर्भे समापितः बहिराकाशसञ्चारिणां परिशीलनकार्यक्रमः एव रष्यदेशस्य रोस्कोमोस् नामके बहिराकाशगवेषणकेन्द्रे पुनरारब्धः वर्तते। दौत्याय सज्जीकुर्वतां  चतुर्णां भारतीयानां बहिराकाशसञ्चारिणां परिशीलनं पुनरारब्धम् इति कोस्मोस् अधिकृतैः सूचितम्। चत्वारः अपि आरोग्यसम्पन्नाः इत्यपि अधिकृतैः सूचितम्। आवश्यकसुरक्षाक्रमीकरणानि स्वीकृतानि वर्तन्ते च। बहिराकाशवाहनस्य नियन्त्रणं, विषयसम्बन्धं ज्ञानं, बहिराकाशगतिनिर्णयः इत्यादिषु अंशेष्वेव मुख्यं परिशीलनम्। २०२० फेब्रुवरिमासस्य दशमदिनाङ्के परिशीलनम् आरब्धमासीत्। रष्यदेशस्थं परिशीलनानन्तरं भारते अपि परिशीलनं पूर्तीकरणीयम्। ततः परमेव गगनयानयात्रा आरभ्यते इति ऐ एस्‌ आर् ओ अविशदयत्।
भारते केषुचिद्राज्येषु कोविड् नियन्त्रणातीतम्। 
चेन्नै > भारते कोविड् रोगबाधा केषुचित् राज्येषु इतःपर्यन्तं  नियन्त्रणातीतं वर्तते। महाराष्ट्रं, गुजरात्, तमिल्नाट्, मध्यप्रदेशः, दिल्ली उत्तरप्रदेशः, राजस्थानं पश्चिमबङ्गाल् इत्येतेषु राज्येषु रोगबाधा मरणानि च अनुवर्तन्ते। 
  विविधेषु राज्येषु रोगबाधितानां संख्या , कोष्ठके मृत्युसंख्या । महाराष्ट्रं - ४४,५८२ [१५१७] , गुजरात् - १३,२७३ [८०२] ,तमिल्नाट् - १५,५१२ [१०३], दिल्ली - १२,९१० [२३१] , मध्यप्रदेशः - ६१७० [२७२], राजस्थानं - ६६५७ [१५६], उत्तरप्रदेशः - ५७३५ [१५२], पश्चिमबङ्गाल् - ३३३२ [२६५] ।
  आन्ध्रप्रदेशः, बिहार, कर्णाटकं, पञ्चाब् इत्येतेषु राज्येषु कोविड्रोगिणः द्विसहस्रमतीताः। केरले रोगबाधिताः ७९४, मृत्यवः ४ च भवन्ति। 
  मुम्बई, चेन्नै, दिल्ली, अहम्मदाबाद् इत्यादिषु नगरेषु कोविड्बाधा नियन्त्रणातीता वर्तते।
केरले कोविड्रोगिणां संख्या उद्गच्छति। 
कोच्ची > कोविड्रोगसंक्रमणनियन्त्रणे विश्वादर्शभूते केरले कतिपयदिनैः रोगिणां संख्या उद्गच्छति। रोगिषु बहुभूरिणः स्वराज्यं प्रत्यागतवन्तः प्रवासिजनाः इतराराज्येभ्यः आगतवन्तः च। सम्पर्केण रोगबाधिताः तारतम्येन न्यूनातिन्यूनमिति आश्वासजनकं वर्तते। 
  ह्यः ६२ जनेषु रोगः स्थिरीकृतः। १८ विदेशादागतवन्तः, ३१ राज्यान्तरेभ्य आगताश्च। सम्पर्केण १३ जनाः रोगिणः अभवन्। तेषु ७ स्वास्थ्यप्रवर्तकाः।  अनेन दिनद्वयेन १०४ जनाः रोगबाधिताः अभवन्। 
  २७५ जनाः इदानीम् आतुरालयेषु चिकित्सायां वर्तन्ते। विदेशेभ्यः इतरराज्येभ्यः प्राप्तान् जनान् एकान्तवासाय नियुज्य निरीक्षितुं शक्यते इत्यतः रोगव्यापनसंख्या नियन्त्रणविधेया अस्ति।
उम्पुण् चक्रवातः - बङ्गालराज्ये सैन्यस्य सेवनम्।
         कोल्कत्ता> उम्पुण् चक्रवातस्य आक्रमणेन दुरितमनुभवति बङ्गालराज्ये रक्षाप्रवर्तनाय सैन्यं विन्यस्य केन्द्रसर्वकारः। बङ्गालस्य मुख्यमन्त्रिण्याः ममता बानर्जिमहोदयायाः प्रार्थनां परिगण्य एव केन्द्रसर्वकारेण निर्णयोऽयं स्वीकृतः वर्तते। सैन्यस्य पञ्च संघाः एव सेवनाय आगताः वर्तन्ते। अधुना एन्‌ डि आर् एफ् विभागस्य दश संघाः बङ्गाले सेवनं कुर्वन्तः सन्ति।  स्थितिगतीः निर्णेतुं गतदिने प्रधानमन्त्रिणा नरेन्द्रमोदिना बङ्गालराज्यं सन्दर्शितं, तदा अधिकसाहाय्यं सम्बन्ध्य ममता बानर्जिमहोदयया अभ्यर्थितम् आसीत्।

Saturday, May 23, 2020

चन्द्रेमण्डलं तथा मङ्गलग्रहं प्रति मानवं प्रेषयिष्यते-नासा। 
        वाषिङ्टण्> नाससंस्थया चन्द्रेमण्डलं तथा मङ्गलग्रहं प्रति मानवं प्रेषयिष्यते। तदर्थं परीक्षणाध्ययनाय मानवान् आह्वयते नासया। अष्टमासपर्यन्तं एकान्तवासं कारयित्वा एव अध्ययनं प्रचालयिष्यतेI रष्याराष्ट्रे  तदर्थं एकान्तवसतेः निर्माणं प्रचलतिI  एकान्तगृहे मङ्गलग्रहस्य समानावस्था सज्जीक्रियते। विविधराष्ट्रेभ्यः निर्वाचिताः भविष्यन्ति अध्ययनार्थिनः। निर्वाचनाय अर्हता निर्णीय विज्ञापिता अस्ति। आङ्लेय रष्यभाषयोः प्रवीणाः भवन्तु। 30 - 55 मध्ये भवतु आयुः। पि एच् डि, एम् डि, एम् एस् उपाधिषु एका लब्धा भवन्तुl अथवा सैनिकशिक्षा प्राप्तवन्तः भवन्तु।

Friday, May 22, 2020

पश्चिमबङ्गालराज्याय केन्द्रसर्वकारस्य १००० कोटि रुप्यकाणां धनसाहाय्यम्। 
       उम्पुण् चक्रवातेन दुरितमनुभवते पश्चिमबङ्गालराज्याय केन्द्रसर्वकारपक्षतः १००० कोटि रुप्यकाणां धनसाहाय्यम् प्रख्याप्य प्रधानमन्त्री नरेन्द्रमोदी। दुरन्तकारणेन मृत्युमुपगतां जनानां कुटुम्बाय २ लक्षं रुप्यकाणि, व्रणितेभ्यः ५०००० रुप्यकाणि च समाश्वासधनत्वेन दास्यति इति नरेन्द्रमोदी अवदत्। उम्पुण् चक्रवातेन सञ्जातानां नाशनष्टानां तथा पुनरधिवासप्रवर्तनानां च मूल्यनिर्णयाय अचिरादेव केन्द्रसङ्घं प्रेषयिष्यति। दुरन्तपूर्णेऽस्मिन् सन्दर्भे राष्ट्रं पूर्णतया पश्चिमबङ्गालजनतया सह वर्तते - नरेन्द्रमोदी समाश्वासयत्।
सम्पूर्णपिधानम् - लङ्घनं प्रतिरोद्धुं राज्यसर्वकारेभ्यः केन्द्रगृहमन्त्रालयस्य निर्देशः।

       नवदहली> राष्ट्रे कोरोणभीत्या प्रख्यापितं सम्पूर्णपिधानम् अधुना चतुर्थस्तरं प्रविष्टमस्ति। चतुर्थस्तरेऽस्मिन् काले कठिननियन्त्रणेभ्यः केन्द्रसर्वकारेण सौलभ्यं च दत्तं वर्तते। किन्तु बहुत्र निर्देशानां लङ्घनादिकमपि सञ्जातम्। अतः मार्गनिर्देशानां पालने राज्यसर्वकारैः अतीव श्रद्धा देया इति संसूच्य सर्वेभ्यः मुख्यकार्यदर्शिभ्यः केन्द्रगृहमन्त्रालयेन लेखनं प्रेषितं वर्तते। तीव्रबाधितमण्डलेष्वपि निर्देशानां लड्घनं जातमिति लेखने सूचितं वर्तते। भारते कोविड्१९ बाधितानां संख्या अधुना ११२३५९ अभवत्। अत्र चतुर्विंशतिघण्डाभ्यन्तरे ५६०९ जनेषु कोविड्बाधः स्थिरीकृतः अस्ति। एतावता कोविड्बाधेन ३४३५ जनाः मृताः अभवन्। ६३६२४ जनाः अधुना चिकित्सायां वर्तन्ते।  कोविड्बाधितेषु ४५२९९ जनाः मुक्ताः च अभवन्।

Thursday, May 21, 2020

उम्पुण् चक्रवातः बङ्गालराज्ये अतिशक्तः - मरणसंख्या ७२

     कोल्कत्ता> उम्पुण् चक्रवातः अतिशक्ततया बाधिते बङ्गालराज्ये मरणसंख्या ७२ अधिगता इति मुख्यमन्त्रिणी ममता बानर्जी। सन्दर्भेऽस्मिन् अधिकं केन्द्रसाहाय्यम् आवश्यकमिति सा असूचयत्। प्रधानमन्त्रिणा नरेन्द्रमोदिना बङ्गाराज्यसन्दर्शनं करणीयमित्यपि ममता बानर्जी अवदत्। प्रतिघण्टं १८५ कि.मि भवति चक्रवातस्य वेगः। चक्रवाताक्रमणेन एकलक्षं कोटि रुप्यकाणां नाशः जातः इति मुख्यमन्त्रिणी अवदत्। वृक्षाणां पतनेन बहुत्र सञ्चारमार्गाः अवरुद्धाः सन्ति। कोल्कत्तवैमानिकसङ्केते पूर्णतया जलोपप्लवः बाधितः वर्तते। मृतानां परिवारेभ्यः राज्यसर्वकारेण धनसाहाय्यं प्रख्यापितमस्ति।

Wednesday, May 20, 2020

उम्-पुन् चक्रवातः - पश्चिमबंगाले 12 हताः 5500 गृहाणि भग्नानि।
      कोल्कोत्त> ११०-१२० वेगेन समागतेन  उम्-पुन् चक्रवातेन ५५०० गृहाणि भग्नानि। द्वे स्त्रिये वृक्षपतनेन मृत्युम् उपगते। आहत्य द्वादशजनाः पश्चिमबंगाले मृताःl कोल्कत्ता नगरेपि सौधाः भग्नाः।  पश्चिम बंगालतः ५००००० जनाः ओरीसायाः लक्षं जनाः च सुरक्षितशिबिरं प्रति नीताः सन्ति। राष्ट्रिय दुरन्तनिवारण सेनायाः ४१ सङ्घाः ओरीसा बंगालयोः रक्षाप्रवर्तनाय नियुक्ताः सन्ति। कोविड् अणुबाधायाः व्यापनकाले रक्षाप्रवर्तनानि दुष्‌कराणि इति  सेनाध्यक्षेण एस् एन् प्रधान् इत्याख्येन  पूर्वम् उक्तमासीत्। 
वार्तामुक्तकानि। 
जूण् मासतः २०० वातानुकूलरहितरेल् यानानि।
नवदिल्ली >  आगामिमासस्य प्रथमदिनाङ्कादारभ्य २०० वातानुकूलरहिताः सविशेषाः रेल् यानसेवाःआरब्धुं रेल्मन्त्रालयेन निश्चितम्। यानानां मार्गक्रमः कालक्रमश्च अचिरादेव प्रख्यापयिष्यति। ओण्लैन् आरक्षणमेव भवेत्। 
  अधिनिवासितकर्मकराणां कृते 'श्रमिक्' रेल् यानानां संख्यां युगलीकर्तुमपि निश्चिमस्ति। 
 १० , +२ परीक्षाकेन्द्राणि परिवर्तयितुं सन्दर्भः।
अनन्तपुरी >  पिधानकाले विदूरस्थानेषु बन्धितानां एस् एस् एल् सि , तथा +२ छात्राणां कृते सुविधाप्रदानि परीक्षाकेन्द्राणि ओण्लैन् द्वारा चयितुम् अवसरः। गल्फादि प्रदेशेषु शिक्षां कृतवन्तः छात्राः इदानीं स्वदेशे विद्यन्ते चेत् अत्रैव अनुयोज्येषु स्थानेषु परीक्षां लेखितुं शक्यन्ते। आदेशः अचिरादेव भविष्यतीति सामान्यशैक्षिकनिदेशककार्यालयेन निगदितम्।
भारते कोविड्रोगिणः एकलक्षाधिकषड्सहस्रम्।
नवदिल्ली > भारते गतदिने ५८९० जनेषु कोविड् स्थिरीकृतम्। अनेन रोगिणां संख्या १,०५९८६ इत्युदगच्छत्। आहत्य मृत्युसंख्या तु ३,२१२। 
  महाराष्ट्रे रोगबाधिताः ३७,१५८ अभवन्। गुजराते तमिल्नाटे च विषाणुबाधितानां संख्या प्रतिराज्यं १२,००० अतीता। आभारतं ४०,८५६ रोगममुक्ताः जाताः। 
केरले अधिकानि शैथिल्यानि। 
अनन्तपुरी > पिधानस्य चतुर्थसोपाने प्रख्यापिते केरलं केन्द्रशासनस्य मार्गरेखामाधारीकृत्य अधिकानि शैथिल्यानि अनुमोदितानि। जनपदेषु आभ्यन्तरबस् यानसेवा निबन्धनाभिः आरब्धा। सुवर्णाभरणशालाः वस्त्रशालाः इत्यादयः उद्घाटयिष्यन्ति।
उम्-पुन् चक्रवातः तीरं प्राप्तः। शक्ता वृष्टिः सागरजलोद्गमनं च अनुवर्तेते।
       नवदिल्ली> वङ्ग समुद्रस्य उतरपश्चिमभागे उत्पन्नः उन् पुन् चक्रवातः वङ्गतीरं प्राप्तः। अद्य मध्याह्नानन्तरं २ः३० वादनतः तीरभागेषु वातः वाति। चत्वारहोरात्मकः भविष्यति वातस्य प्रभावः इति वातावरणनिरीक्षण- केन्द्रेण निगदितम्। १९० कि.मी वेगेन भवति इदानीं वातस्य वीजनम्।
एष्या भूखण्डेषु वेगेन कोरोणा व्यापितं राष्ट्रं भारतम्I 
     नवदिल्ली> भारते कोरोणा वैराणुग्रस्थाः लक्षम् अतीताः।  एष्य भूखण्डेषु वेगेन कोरोणा व्यापितं राष्ट्रं भारतं भवति इत्यस्ति नूतनम् आवेदनम्। राष्ट्रे पिधान-नियन्त्रणादिकं लघूकृत्य  आर्थिकप्रयत्नानि समारब्धे काले भवति ईदृशम् आवेदनम्। 1,01,328 जनाः रोगग्रस्तानां पट्टिकायां सन्ति। त्रिसहस्रात् परं जनाः मृताःl ब्लूम् बेर्ग् इत्यस्य कोरोणावैराणु अनुधावनाङ्कानुसारं गत सप्ताहे रोगग्रस्थतामानकं प्रतिशतं 28 इति वर्घितम्। 42,125 रोगबाधिताः  903 मृताः इति आवेदिते पाकिस्थाने  रोगग्रस्थतामानकं प्रतिशतं 19 इति आवेदितम् अस्ति।

Tuesday, May 19, 2020

उम्पुण् चक्रवातः शक्तिम् आर्जितवान्I अति तीव्रशक्त्या तीरं प्राप्स्यते इति वातावरण-निरीक्षणकेन्द्रम्। पूर्वोत्तर राज्येषु अतीव-जाग्रता- निर्देशः ज्ञापितः।
         कोल्कत्त> बङ्गाल् समुद्रे उम्पुण् चक्रवातः  तीव्रशक्त्तिं प्राप्नोति। २७५ कि.मी अस्ति अस्य वेगःI श्वः मध्याह्नेन वातः तीरं प्राप्स्यते इति वातावरण-निरीक्षणकेन्द्रेण उच्यते।   पूर्वोत्तर राज्येषु अतीव-जाग्रता-निर्देशः ज्ञापितः अस्ति। इदानीं भारतस्य पूर्वतीरस्य समान्तर रीत्या पूर्वोत्तर दिशि भवति वातस्य सञ्चारपथः। पश्चिम-बंगालं, आन्ध्राप्रदेशः, ओडीषा राज्येषु वातः इदानीं वाति। पश्चिम-बंगालः ओडीषा राज्याभ्यां जनाः सुरक्षितस्थानं  प्रति नयन्तः सन्ति। दुरन्तनिवारण-सेनायाः ३७ सङ्घाः इदानीं विन्यस्थाः सन्ति।
पलायनस्य अनुस्यूतप्रवाहसाक्षीभूता राजधानिनगरी। 
पलायनाय यतितः अधिनिवासितकर्मकरपरिवारः आरक्षकनिरुद्धः सन् सेतुस्तम्भस्य अधः विश्राम्यति। 
 
 नवदिल्ली >  इतरराज्यकर्मकराणां पलायनेन  राजधाननगरी दिल्ली निरुद्धश्वासा वर्तते। दशसहस्रशः जनाः उत्तरप्रदेशः, बिहारः , मध्यप्रदेशः इत्यादिस्थान् स्वग्रामान् गन्तुं बस् यानानि प्रतीक्ष्यमाणाः दिल्ल्याः सीमाप्रदेशेषु सम्भूयमानाः सन्ति। केचित्तु धनविनष्टाः तीव्रं ग्रीष्मातपम् अनालक्ष्यमाणाः बहुयोजनादूरे वर्तमानान् ग्रामान् लक्ष्यीकृत्य पदसञ्चलननिश्चेन वर्तन्ते। प्रस्थिताः केचन आरक्षकैः निरुद्धाः। 
  सीमाजनपदे गासियाबादे वर्तमानं रामलीलाक्रीडाङ्कणं 'श्रमिक्' रेल् यानान्याश्रित्य स्वदेशं गन्तुमिच्छुभिः कर्मकरैः निर्भरमस्ति। 
  शतशः कर्मकराणां पलायने पूर्वदिल्लीस्थं 'मयूरविहारं' ह्यः साक्षीभूतमभवत्। तीव्रातपे श्रान्ताः बहवः मेट्रोस्तम्भानां निस्थानानां चाधः अभयं प्राप्तवन्तः। एकैकशः संघशश्च पद्भ्यां चरतां कर्मकराणां दृश्यं  दुःखदं भवति।

Monday, May 18, 2020

कोविडस्य उत्भवस्थानम् अवगन्तव्यम्, पक्षरहितान्वीक्षणं वाञ्चन्ति विश्वराष्ट्राणि।
       जनीव> कोविड् बाधा परिहाराय  विश्वस्वास्थ्यसंस्थाया कृतान्  प्रक्रमान्  अधिकृत्य स्वतन्त्रान्वेषणम् आवश्यकम् इति ६२ राष्ट्राणि | ओस्ट्रेलिय यूरोप्यन् यूणियन् च प्रथमतया अन्वीक्षणं वाञ्चितौ। अद्य समारब्धे ७३ तमे विश्वस्वास्थ्यमेलने अन्वीषणाय संयुक्तापेक्षा (परिहारपत्रं) दास्यन्ति। कोविडस्य उत्भवस्थानम्। विषाणोः व्यापनं, प्रतिरोधप्रक्रमान् च अधिकृत्य स्वास्थ्य-संस्थया कृतानां प्रवर्तनानां समग्रान्वीषणं च अवश्यकं इति परिहारपत्रे लिखितम् अस्ति। 

Sunday, May 17, 2020

आत्मनिर्भरभारताभियानम् - पञ्चमस्तरप्रख्यापनम्।
        नवदहली> आत्मनिर्भरभारताभियाननामिकायाः आर्थिकोत्तेजक-परियोजनायाः पञ्चमं तथा अन्तिमं च विशदीकरणं धनमन्त्रिणी निर्मला सीतारामन् अकरोत्। स्वाश्रयभारतनिर्माणं परियोजनायाः अस्याः मुख्यं लक्ष्यं वर्तते इति धनमन्त्रिणी अवदत्। तदर्थं राष्ट्रस्य समस्तविभवानाम् उपयोग: कार्यः इति सा अवदत्। प्रधानतया ७ मण्डलानि आधारीकृत्यैव अन्तिमे प्रख्यापने प्रामुख्यं दत्तं दृश्यते। देशीयग्रामीणकर्मप्रदानपरियोजना, आरोग्यमण्डलं, व्यापारः, व्यापारसङ्‌घनियमः, व्यापारारम्भाय कल्पितव्यवस्थानां सरलीकरणं, राज्येभ्यः ऋणत्वेन दीयमानं धनसाहाय्यम् इत्यादिषु सप्तसु मण्डलेषु अद्‌य प्रख्यापनमभवत्। केन्द्रसर्वकारेण ८.१९ कोटिजनेभ्यः धनवितरणं कृतम्। ६.८१ कोटि पाचकवातकस्तम्भानां वितरणं तथा जन्धनसुविधाद्वारा २० कोटिरुप्यकाणां  वितरणं च कृतं वर्तते। आरोग्यमण्डले १५००० कोटिरुप्यकाणां वितरणं कृतम्। राज्येभ्यः ऋणत्वेन दीयमानं धनसाहाय्यं ५% इति वर्धितम्। शैक्षिकमण्डले साङ्केतिकविद्यायाः उपयोगः कार्यक्षमतया क्रियते, राष्ट्रस्य सर्वकारनियन्त्रणविधेयानां सामान्यस्तरीयस्थापनानां संख्या न्यूनीक्रियते, देशीयग्रामीणकर्मप्रदानपरियोजनायाः कृते ४०००० कोटिरुप्यकाणाम् अधिकधनसाहाय्यं च प्रख्यापितेषु अंशेषु प्राधान्यमावहन्ति।
जन्मदेशं प्रतिगमनं मृत्युयात्रा अभूत्। 
१५ अधिनिवासितकर्मकराः ट्रक् यानदुर्घटनायां मृताः। 
औरय्या  >  उत्तरप्रदेशस्थे औरय्या - काण्पुरराष्ट्रियमार्गे अधिनिवासितकर्मकरयुक्तं ट्रक् यानं स्थगितभारवाहनेन सह घट्टनेन २५ कर्मकराः मृताः। ४० आहताः। आहतेषु १४ कर्मकराणामवस्था गुरुतरा वर्तते। शनिवासरे उषसि त्रिवादने आसीदियं दारुणा दुर्घटना। 
  दिल्लीतः मध्यप्रदेशं गतवदासीत् भारवाहनम्। अस्मिन्नपि पलायमानाः कर्मकराः आसन्। किन्तु विश्रान्त्यर्थं मार्गपार्श्वे स्थगितमासीत्। राजस्थानात् उपपञ्चाशत् अधिनिवासितकर्मकरैः युक्तं ट्रक् यानं स्थगितं भारवाहनं प्रति घट्टितमासीत्। झार्खण्डः- पश्चिम वंग स्वदेशीयाः कर्मकराः आसन् ट्रक् याने।

Saturday, May 16, 2020

आत्मनिर्भरभारताभियानम् - चतुर्थस्तरप्रख्यापनम्। 
     नवदहली> प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रख्यापितस्य आत्मनिर्भर-भारताभियान-नामिकायाः परियोजनायाः चतुर्थस्तरप्रख्यापनम् अद्य धनमन्त्रिणी निर्मला सीतारामन् अकरोत्। स्वयंपर्याप्तभारताय कल्करी-धातु-व्योमयान-प्रतिरोध -केन्द्रशासनप्रदेशेभ्यः विद्युद्वितरणम् इत्येवम् अष्टविधेभ्यः मण्डलेभ्यः प्रामुख्यं दीयमानं भवति अद्यतन प्रख्यापनम्। आवश्यक-परिष्करणैः पारिस्थितिकोत्तेजनेन सह च कर्मणाम् अवसरान् वर्धयितुं तद्वारा विकसनं संवर्धयितुं च चतुर्थस्तर-प्रख्यापनं प्रामुख्यं ददाति। सार्वजनीन -प्रतिबन्धान् तर्तुं भारतस्य स्वयंपर्याप्त-क्षमतायाः शाक्तीकरणं केन्द्रसर्वकारस्य मुख्यं लक्ष्यं भवति, एवं भारतस्य विश्वनिक्षेपकमैत्र्याः वर्धनं च लक्ष्यीकृतं वर्तते - धनमन्त्रिणी अवदत्। एवं समस्तेषु मण्डलेषु  सर्वकारनियन्त्रणैः सह निजीयत्व-संस्थानां निक्षेपस्वीकारः क्रियते इत्यपि परियोजनायाः चतुर्थस्तर-प्रख्यापने मुख्यमासीत्।

वार्तामुक्तकानि 
वर्षाकालीनवृष्टिः जूण् ५तमे प्राप्स्यति।
अनन्तपुरी > मण्सूण् वर्षाकालीनवृष्टिः जूण् पञ्चमे दिनाङ्के केरलं प्राप्स्यतीति पर्यावरणनिरीक्षणविभागेन निगदितम्। भारते दक्षिणपश्चिमवर्षाकालस्य प्रथमं स्थलप्राप्तिस्थानं भवति केरलम्। अन्तमान् समुद्रे इदानीं न्यूनमर्दः रूपीकृतः अस्ति। अविलम्बेन सः 'अम्फान्' नामकवात्या भविष्यति। एतत् वर्षाकालागमनाय अनुयुक्तं भवतीति पर्यावरणविभागस्य निगमनम्। 
 भारते कोविड्मरणानि २,४६९।
नवदिल्ली >   कोविड्बाधया भारते इतःपर्यन्तं २,४६९ जनाः परलोकं प्राप्ताः। ह्यः शतं जनाः मृताः। रोगबाधितानां संख्या ८१,९७० इति उदगच्छत्। २७,९२० जनाः रोगमुक्ताः अभवन्। रोगमुक्तेः मानं ३४.०६ इत्यस्तीति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। 
 ९, १० कक्ष्यासु कलासंयोजितशिक्षाम् अनिवार्यं कृत्वा सिबिएस्सि। 
नवदिल्ली >  राष्ट्रे ९, १० कक्ष्यासु आयोजनरूपेण [Project] कलासंयोजितशिक्षा सि बि एस् सि संस्थया अनिवार्या कृता। पूर्वोक्तकक्ष्ययोः छात्राः प्रतिविषयं दृश्य-वेदिकासंम्बन्धीनि कलारूपाणि संयोज्य आयोजनाः कार्याः। प्रथमायाः आरभ्य अष्टमीकक्ष्यापर्यन्तं अयं परिष्कारः न अनिवार्यः अपितु प्रोत्साहः करणीयः। भारतस्य कलासांस्कृतिक पारम्पर्यम् अवबोधयितुमुपयुज्यमाने अस्मिन् परिष्कारे एकैकं राज्यम् इतरराज्याणां कलारूपाणि संयोज्य एव आयोजनाः कार्या इति निर्दिष्टमस्ति।
कोरोणप्रतिरोधः - भारताय विश्ववित्तकोशपक्षतः  पुनरपि धनसाहाय्यम्।

    नवदहली> कोरोणप्रतिरोधप्रवर्तनेभ्यः भारताय विश्ववित्तकोशपक्षतः पुनरपि १०० कोटिडोलर् धनसाहाय्यम्। पूर्वं १०० कोटिडोलर् धनसाहाय्यम् प्रख्यापितमासीत्। केन्द्रसर्वकारस्य सामूहिक-सुरक्षापरियोजनानां कृते एव धनसाहाय्यम्। विश्ववित्तकोशेन कोरोणबाधितेभ्यः राष्ट्रेभ्यः ७५०० कोटिडोलर् धनसाहाय्यं प्रख्यापितं वर्तते। रोगनिरीक्षणोपकरणानां तथा अन्येषां प्रतिरोधप्रवर्तनानां च कृते धनविनियोगः कार्यः। सम्पूर्णपिधानसहितैः नियन्त्रणैः सञ्जाताम् आर्थिकीं दुरवस्थां परिहर्तुमेव धनसाहाय्यं प्रख्यापितम् इति विश्ववित्तकोशाध्यक्षः जुनैद् अहम्मद् अवदत्।

Friday, May 15, 2020

आत्मनिर्भरभारताभियानम् - तृतीयस्तरप्रख्यापनं धनमन्त्रिणी निर्मला सीतारामन् अकरोत्। 
      नवदहली> आत्मनिर्भरभारताभियानस्य तृतीयस्तरप्रख्यापनं धनमन्त्रिणी निर्मला सीतारामन् सहमन्त्री अनुरागठाकुरः च अकुरुताम्। कृषेः,अनुबन्धमण्डलानां च प्राधान्यं प्रख्यापनेऽस्मिन् मुख्यं वर्तते। प्रतिबन्धानां समस्यानां च तरणाय आवश्यकं साहाय्यं कर्षकेभ्यः दीयतेति धनमन्त्रिणी अवदत्। भक्ष्यसंस्करणं, मत्स्यबन्धनं, जन्तुसंरक्षणम् इत्यादीनां मण्डलानामपि प्रामुख्यं दीयमानः भवति परियोजनायाः तृतीयस्तरः इति धनमन्त्रिणी अविशदयत्। ११ कार्यक्रमाः अद्य विशदीकृताः वर्तन्ते, तेषु अष्टौ कार्यक्रमाः आधारविकसनप्रवर्तनेभ्यः त्रयः तु शासनपरिष्करणप्रर्वर्तनेभ्यः च भवन्ति। 'किसान् सम्मान् निधि ' द्वारा १८००० कोटिरुप्यकाणि,  'फसल् बीमा योजना ' द्वारा ६४०० कोटिरुप्यकाणि च जनेभ्यः दत्तानि, ७४३०० कोटिरुप्यकाणि विभवानाम् आधारमूल्यसम्भरणाय च व्ययीकृतानि - धनमन्त्रिणी अविशदयत्।
वार्तामुक्तकानि।
 १०, ११, १२ कक्ष्यापरीक्षाः २६ आरभ्य।
अनन्तपुरी > कोविड् व्यापनहेतुतः परिवर्तिताः एस् एस् एल् सि[१०] , +१, +२ परीक्षाः मेय् २६ दिनाङ्कात् आरभ्य आयोजयिष्यति। सामाजिकदूरं परिपाल्य एव परीक्षाः। १०, +१, परीक्षाः मध्याह्नात्परं +२ , वि एछ् एस्  ई परीक्षाः प्रभाते च आयोजयिष्यन्ते।
 प्रवासिनां कृते केरलं प्रति ४० विमानसेवाः।
कोच्ची >  विदेशेषु बन्धितान् केरलीयान् स्वदेशमानेतुं द्वितीयसोपाने आहत्य ४० विमानसेवाः करिष्यन्ते। गल्फ् राष्ट्रेभ्यः १६ सेवाः भविष्यन्ति। अमेरिक्का, यूरोप्, भूखण्डयोः विविधराष्ट्रेभ्यः च सेवाः सन्ति। मेय् १६तः २२पर्यन्तं एयर् इन्डिया, एयर् इन्डिया एक्स्प्रेस विमानानि सेवाः करिष्यन्ति।
 "२० संवत्सराणि ; ५ संक्रमणव्याधयः" - चीनं विरुध्य आरोपः।
 वाषिङ्टण् > गतेषु २० संवत्सरेषु चीनराष्ट्रात् आविर्भूय आविश्वं पञ्च संक्रमणव्याधयः व्यापृताः इति यू एस् राष्ट्रियसुरक्षा उपदेष्टुः रोबर्ट् ओब्रियानस्य आरोपः। चीनतः एतादृशाः रोगाः सहनसीमामतिक्रान्ताः, एनं विषयमधिकृत्य विश्वजनानां जाग्रता आवश्यकीति तेनोक्तम्।
 प्रव्राजिका अजयप्राणमाता समाधिं गता।
 अनन्तपुरी > कोल्क्कोत्तास्थं श्रीशारदामठं, रामकृष्ण शारदामिषन् इत्यनयोः भूतपूर्वा आगोलोपाध्यक्षा तथा तृश्शूरस्थ शारदामठस्य अध्यक्षा प्रव्राजिका अजयप्राणमाता [९३] ह्यः मध्याह्ने अनन्तपुर्यां श्रीरामकृष्णमिषन् अातुरालये समाधिं प्राप्ता।  समाध्यन्ताचाराः अद्य  तृश्शूरस्थे मठे सम्पत्स्यन्ते।
  या च श्रीशारदादेव्याः परिचारिका तथा भगिन्याः निवेदितायाः शिष्या च आसीत् भारतीप्राणमाता तस्याः भारतीप्राणमातुः सकाशात् सन्न्यासं स्वीकृत्य आध्यात्मिकजीवनं प्रविष्टा केरलीया सा धन्यम् आध्यात्मिकजीवितं निर्वाह्य एव समाधिं प्राप।
कोरोणा चिकित्साप्रकाराः  फलं प्रदातुं सक्षमो भविष्यति इति विश्वस्वास्थ्यसंस्था। 
    जनीव> विश्वस्य विविधभागेषु अनुवर्तमानाः कोरोणा चिकित्साविधयः  फलं प्रदातुं क्षमाः इति विश्वस्वास्थ्यसंस्थया प्रख्याप्यते। विश्वस्य विविधभागतः सङ्कलितानां आवेदनानाम् सूक्ष्मावलोकनानन्तरं भवति संस्थायाः प्रख्यापनम्। विविधराष्ट्रेषु कोरोणावैराणुं विरुध्य औषधपरीक्षाः प्रचलन्तः सन्ति। मनुष्येष्वपि फलपरीक्षणचिकित्सा प्रारब्धाः अस्ति। किन्तु इतःपर्यन्तं वैराणु रोगनाशकक्षमम् औषधं न लब्धम् इति संस्थायाः प्रवक्तृपक्षतः मार्गरट् हारिस् इत्याख्यया उक्तम्।
कोरोण विषाणुना पीडितानां समाश्वासाय छात्रा-शिक्षक-रक्षाकर्तॄणां गीतालापनम्।
   तिरुवनन्दपुरम्> अधुना कोरोणा विषाणोः व्यापनेन सकलं लोकं व्याकुलं वर्तते। अवसरेSस्मिन् तिरुवनन्तपुरस्थ-केन्द्रीयविद्यालयस्य (KV SAP THIRUVANANTHAPURAM) छात्राः शिक्षकाः रक्षाकर्तारः च कोरोण विषाणुना पीडितानां समाश्वासाय तथा अस्य व्यापनं निरोद्धुम् अहोरात्रं परिश्रमं कुर्वतां आतुरसेवकानां  नियमपालकानां राजनैतिकनेतृ़णां च आयुरारोग्यसौख्याय च किञ्चन प्रार्थनागीतं प्रकाशितमस्ति। "लोकं मुष़ुवन् सुखं पकरानाय्" इति श्री. पी. भास्करन् महोदयेन रचितस्य प्रसिद्धस्य मलयाल-गीतस्य संस्कृतानुवादः दृश्याविष्कारः डा. मनोज् बी. महोदयेन कृतः अस्ति। लाॅक् डाउण् अवस्थायामपि सर्जनात्मकतां निरोद्धुं केनापि न शक्यते इति प्रमाणयति अयं प्रयासः। अपि च ईदृशैः प्रयत्नैः संस्कृतप्रचारकार्यस्य हृत्स्पन्दनं वर्धिष्यते इति च कामयते गीतस्यास्य अनुवादकः।।

Thursday, May 14, 2020

आत्मनिर्भरभारताभियानस्य द्वितीयस्तरविशदीकरणं धनमन्त्रिणी अकरोत्।
   नवदहली> २०लक्षंकोटिरुप्यकाणाम्‌ आत्मनिर्भरभारताभियाननामिकायाः आर्थिकोत्तेजकपरियोजनायाः विशदीकरणं ह्यः धनमन्त्रिणा निर्मला सीतारामन् महोदयया कृतम् आसीत्। परियोजनायाः अस्याः द्वितीयस्तरविशदीकरणम् अद्य धनमन्त्रिणी निर्मला सीतारामन् महोदया अकरोत्। परियोजनायाः द्वितीयस्तरः राज्यान्तरकर्मकरेभ्यः कृषकेभ्यः च प्रधान्यं ददाति इति धनमन्त्रिणी विशदयत्। ९ पद्धतयः अद्य प्रख्यापिताः सन्ति। तासु ३पद्धतयः राज्यान्तरकर्मकराणां क्षेममावहन्ति। तेषां जीवनं केन्द्रसर्वकारेण प्राधान्यत्वेन स्वीक्रियतेति धनमन्त्रिणी अवदत्। दरिद्रविभागानां कृतेऽपि पद्धतयः वर्तन्ते। कार्षिकसम्बन्धस्य ऋणस्य प्रत्यर्पणाय समयः अस्य मासस्य ३१ दिनाङ्कपर्यन्तं दीर्घीकृतः। किसान् क्रेडिट् कार्ड् द्वारा २५ लक्षं कर्षकेभ्यः २५००० कोटिरुप्यकाणि दत्तानि इति धनमन्त्रिणी विशदयत्। ३ कोटिकर्षकेभ्यः मासत्रयात्मकस्य नियमानुसृतावधिः प्रख्यापिता वर्तते। राज्यस्तरीय दुरन्तनिवारणनिधिद्वारा ११००२ कोटिरुप्यकाणि दत्तानि सन्ति, राष्ट्रियग्रामीणकर्मप्रदानपरियोजनायां २.३३ कोटि जनाः पञ्जीकरणम् अकुर्वन्, अनया परियोजनया १००००कोटिरुप्यकाणि दत्तानि, अन्येभ्यः राज्येभ्यः कर्म उपेक्ष्य आगतान् कर्मकरान् देशी राष्ट्रिय-ग्रामीण-कर्मप्रदान-परियोजनायाम् अन्तर्भावयितुं पर्यालोचना वर्तते - निर्मला सीतारामन् विशदयत्।

केरलेषु विरामकालीयः अध्यापकपरिवरितनकार्यक्रमः समारब्धः।
कक्ष्याप्रकोष्ठे अध्यापकव्यवहारेण छात्राणां मननविकासः साध्यः - केरल शिक्षामन्त्री।
विक्टेर्स् संप्रेषणवाहिनी द्वारा शिक्षामन्त्रिणा चालित वर्गः। 
   अनन्तपुरी> छात्राणां प्रज्ञां निरीक्षणेन युक्तियुक्तचिन्तनेन च दिङ्मण्डलपर्यन्तं विकसितुम् उपयुज्यमानरीत्या भवेत् शिक्षकस्य कक्ष्याप्रकोष्ठे पाठविनिमयः इति केरलस्य शिक्षामन्त्रिणा प्रोफ. सि रवीन्द्रनाथेन उक्तम्। आगामिसंवत्सरस्य कृते विरामकालीयस्य अध्यापकपरिवर्तनकार्यक्रमस्य प्रथमे दिने "कक्ष्याप्रकोष्ठे शिक्षकः" इति प्रथमं सत्रं संवादरूपेण निर्वहन् भाषमाणः आसीत् सः। केरल सामान्यशिक्षाविभागस्य 'विक्टर्स्'नामकसंप्रेषण वाहिनि द्वारा आसीत् शिक्षामन्त्रिणः वर्गचालनम्। 
   शिक्षकस्य संवेदनानन्तरम् अवगतं विषयमधिकृत्य छात्रेण  स्वयमेव प्रश्नः पृष्टव्यः, अन्वीक्षणं कार्यं, निर्णयः करणीयः। एवम् अन्वीक्षणमनोभावः प्रवर्धनीयः। तदर्थम् अध्यापकस्य कक्ष्याप्रकोष्ठप्रवर्तनानि परिवर्तनीयानि। मन्त्रिणा विशदीकृतम्। 
  प्राथमिकस्तराणां [UP विभागः] शास्त्रविषयानधिकृत्यैव शिक्षामन्त्रिणः वर्गः सम्पन्नः। एकैकस्य छात्रस्य नित्यपरिचितानि उदाहरणानि सूचयित्वा कथं शास्त्रतत्वानाम् अवबोधनं सुगमं कार्यमिति तेन वर्गः नीतः। कश्चनस्तरीयः कश्चनपाठः पूर्वस्तरीयस्य अनन्तरस्तरीयस्य च एकैकेन पाठेन कथं बन्धितमित्यपि दृष्टान्तपूर्वकं तेन समर्थितम्। 
  प्रोफ. रवीन्द्रनाथस्य वर्गानन्तरं ऐक्यराष्ट्रसंघटनस्य दुरन्तनिवारणसंस्थायाः प्रमुखः मुरली तुम्मारुक्कुटी इत्यनेन चालितं विद्यालयसुरक्षामधिकृत्य सत्रमपि सम्पन्नम्।
कोविड्१९ औषधनिर्माणाय भारत-अमेरिक्कयोः उभयपक्षवाग्दत्तपत्रम्। 
    हैदराबाद्> कोविड्१९ चिकित्सायै उपयुज्यमानं रेम्डिसिविर् नामकम् औषधं निर्मातुं उभयपक्षवाग्दत्तपत्रे भारत-अमेरिक्कयोः अधिकृतैः हस्ताक्षरं कृतम्।  औषधनिर्माणमण्डले विश्वोत्तरख्यातिं प्राप्तः हेट्टरो नामकः भारतीयसङ्घः अमेरिक्कस्य गिलेयाद्‌ सयन्सस् नामकेन सङ्घेन सह एव हस्ताक्षरमकरोत्। भारते औषधं निर्मातुं तथा १२७ राष्ट्रेषु वितरणं कर्तुं च अधिकारपत्रं हेट्टरो सङ्घेन प्राप्तं वर्तते।

Wednesday, May 13, 2020

आत्मनिर्भरभारताभियानं विशदीकृत्य धनमन्त्रिणी निर्मला सीतारामन्।
       नवदहली> कोरोणप्रतिरोधप्रवर्तनाय राष्ट्रस्य आर्थिकसम्पत्व्यव्यवस्थायाः च उत्तेजनाय ह्यः प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रख्यापितस्य विंशतिलक्षंकोटिरूप्यकात्मकस्य आत्मनिर्भरभारताभियानस्य विशदीकरणं केन्द्रधनमन्त्रिणी निर्मला सीतारामन् अद्य विशदयति। परियोजनेयं प्रधानतया ह्रस्वनिक्षेपव्यापारमण्डलस्य उत्तेजनाय प्राधान्यं ददाति। सूक्ष्म-ह्रस्व-मध्यवर्तिव्यापारसम्प्रदायस्य निर्वचनं धनमन्त्रालयेन परिष्कृतम् इत्येतत् अस्याः परियोजनायाः प्राधान्यमावहति। नूतनपरिष्कारेणानेन व्यापारस्थापनानाम् एककोटिरुप्यकनिक्षेपः पञ्चकोटिरुप्यकाणाम् आदायः च अस्ति चेत् सूक्ष्मविभागे, दशकोटिरुप्यकनिक्षेपः पञ्चाशत्‍कोटिरुप्यकादायः च अस्ति चेत् ह्रस्वविभागे, विंशतिकोटिरुप्यकनिक्षेपः शतं कोटिरुप्यकादायः च अस्ति चेत् मध्यवर्तिविभागे च तानि अन्तर्भवन्ति। प्रधानतया सप्तमण्डलेषु १५ समग्रपरिष्कारव्यवहाराः एव अद्य प्रख्यापिताः वर्तन्ते। इ पि एफ्, ह्रस्वव्यापारः, स्थावरवस्तुव्यवहारः, आयकरपरिष्कारः, व्यवहारनिश्चयपत्रसम्प्रदायः इत्यादीनि आर्थिकमण्डलानि परियोजनायामस्यां प्राधान्यमावहन्ति। राष्ट्रस्य समस्तेभ्यः मण्डलेभ्यः तत्तत्वनिपुणानाम् अभिप्रायान् क्रोडीकृत्य एव परियोजनेयं प्रख्यापिता वर्ततेति निर्मला सीतारामन् अवदत्। परियोजनामिमाम् आधारीकृत्य क्रियमाणानि प्रवर्तनानि 'मेय्क् इन् इन्ट्या' परियोजनामपि उपकरिष्यन्तीत्यपि सा असूचयत्।
प्रतीक्षां संवर्ध्य भारते कोविड्१९ प्रतिरोधाय औषधपरीक्षणम्। 
     नवदहली > विश्वे कोविड्१९ व्यापनं तथा मरणं च अनुदिनं वर्धमानं दृश्यते। तथापि प्रतिरोधप्रवर्तनान्यपि ऊर्जितानि सन्ति। राष्ट्राणि परस्परसहयोगेन कोविड्प्रतिरोधाय प्रवर्तन्ते। तत्र प्रतिरोधप्रवर्तनेषु सुरक्षानियमानां पालनमिव नूतनौषधनिर्माणपरीक्षणमपि राष्ट्राणि मुख्यतया कुर्वन्ति। एतावता भारतेऽपि परीक्षणादिकम् अग्रेसरत् वर्तते। अधुना कोविड् प्रतिरोधस्य भागतया भारतं तृतीयं औषधप्रयोगस्तरं प्रवेष्टुं सज्जं भवति। मुम्बय् आस्थानत्वेन प्रवर्तमानं ग्लेन्मार्क् फार्मस्यूटिकल्स् इति स्थापनमेव  औषधपरीक्षणस्य तृतीयस्तरमधिकृत्य विशदीकरणम् अदात्। रोगाणुप्रतिरोधकं 'फविपिराविर्' नामकम् औषधमेव रोगिषु परीक्ष्यते।  एतदर्थम् आवश्यकी अनुमतिरपि स्थापनेन सम्पादिता अस्ति। उचितं फलमेव स्यादित्यपि प्रतीक्षा वर्तते इति अधिकृतैः सूचितम्। जूलैमासान्ते समाप्यमानायां गवेषणपरियोजनायां राष्ट्रस्य दशाधिकाः सर्वकारीय-निजीयातुरालयाः भागभागिनः सन्ति।
आत्मनिर्भभरः
-व्यङ्‌ग्य चित्रम्
चित्रम् - देविदासः देशपाण्डे

Tuesday, May 12, 2020

कोविड् प्रतिरोधाय २०लक्षंकोटिरूप्यकाणां धनसाहाय्यं प्रख्याप्य प्रधानमन्त्री।
  नवदहली> कोविड्१९ प्रतिरोधाय २०लक्षंकोटि-रूप्यकाणाम् 'आत्मनिर्भरभारताभिमान'नामकं आर्थिकोत्तेजकधनसाहाय्यं प्रख्याप्य प्रधानमन्त्री नरेन्द्रमोदी। अद्य अष्टवादने राष्ट्रम् अभिसम्बुद्ध्य एव प्रधानमन्त्रिणा धनसाहाय्यं प्रख्यापितं वर्तते। संख्येयं राष्ट्रस्य आभ्यन्तरोत्पादनस्य १०%  भवति। राष्ट्रस्य ह्रस्वनिक्षेपं कुर्वन्तः व्यापारिणः, कर्षकाः, दिवसवेतनकर्मकराः,मध्यवर्गजनाः इत्येतेषां कृते धनसाहाय्यमिदं लभ्यते। धनसाहाय्यं सम्बन्ध्य विशदीकरणं श्वः धनमन्त्री निर्मला सीतारामन् करिष्यति। सम्पूर्णकर्मविभागेभ्यः धनसाहाय्यस्य अस्य प्रयोजनं लभ्यते। व्यापारमण्डले सार्वदेशीयस्पर्धायै भारतं सज्जं करिष्यतीत्यपि प्रधानमन्त्रिणा उक्तम्। भारतस्य कोविड् प्रतिरोधः विश्वस्य कृते मातृका एव, भारतेन प्रतिदिनं द्विलक्षाधिकाः पि पि इ सञ्चयाः एन्९५ मुखावरणानि च उत्पाद्यन्ते , भारतस्य औषधानि विश्वस्य आश्वासदायकानि अभवन् - प्रधानमन्त्रिणा सूचितम्। अयं एकविशतितमः शताब्दः भारतस्य नाम्ना अभिधीयते इति प्रत्याशामपि प्रधानमन्त्री  नरेन्द्रमोदी प्राकटयत्। Link
https://twitter.com/narendramodi/status/1260243003479748611?s=09
अतिजाग्रता आवश्यकी, कोरोणावैराणोः द्वितीय-पादव्यापनम् आशङ्काजनकम्- विश्वस्वास्थ्य-संस्था। 
    नवदिल्ली>  कोरोणावैराणोः व्यापनस्य द्वितीयपादे  अतिजाग्रता आवश्यकी इति विश्वस्वास्थ्य-संस्थया निवेदिताI  कोरोणावैराणोः द्वितीयपादव्यापनम् संबन्ध्य आविश्वम् आशङ्का वर्तते इति संस्थायाः अध्यक्षः टेड्रोस् अथनों इत्याख्यः अवदत्। पिधानात् मोचनः प्रतीक्षानिर्भरः चेदपि अतीव जाग्रतया जीवनं यापनीयम्। तीव्र नियमेभ्यः स्वल्पविच्छेदनेन जर्मनीदेशे कोरिय देशेऽपि रोगः वर्धितः आसीत्I कोरोणवैराणोः द्वितीयागमनं प्रतीक्ष्य सदा जागरूकाः भवितव्याः इति विश्व-स्वास्थ्य संस्थायाः आपत्कालीन-विभागस्य अध्यक्षः वैद्यः मैक् रयानः च अवदत्I
पिधानं दीर्घीकरणीयम् - प्रधानमन्त्रिणं राज्यषट्कम्। 
 नवदिल्ली >  मेय् १७ तमे समाप्यमाणं पिधानम् अनुवर्तनीयमिति ह्यः सम्पन्ने मुख्यमन्त्रिणामुपवेशने षट् राज्याणि प्रधानमन्त्रिणं न्यवेदयन्। महाराष्ट्रं, पञ्चाबः, पश्चिमबङ्गाल्, बीहारः, असमः, तेलङ्कानम् इत्येतेषां राज्यानां मुख्यमन्त्रिणः एव एतादृशं निर्देशमुन्नीतवन्तः। पिधानमार्गनिर्देशेषु परिवर्तनं कर्तुं राज्येभ्यः स्वातन्त्य्रं दातव्यमिति केरलमभिव्याप्य बहूनि राज्यानि अभ्यर्थयन्त। 
  किन्तु रोगसंक्रमणरहितेषु प्रान्तेषु इतो$पि शैथिल्यानि आवश्यकानीति दिल्ली केरलं इत्यादीनि बहूनि राज्यानि न्यवेदयन्।
शबरिमल घटनायां  विशालपीठः उचितः - उच्चतरन्यायालयः।
 नवदहली> शबरिमलमन्दिरे युवतीप्रवेशं सम्बन्ध्य अन्तिमविधिनिर्णयाय विशालपीठरूपीकरणम् उचितं भवतीति उच्चतरन्यायालयः। विशालपीठरूपीकरणं प्रतिकूल्य समर्पितानां निवेदनानां परिगणनवेलायाम् एव उच्चतरन्यायालयेन एवं सूचितं भवति। सम्पूर्णनीतिं दृढीकर्तुम् उचितं निर्णयं स्वीकर्तुं च नियमसंहितायाः १४२ तमः अनुच्छेदः अधिकारं ददाति इति उच्चतरन्यायालयेन निरीक्षितम्।

Monday, May 11, 2020

प्रत्यागमनाय भारतं सिद्धतां करोति।
रेल् सेवा पुनरारभ्यते। 
नवदिल्ली >  कोविड् संक्रमणेन स्थगिता रेल्वे संस्थायाः गमनागमनसुविधा पदे पदे पुनरारभते। श्वःआरसविशेषयात्रायानानां सेवा श्वः आरभते। 
  प्रथमसोपाने दिल्लीतः विविधराज्यानां १५ केन्दाणि गमनागमनसेवा कारयिष्यति। 'ओण् लैन्' द्वारा एव चिटिकावितरणम्। आरक्षणसुविधा अद्य सायं चतुर्वादने आरभते। 'ऐ आर् सि टी सी' अन्तर्जालकद्वारा चिटिकाग्रथनं कर्तुं शक्यते। 
  यात्रार्थं मानदण्डाः च प्रख्यापिताः। यात्रिकाः एकहोरायाः पूर्वमेव निस्थानं प्राप्तव्याः। मुखावरणं धार्यम्। यात्रायाः प्राक् शरीरतापं मापयिष्यति। रोगलक्षणरहितानामेव रेल्निस्थानस्य अन्तः प्रवेशः साध्यः।
राष्ट्रे यन्त्रागारकार्यक्रमान् पुनरारब्धुं केन्द्रसर्वकारस्य मार्गनिर्देशः। 

   नवदहली> सम्पूर्णपिधानानन्तरं राष्ट्रे यन्त्रागारकार्यक्रमान् पुनरारब्धुं केन्द्रसर्वकारेण मार्गनिर्देशः प्रसिद्धीकृतः। देशीयदुरन्तनिवारणसमित्‍या एव मार्गनिर्देशः प्रख्यापितः वर्तते। गतदिने विशाखपट्टणे कुत्रचित् यन्त्रागारे प्रवृत्तस्य विषवातकदुरन्तस्य आधारे एव समित्‍याः नूतननिर्देशः आगतः वर्तते। तदनुसृत्य यन्त्रागारपरिसरेषु विद्यमानानि दुरन्तनिवारण-सुरक्षाक्रमीकरणसंविधानानि प्रवर्तनयोग्यानि इति राज्यसर्वकारैः दृढीकरणीयानि भवन्ति। कार्येऽस्मिन् जिल्लास्तरीयसमितयः बद्धश्रद्धया प्रवर्तनीयाः। यन्त्रागाराणां पुनःप्रवर्तनकाले प्रथमसप्ताहः क्षमतानिरीक्षणाय उपयोक्तव्यः इति समितिः मार्गनिर्देशत्वेन सूचयति। असाधारणतया शब्दः,गन्धः,धूमः, अन्या: सूचनाः च सन्ति चेत् स्वीक्रियमाणानां जाग्रताप्रवर्तनानां विषये कर्मकराः बोधनीयाः इति मार्गनिर्देशं सूचयति। एवं कर्मकराणाम् आरोग्यकार्येऽपि श्रद्धा देया, कर्मकराणां संख्याविषये केन्द्राभ्यन्तरमन्त्रालयस्य निर्देशोऽपि पालनीयः इति समितिः सूचयति।

Sunday, May 10, 2020


जननी जन्मभूमिश्च स्वर्गादपि गरीयसीl 
विश्वमात्रे साष्टाङ्गप्रणामः
सान्स्ग्रीट् अनुप्रयोगः दैनिक-शुभ-सन्देशप्रेषणाय।
         अद्य विश्वमातृ दिनम्। केरलराज्यस्य दश संस्कृताध्यापकानां लैव् सान्स्क्रिट् (livesanskrit) नाम्नैकः संघो वर्तते | तेन संघेन निर्मितं आण्ड्रोयिड् अनुप्रयोगो (App) भवति सान्स्ग्रीट् (Sansgreet)। प्रत्येकं दिने तद्विशेषतामाश्रित्य सन्देशचित्राणि निर्मीयन्ते अनेन लैव् सान्स्क्रिट् संघेन । तच्चोपलभ्यन्ते sansgreet अनुप्रयोगे |  जीवन्ती विश्वभाषैव संस्कृतमिति सन्देशोत्पादनक्षमतास्ति एतेषां सन्देशचित्राणाम्। एतेषां चित्राणां  प्रभावेण जनानां मनसि संस्कृतं संस्कृतिं च प्रति समादरो जायते । सर्वविधेषु विशेषावसरेषु मित्रेभ्यः बन्धुभ्यः प्रणयिजनेभ्यः  गुरुजनेभ्यश्च  प्रेषणाय अस्मिन्ननुप्रयोगे विद्यमानानि आशंसापत्राणि बहूपकारकाणि हृदयाह्लादकारीणि चेति संस्कृतप्रेमिणः   वदन्ति। वाड्साप् मुखपुस्तिका प्रभृतिषु सामाजिकमाध्यमेषु  'सान्स्ग्रीट्' चित्राणि जनैः नितरां प्रेष्यन्त एव | प्लेस्टोर्-तः अस्यानुप्रयोगस्य अवारोपणं (download) कर्तुं शक्यते |I 
'वैट् हौस्'मध्ये कोविड् जाग्रता।
यू एस् उपराष्ट्रपतेः, ट्रम्प् पुत्र्याः साहाय्यिनां च रोगः।
वाषिङ्टण् > यू एस् राष्ट्रपतेः डोणाल्ड् ट्रम्पस्य पुत्री तथा वैट् हौस् [राष्ट्रपतिभवनं] उपदेष्ट्री इवान्का ट्रम्प् इत्यस्याः सहाय्यिनौ कोविड् रोगः स्थिरीकृतः। अनेन राष्ट्रपतिभवनीयाः स्थिरीकृतरोगिणः त्रयः अभवन्। यू एस् उपराष्ट्रपतिः मैक् पैन्स् नामकस्य माध्यमकार्यदर्शी कात्ती मिल्लर् इत्यस्मिन् शुक्रवासरे एव रोगः स्थिरीकृतः आसीत्। ट्रम्पस्य सहाय्यिषु अन्यतमे च गुरुवासरे रोगस्थिरीकरणमभवत्। 
  किन्तु इवान्का तस्याः पतिः जारेद् कुष्नेरः च गतदिने कोविड्परिशोधनं कृतवन्तौ। तयोः परिशोधनफलं अभाववदिति ज्ञातं च। ट्रम्पः अपि प्रतिदिनं परिशोधनाविधेयः सन्निति तेनोक्तम्। वैट्हौस् मध्ये प्रतिरोधप्रक्रमाः सुशक्ताः क्रियन्ते।
एष्या भूखण्डस्थानां राष्ट्राणां प्रशासनिक-भूमिशास्त्रविवरणानि चीनेन अपहृतानि।
         पारिस्>  विश्वराष्ट्राणां रहस्यानि  तन्त्रनियन्त्रक-चोरणद्वारा चीनेन स्वायत्तीकृतानि। फ्रान्स् राष्ट्रस्य सूचना-प्रौद्योगिकी विभागेन विवरणम् आवेदितम्।  चीनस्य सैनिकनियन्त्रणे विद्यमानेन तन्त्रनियन्त्रकचोरसङ्घेन नाय्कोण् इत्याख्येन योजनेऽयम्  आयोजिता। राष्ट्राणां भूमिशास्त्र-विवरणानि एव स्वायत्तीकृतानि। पारीस् देशं केन्द्रीकृत्य वर्तमानः एन्गाड्जेट्ट्  इति तात्रिक 'ब्लेग्' नियन्त्रकाः एव तात्रिकचोरणम् अधिकृत्य प्रत्यभिज्ञातवन्तः। एष्या राष्ट्राणां समग्रविवरणानि एवं चोरितानि इति भीतिदा घटना एव। वैदेशिकविवरणानि वैज्ञानिकीय विवरणानि, तन्त्रांशीय विवरणानि च अपहृतेषु सन्ति।
सर्वकारस्य साहाय्यं विना एककोटिरूप्यकाणि व्ययीकृत्य सेतुः निर्मितवन्तः भारतीय ग्रामीणाः।

      गुवाहटी> सर्वकारस्य साहाय्यं विना एककोटिरुप्यकाणि व्ययीकृत्य सेतुः निर्मितवन्तः असम राज्यस्य ग्रामीणाः। कामरूपजनपथे नागर्बेरग्रामवासिनः जलजाली नद्यः उपरि स्वीयं धनम् उपयुज्य काष्ठसेतुः निर्मितवन्तः।
     वर्षा काले नद्यः पारं गन्तुं ग्रामीणाः अतीव क्लेशम्  अनुभूतवन्तः आसन्। बालकान् विद्यालये प्रेषयितुं, रुग्णान् आतुरालयं प्रापयितुं च लघु नौकाः एव एतैः आश्रिताः आसन्। सेतोः आवश्यकताम् उक्त्वा निरन्तरम् अधिकारिणां पुरतः याचिताः किन्तु प्रक्रमाः न अभवन् । अन्ते ग्रामीणाः स्वीयं धनं व्ययीकृत्य सेतुं निर्मातुं निश्चितवन्तः अभवन् इति इन्त्याटुडे माध्यमेन  आवेदितम्।
     नागर्बेरेस्थेभ्यः दश ग्रामेभ्यः ७०००ग्रामवासिनः मिलित्वा एव सेतु निर्माणाय धनसमाहरणं कृतवन्तः। २०१८ वर्षे एव सेतोः निर्माणम् आरब्धम्। ग्रामीणानां ऐकमत्येन परिश्रमेण च वर्षद्वयाभ्यन्तरे सेतुनिर्माणं सम्पूर्णम् अभवत्। ३३५मीटर् दीर्घः भवति सेतुः। इदानीं वज्रलेपीय सेतुनिर्माणाय जनाः सर्वकारस्य पुरतः निवेदितवन्तः आसन् इति प्रदेशवासिनः अवदन्।
अन्तर्राज्यीयाः विमानसेवायै भारतं सज्जम् 
-पुरुषोत्तमशर्मा नवदेहली
      नागरिकोड्डयनमन्त्री हरदीपसिंह-पुरी प्रावोचत् यत् अन्तर्राज्यीय-विमान-सेवाः पुनरारब्धुं सज्जा विधीयते। एकस्यै प्रसारणवाहिन्यै प्रदत्त-साक्षात्कारे नागरिकोड्डयनमन्त्रिणा प्रोक्तं यत् नागरविमानमन्त्रालयः सामाजिकदूरीं निध्याय विमानयात्रायाः नियमेषु परिवर्तनं विधास्यति। सममेव विमानानां परिचालनसम्बद्ध-मानक-सञ्चालन-प्रक्रियायामपि परिवर्तनं विधास्यते।

Saturday, May 9, 2020

एष्या भूखण्डस्थानां राष्ट्राणां प्रशासनिक-भूमिशास्त्रविवरणानि चीनेन अपहृतानि।
         पारिस्>  विश्वराष्ट्राणां रहस्यानि  तन्त्रनियन्त्रक-चोरणद्वारा चीनेन स्वायत्तीकृतानि। फ्रान्स् राष्ट्रस्य सूचना-प्रौद्योगिकी विभागेन विवरणम् आवेदितम्।  चीनस्य सैनिकनियन्त्रणे विद्यमानेन तन्त्रनियन्त्रकचोरसङ्घेन नाय्कोण इत्याख्येन योजनेऽयम्  आयोजिता। राष्ट्राणां भूमिशास्त्र-विवरणानि एव स्वायत्तीकृतानि। पारीस् देशं केन्द्रीकृत्य वर्तमानः एन्गाड्जेट्ट्  इति तात्रिक 'ब्लेग्' नियन्त्रकाः एव तात्रिकचोरणम् अधिकृत्य प्रत्यभिज्ञातवन्तः। एष्या राष्ट्राणां समग्रविवरणानि एवं चोरितानि इति भीतिदा घटना एव। वैदेशिकविवरणानि वैज्ञानिकीय विवरणानि, तन्त्रांशीय विवरणानि च अपहृतेषु सन्ति।
भारते जूलैमासान्ते कोरोणव्यापनं रूक्षतां प्राप्स्यति -विश्व स्वास्थ्यसंस्था। 
 
     नवदहली> भारते सम्पूर्णपिधानस्य प्रतिग्रहणात्परं जूलैमासान्ते कोरोणव्यापनं रूक्षतां प्राप्स्यति इति विश्वस्वास्थ्यसंस्था। अग्रिममासेषु रोगिणां संख्या गण्यतया वर्धिष्यति इति संस्थया सूचितम्। किन्तु विषयेऽस्मिन् आशङ्का नावश्यकीत्यपि संस्थायाः कोविड्१९ वक्त्रा डा.डेविड्‌ नबारुणा सूचितम्। यतः समूर्णपिधानं प्रतिगृहीतं चेदपि इदानीं क्रियमाणैः प्रवर्तनैरेव रोगव्यापनस्य नियन्त्रणं साध्यमेवेति तेन अभिप्रेतम्। भारते रोगव्यापनस्य अनुपातः अधुना ११ दिनानि भवन्ति। भारते कोरोणरोगिणां संख्या अधिका चेदपि जनसख्यामाश्रित्य नियन्त्रणविधेया एव, मृतेषु वयोधिकानां संख्या अधिका, तथापि वयोविभागाः भिन्नाः इत्यतः मरणानुपातः नियन्त्रणविधेयः भवति-सः अवदत्। सम्पूर्णपिधानसहितानां जाग्रताप्रवर्तनानां यथासमयस्वीकरणेन रोगव्यापननियन्त्रणं भारतेन साधितम् इत्यपि तेन उक्तम्।
रेल्पथे निद्रां कुर्वन्तः १६ अध्यवसितकर्मचारिणः पण्ययानाघातेन हताः। 
मृत्युशय्या - दुरन्तस्थाने आरक्षकाः अन्वीक्षणं कुर्वन्ति। 
दु र्घटनेयं पिधानहेतुना वृत्तिविनष्टाः स्वराज्यं प्रति पदगमनवेलायाम्। 
 औरङ्गाबाद् > महाराष्ट्रस्य औरङ्गाबादसमीपे कर्माट् आरक्षकनिस्थानपरिधौ एवेयं दारूणदुर्घटना। पिधानहेतुना जीवनोपाधिविनष्टाः मध्यप्रदेशीयाः कर्मचारिणः परिवारसमेतं जन्मराज्यं प्रति रेल् यानमार्गेण पद्भ्यां गतवन्तः आसन्। यात्राक्लेशेन रेल्लोहमार्गे निद्रां कुर्वतां कर्मकराणामुपरि तैलेन्धनयुतं रेल् यानं विमर्दयति स्म। शनिवासरे उषसि ५.२२ वादने आसीद्दुर्घटना। 

 यात्रासंघे महिलाः बालकाश्चासन्। लोहपथात् दूरे शयितवन्तः त्रयः रक्षां प्राप्ताः। अन्ये सर्वे मृत्युमुपगताः। 

  राष्ट्रपतिः रामनाथकोविन्दः प्रधानमन्त्री नरेन्द्रमोदी च दुरन्ते अनुशोचनं प्रकाशितवन्तौ। मृतानां कर्मचारिणां बान्धवेभ्यः पञ्चलक्षं रूप्यकाणि निष्कृतिं दास्यतीति महाराष्ट्-मध्यप्रदेशशासनाभ्यां निगदितम्।

Friday, May 8, 2020

इस्रयेल् सख्यसर्वकाराय उच्चतरन्यायालयस्य अनुमतिः।
        जरुसलेम्> इस्रयेल् प्रधानमन्त्रिणः बेञ्चमिन् नेतन्याहोः राष्ट्रियप्रतियोगिना ब्लू आन्ट् वैट्संघनेत्रा बेन्नि गान्ट्सेन सह सख्याय तत्रस्थोच्चतरन्यायालयस्य अनुमतिः। एतयोः सख्यसर्वकारः अग्रिमसप्ताहे अधिकारं प्रविशति। कोविड् भीत्या कष्टतामनुभूयमाने अस्मिन् सन्दर्भे सामान्यनिर्वाचनं दुर्घटं स्यात् इत्यतः प्रमुखराष्ट्रियदलाभ्याम् एवं सख्यभरणाय निर्णयः स्वीकृतः। सर्वकारस्यास्य कालावधिः मासत्रयं वर्तते। परस्परधारणामनुसृत्य प्रथमं १८ मासात्मककालं नेतन्याहुः राष्ट्रभरणं निर्वहति, ततः बेन्नि गान्ट्स् च भरणं वहिष्यति।
कोविड् व्यापनम् - विश्वे भारतं चतुर्दशः स्थाने।
      नवदहली> भारते कोविड् रोगीणां संख्या पञ्चाशद्सहस्रं तथा मरणसंख्या उपद्विसहस्रं चाभवत्। तेन च रोगव्यापनं रूक्षतां प्राप्नानां राष्ट्राणां पट्टिकायां भारतमपि प्रविष्टम्। पट्टिकायां भारतस्य स्थानं चतुर्दश भवति। विश्वे २१२ राष्ट्रेष्वेव कोविड् रोगः व्यापृतः वर्तते। तेषु ४० राष्ट्रेषु रोगीणां संख्या दशसहस्राधिका भवति। तेष्वपि १५ राष्ट्रेषु रोगीणां संख्या पञ्चाशद्सहस्राधिका च भवति। एवंरीत्या रोगव्यापनम् आशङ्काञ्च जनयति।
लोकराष्ट्रेषु कोविड् प्रत्याघातः रूक्षः। 
अमेरिक्कायां वृत्तिरहिताः ३.३कोटिपरिमिताः।
 >  कोविड्रोगस्य आघाते लोकराष्ट्राणि विविधमण्डलेषु अतिक्लेशमनुभवन्ति। बहुषु राष्ट्रेषु रोगसंक्रमणम् अनियन्त्रितं वर्तते। लोके निखिले रोगबाधिताः ३८,५५,१४३ प्राप्ताः। मृत्युसंख्या २,६६,१९५ अभवत्। 
 अमेरिक्कायां कोविड् कारणेन वृत्तिविनष्टानां संख्या ३.३कोटिपरिमिता जाता इति राष्ट्रस्य उद्योगमन्त्रालयेन निगदितम्। किन्तु कोविड्प्रतिरोधाय रूपीकृतां कर्मसमितिम् अवसादयितुं डोणाल्ड् ट्रम्पः इच्छति। 
 ब्रिट्टने इतःपर्यन्तम् अनभिमुखीकृतं बृहत्तमः आर्थिकाभावक्लेशः अधुना अभिमुखीक्रियते इति 'बैंक् ओफ् इङ्लण्ट्' संस्थया उक्तम्। आर्थिकाभिवृद्धौ १४ %स्य न्यूनता संभवेदिति जाग्रतासूचनापि दत्ता। 
 रूस् राष्ट्रे प्रतिदिनं दशसहस्रं जनाः रोगबाधिताः भवन्ति। रुग्णाः १.७५ लक्षमतीताः। राजधान्यां मोस्कोनगर्यां पिधानं मेय् ३१पर्यन्तं दीर्घीकृतम्। १२ दिनाङ्कतः सामान्यगमनागमनसंविधानेषु मुखावरणमवश्यं कृतम्।  तत्रत्यः सांस्कृतिकमन्त्री अपि रोगबाधितः अभवत्। 
  जापानदेशे कोविड्रोगमुक्तये अनुकूलमिति विश्वस्यमानं 'रेम् डिसिवर्' नामकमौषधमङ्गीकृतम्। 
चीनायां वुहाने १२० सीनियर् सेक्कण्टरि विद्यालयाः उद्घाटिताः। गतमासस्य विदेशनिर्गमने ३.५%स्य वर्धनमभवत्। 
  फ्रांस राष्ट्रे नियन्त्रणेषु मेय् ११ आरभ्य भागिकतया शैथिल्यं करिष्यतीति प्रधानमन्त्रिणा एड्वेड् फिलिप्पेन सूचितम्।
  पाकिस्ताने नियन्त्रणेषु पदे पदे शैथिल्यम् अनुमोदयिष्यति। एतदाभ्यन्तरे यू ए ई तः प्रत्यागतेषु बहुषु कोविड्बाधा दृढीकृता। 
  स्वीडने मरणं त्रिसहस्रंमतीतम्। बुधवासरे ९९ जनाः मृताः। 
 पूर्वयूरोप्, आफ्रिक्का, दक्षिणपूर्वीय एष्या , पूर्वमेडिट्टरेनियप्रदेशाः, अमेरिक्का इत्येतेषु प्रान्तेषु रोगसंक्रमणं वर्धमानमस्तीति विश्वस्वास्थ्यसंघटनस्य निदेशकप्रमुखेन निगदितम्। किन्तु पश्चिमयूरोपे व्यापनं न्यूनमस्ति।

Thursday, May 7, 2020

प्रवासिनः केरलं प्राप्ताः।
कोच्ची > अबुदाबी, दुबाय् राष्ट्राभ्यां प्रवासिजनान् वहत् विमानद्वयं केरलं प्राप्तम्। प्रथमपादे ३५४ यात्रिकाः स्वराज्यं प्रत्यागताः। 
  अबुदाबीतः १७७ यात्रिकान् वहत् प्रथमं विमानं रात्रौ १०.०८ वादने कोच्ची अन्ताराष्ट्रविमाननिलयं प्राप्तम्। तस्मिन् ४९ गर्भवत्यः तथा चत्वारः बालकाश्च अन्तर्भवन्ति। 
  द्वितीयं विमानं दुबाय् तः १०. ३३ वादने कोष़िक्कोट् विमाननिलयं प्राप्तम्। तीव्रं सुरक्षामानदण्डं परिपाल्य एव यात्रिकाणां स्वीकरणं विधत्तम्।
कोविडं विरुध्य प्रतिरक्षा उत्तेजकं (Antibody) परिपोषितमिति इस्रयेलः। 
 जरुसलेम् >  'नोवल् कोरोणा' नामकं विषाणुं प्रतिरुध्यमानं प्रतिरक्षाउत्तेजकं (Antibody) परिपोषितमिति इस्रयेलराष्ट्रेण उपपादितम्। Israel Institute for Biological Research नामकसंस्थायाः शास्त्रज्ञाः एव अस्योद्यमस्य पृष्ठभूमौ इति तद्राष्ट्रस्य रक्षामन्त्रिणा नफ्ताली बन्नट् इत्यनेन निगदितम्। उत्तेजकस्य परिपोषकसोपानानि सम्पूर्णानि अभवन् , विशिष्टाधिकारपत्राय [Patent] उत्पादनाय च अनुज्ञां लब्धुं प्रयतते इति तेनोक्तम्। 
  कोविड् विषाणोः जैवसंरचनं प्रवर्तनादिकं च I I B R शास्त्रज्ञैः प्रत्यभिज्ञातं , एनं विरुध्य प्रतिरक्षा उत्तेजकं पोषयितुं एतत् सहायकं भविष्यतीति मार्च् मासे 'हारटस्' नामकेन इस्रयेलियमाध्यमेन निवेदितमासीत्।
विशाखपट्टणे विषवातकदुरन्तः - सप्त जनाः मृताः।

     विशाखपट्टणम् > आन्ध्राप्रदेशस्य विशाखपट्टणे पोलिमर्यन्त्रागारतः विषवातकव्यापनेन महान् दुरन्तः सञ्जातः। अद्य प्रातः चतुर्वादने एव विषवातकव्यापनं सम्बन्ध्य सूचना लब्धा वर्तते। दुरन्ते एतावता सप्त जनाः मृताः वर्तन्ते। पञ्चाशतधिकाः जनाः गुरुतरावस्थायाम् आतुरालयेषु वर्तन्ते। अतः मरणसंख्या इतोऽपि वर्धयिष्यति इत्यपि सूचनास्ति। सुरक्षाक्रमीकरणस्य भागतया अधिकारिणः दुरन्तप्रदेशं परितः विद्यमानेभ्यः २० ग्रामेभ्यः जनान् निष्कासयन्तः वर्तन्ते। ५ कि.मी. अधिकेषु प्रदेशेषु विषवातकं व्यापृतं भवति।
कोराणरोगाणवः आतङ्कवादिनः  च भारतेन पराजिताः - उपराष्ट्रपतिः एम् वेङ्कय्यनायिडुः।
            नवदहली> अतीव विनाशकारिणः कोराणरोगाणवः तथा आतङ्कवादिनः च भारतस्य आत्मविश्वासस्य परिश्रमस्य च पुरतः पराजिताः इति उपराष्ट्रपतिना एम् वेङ्कय्यनायिडुमहोदयेन अभिप्रेतम्। कोरोणरोगाणोः सामूहिकव्यापनम् इति दुर्घटावस्थायामस्यां भारतम् आक्रमितुम् उद्युक्ताः आतङ्कवादिनः तस्मिन् श्रमे पराजिताः इति तेन उक्तम्। आतङ्कवादिनः प्रोत्साहयितुं पाकिस्थानेन सामूहिकमाध्यमानां दुरुपयोगः व्यापकतया क्रियते इति उपराष्ट्रपतिना सूचितम्। जम्मुकाश्मीरे प्रवृत्तम् आतङ्कवादाक्रमणं परामृश्य भाषमाणः आसीत् सः। आतङ्कवादप्रवर्तनानि विश्वे सर्वत्र आशङ्कां भीतिं च जनयन्ति, अस्य प्रतिरोधाय  जनाः सामुदायिकतर्कान् परित्यज्य एकमनसा भवन्तु इत्यपि महोदयेन अभिप्रेतम्।
भारते सामान्यगमनागमनसुविधा अचिरादेव पुनरारभ्यते - केन्द्रमन्त्री नितिन् गड्करिः।
चित्रं- इन्ट्यन् एक्स्प्रस् द्वारा
   नवदहली> भारतराष्ट्रे सामान्यगमनागमनसुविधा अचिरादेव पुनरारभ्यते इति केन्द्र-सामान्य-गमनागमन-विभागमन्त्री नितिन् गड्करिः न्यवेदयत्। एतदर्थं आवश्यकान् निर्देशान् अन्तर्भाव्य  विज्ञापनं करिष्यतीति मन्त्री असूचयत्। इतःपरं सामूहिकतया परस्परं दूरं परिपाल्य एव यात्रादिकं करणीयम् इत्यपि सः अवदत्। सामान्यगमनागमनसुविधायाः  तथा देशीयमार्गाणां च पुनरारम्भः जनेषु आत्मविश्वासं वर्धयिष्यति इति सः अवदत्। राष्ट्रस्य वाहनप्रचालकसमित्या सह सामूहिकमाध्यमद्वारा कृते मेलने भाषयन्नासीत् सः।

Wednesday, May 6, 2020

सम्पूर्णपिधानकालम् उपयुज्य भारतीयरेल्विभागः। 
     नवदहली> मार्च्२४ तः आरब्धस्य सम्पूर्णपिधानकालस्य सदुपयोगं कृत्वा भारतीयरेल्विभागः। कालेऽस्मिन् विभागेन १९२४८८ कि.मि. रेल्मार्गाणां पुनर्निर्माणं कृतं वर्तते। अन्यत् यात्रासेवनं किमपि नास्तीत्यतः निर्माणादिकं सुकरं चाभवत्। 'ओसिलेषन् मोणिटरिङ्' संविधानस्य साहाय्येन रेल्मार्गाणां स्थितिं परीक्ष्य एव आवश्यकं निर्माणादिकं कृतं भवति। एवमेव तेलङ्कानस्य कासिपेट् ,आन्ध्राप्रदेशस्य विजयवाड, कर्णाटकस्य बाङ्‌गुलुरु सिटि, गुजरातस्य बरोड इत्यादीनां रेल्सङ्केतानां नवीकरणप्रवर्तनान्यपि कालेऽस्मिन् निर्वोढुं शक्तानि सन्ति ।
पिधानं ४० दिनानि अतीतान्यपि रोगसङ्क्रमणस्य वर्धनम् आशङ्कायते। 
 नवदिल्ली >  भारते सम्पूर्णं पिधानं चत्वारिंशद्दिनानि अतीतान्यपि राष्ट्रस्य विविधेषु प्रान्तेषु कोविड्रोगसंक्रमणं तीव्रतया वर्धते इति आशङ्कां जनयति। रोगबाधितानां संख्या ४६,०००अतीता। मृत्युसंख्या अपि शीघ्रं वर्धते। महाराष्ट्रं, गुजरात्, तमिल्नाट् , दिल्ली इत्यादिषु राज्येषु रोगः नियन्त्रणातीतः वर्तते। 
  महाराष्ट्रे गतदिने ८४१ जनानां रोगबाधा दृढीकृता। अनेन रुग्णानां संख्या १५,००० अतीता। धारावी, मुम्बई इत्यादिषु प्रान्तेषु पिधाने तीव्रं नियन्त्रणं विधत्तम्। मुम्बय्यां १४५९ तीव्रव्यापनमण्डलानि सन्ति।  राज्ये १४ जनपदानि रक्तमण्डलानि विहितानि। 
  गुजरात राज्ये रुग्णानां तथा मरणानां संख्या मङ्गलवासरे उच्चस्थितिं प्राप्ता। ४४१ नूतनाः रोगिणः, ४९ मरणानि च अभवन्। 
  दिल्ल्यां गतदिने २०६ जनाः कोविड्बाधिताः जाताः। रुग्णसंख्या कृत्स्नं ५१०० अतीता। ६४ जनाः मृताः। 
  तमिल्नाटे दिनद्वयं यावत् रोगबाधिताः प्रतिदिनं ५०० इति क्रमेण वर्तन्ते। चेन्नैनगरं रोगव्यापनस्य केन्द्ररूपेण वर्तते। राज्ये निखिलं ४०५८ रोगबाधितेषु २००८ परिमितं चेन्नै प्रान्ते एवास्ति।

आरोग्यसेतु आप्‌ सुरक्षितम् - केन्द्रसर्वकारः।
    नवदहली> आरोग्यसेतु आप्‌ सुरक्षितम् इति केन्द्रसर्वकाराय नियममन्त्री रविशङ्करप्रसादेन उक्तम्। आप् तः व्यक्तीनां निजीयांशाः न अपहृताः इति तेन सूचितम्। प्रत्येकं व्यक्तिम् प्रत्यभिज्ञातुम् आरोग्यसेतु आप्‌ संविधानम् अपर्याप्तम् भवतीति तेन उक्तम्। कोविड् प्रतिसन्धेः तरणायैव संविधानस्यास्य उपयोगः सर्वकारेण प्रेरितः भवति, संविधानमिदं शाश्वतं न भवति - मन्त्रिणा सूचितम्‌। वैय्यक्तिकांशाः अपह्रियन्ते इति भीतिः मा भवतु इत्यपि तेन निवेदितम्। राष्ट्रे सर्वकारकर्मकरैः आरोग्यसेतु आप्‌  उपयोक्तव्यम् इति केन्द्रसर्वकारेण निर्बन्धरूपेण निवेदितमासीत्। किन्तु, संविधानेऽस्मिन् व्यक्तीनां निजीयांशानां सुरक्षाविषये न्यूनताः सन्तीति प्रतिपक्षनेतृभिः तत्तत्वनिपुणैः च आरोपितञ्च। अत एव केन्द्रसर्वकारपक्षतः आप् विषये विशदीकरणं दत्तं वर्तते।
केन्द्रसर्वकारस्य जन औषधिकेन्द्राणि प्रतिगृहम् औषधलभ्यतायै प्रवर्तन्ते- प्रधानमन्त्री

  नवदहली> सम्पूर्णपिधानवेलायामस्याम् अवश्यौषधानां लभ्यतायै प्रधानमन्त्री भारतीय जनौषधिपरियोजनकेन्द्राणि प्रवर्तन्ते। एतदर्थम्‌ उपभोक्तृणां कल्पनाः वाट्साप्, इ मेयिल् इत्यादिसामूहिकमाध्यमद्वारा स्वीक्रियन्ते। एवम् उपभोक्तृभिः समर्प्यमाणानां औषधनिश्चयपत्राण्यनुसृत्य  प्रतिगृहं औषधवितरणं करिष्यन्ति च। अधुना कानिचन जनौषधिकेन्द्राणि सामूहिकमाध्यमद्वारा कल्पनां स्वीकृत्य सेवां कुर्वन्ति च। अस्य संविधानस्य विपुलीकरणम् अवश्यं करिष्यतीति केन्द्रमन्त्री डि वि सदानन्दगौडमहोदयः न्यवेदयत्। ग्रामप्रदेशानाम् अन्ततो गत्वा सेवनाय पत्रालयविभागस्य साहाय्यमपि स्वीक्रियते। सम्पूर्णपिधानवेलायाम् औषधवितरणभङ्गः मा भवतु इति धिया १७८ विधानाम् अवश्यौषधानां लभ्यतायै १८२ कोटिरुप्यकाणां कल्पना मन्त्रालयद्वारा दत्ता वर्तते। एवं 'जनौषधि सुगम्' नामकम् आप्‌ अपि सेवनं लब्धुम् उपयोक्तुं शक्यते।

Tuesday, May 5, 2020

कोविड्रोगाणोः प्रसरणशक्ते: शमनं प्राप्नोति - राष्ट्राणि समाश्वासमार्गे।
         नवदहली> २०२० वर्षस्य जनुवरि मासादारभ्य आरब्‍धा कोविड्भीतिः सावधानतया शमनं प्राप्नोति। कोविड्रोगाणोः प्रसरणशक्तिः शाम्यति इति विविधानां विश्वराष्ट्राणाम् अधुनातनस्थितिम् आधारीकृत्य विश्ववार्तामाध्यमाः सूचयन्ति। द्विलक्षाधिकानां जनानां मरणाय कारणस्य कोरोणरोगाणोः सामाजिकव्यापनं फेब्रुवरि-मार्चमासयोः अधिकमासीत्। किन्तु, अधुना तादृशं रोगव्यापनं न दृश्यते इति विविधानां राष्ट्राणां रोगिणां संख्या सूचयति। सम्पूर्णपिधानसहितानां नियन्त्रणानां फलप्रदरीत्‍या संयोजनं तथा निरीक्षण-परीक्षणादिकं च रोगाणोः सामाजिकव्यापनं प्रतिरोद्धुम् उपकारकम् अभवत्। अमेरिकदेशस्य स्थिति: निराशाप्रदायिका चेदपि एष्यस्य यूरोपस्य च स्थितिः समीचीना एव। अत एव यूरोपीयराष्ट्रेषु सम्पद्व्यवस्थायाः पुनरुज्जीवनप्रवर्तनानि आरब्धानि च। बहुत्र अतीवसुरक्षाकार्यक्रमैः सह यन्त्रागारकेन्द्राणि, वाणिज्यकेन्द्राणि, भोजनालयाः, पुस्तकालयाः च प्रवर्तन्ते। शैक्षिकस्थापनानां प्रवर्तनं भागिकतयैव आरब्धं दृश्यते। बहिर्गमनवेलायां मुखावरणधारणम् अवश्यं करणीयं भवति। भारते अपि सम्पूर्णपिधानं तृतीयस्तरं प्रविष्टं चेदपि आनुकूल्यादिकं दत्तं वर्तते च। तथापि सम्पूर्णपिधाननियन्त्रणेषु आनुकूल्यादिकं विचिन्त्य एव दातव्यम् इति विशारदाः अभिप्रयन्ति च।

Monday, May 4, 2020

 विद्यालयछात्रेभ्यः अन्तर्जालीयकक्ष्या समारभ्यते।

     कालटी> सम्प्रतिवार्तया विद्यालयछात्राणां कृते अन्तर्जाल-माध्यमद्वारा अध्ययनं समारभ्यते। कोविड्१९ वैराणुव्यापनेन  विद्यालयानाम् उद्घाघाटनं विलम्बेन स्यात् इति चिन्तायां भवति  इयं  विचिन्तनं इति सम्प्रतिवार्तपत्रिकया आवेद्यते। एतदर्थं यूट्यूब्  माध्यमेन  नवीना वाहिनी आरप्स्यते  अन्तर्जलप्रसारणम् अपि भविष्यति। केरल-सर्वकारस्य पाठ्य-प्रणालीम् अनुसृत्य कक्ष्याचालनाय अध्यापकाः नियुक्ताः। सि बि एस् सि पाठ्यप्रणालीम् अनुसृत्य अपि भविष्यति।

   मेय् मासस्य सप्तम दिनाङ्के गूगिल् मीट् सुविधा द्वारा प्रशिक्षकानाम् अन्तर्जाल-संगोष्ठी# (online seminar) निश्चिता अस्ति। विशेषज्ञाः तन्त्रज्ञाः च अस्मिन् भागभाजः भविष्यन्ति।

विश्वारोग्यसंस्थायाः औषधपरीक्षणे भारतस्यापि योगदानम्।
      नवदहली> कोविड्१९ प्रतिरोधाय नूतनौषधपरीक्षणं प्रति भारतमपि प्रविशति। विश्वारोग्यसंस्थायाः नेतृत्वे सज्जीक्रियमाणे औषधपरीक्षणे भारतमपि भागभाक् भविष्यतीति केन्द्र-स्वास्थ्यमन्त्री डा.हर्षवर्धनः न्यवेदयत्। 'सोलिडारिट्टि' इति नाम्ना क्रियमाणे औषधपरीक्षणे रेम्टेसिविर् नामकम् औपधं राष्ट्रस्य विविधेषु मण्डलेषु कोविड् रोगिषु परीक्ष्यते इति हर्षवर्धनः न्यवेदयत्। एतदर्थम् औषधस्य १००० मात्रा सज्जीकृतं वर्तते। परीक्षणं सम्बन्ध्य उन्नतस्तरे चर्चाः कियमाणाः सन्ति। ऐ सि एम् आर्, सि एस् ऐ आर् संस्थयोः वैज्ञानिकैः विषयोऽयं निरीक्ष्यते च। अमेरिकदेशे कोविड् रोगिषु रेम्टेसिविर् औषधस्य प्रयोगेन ३१% वेगेन रोगमुक्तिः सञ्जाता च। कोविड्१९ रोगमुक्तये आवश्यकान् कालान् न्यूनीकर्तुम् औषधोऽयम् उपकारकं भवतीति 'सोलिडारिट्टि' नामकः औषधपरीक्षणसङ्घः प्रमाणीकरोति। सङ्घेऽस्मिन् शताधिकानि राष्ट्राणि भागभाक्त्वं वहन्ति। मनुष्यशरीरेषु प्रविश्यमाणस्य कोरोणरोगाण्वोः स्वयपरिवर्तनशेषिं रेम्टेसिविर् औषधं नाशयतीति वैज्ञानिकाः अभिप्रयन्ति।

कुल्भूषण् यादवस्य मोचनं साध्यम् - हरीष् साल्वे।

       नवदहली> पाकिस्थानस्थस्य सैनिकन्यायालयस्य वधदण्डननिर्णयेन बन्धनस्थस्य कुल्भूषण् यादवस्य मोचनाय नयतन्त्रसाहाय्यं लब्धुं भारतेन अन्ताराष्ट्रन्यायालयः प्रापणीयः इति प्रमुखः अभिभाषकः हीरष्‌ साल्वे अवदत्। एकस्मै देशीयवार्तामाध्यमाय दत्तायां अभिमुखवेलायां भाषयन्नासीत् हरीष्‌ साल्वे। कुल्भूषण् यादवाय नयतन्त्रसाहाय्यं दातव्यमिति निर्देशः २०१९ तमे वर्षे लब्धः वर्तते, किन्तु निर्देशोऽयं  पाकिस्थानेन न पाल्यतेति सः अवदत्। अतः तस्य मोचनाय भारतेन अन्ताराष्ट्रन्यायालयः एव प्राप्तव्यः इति साल्वे असूचयत्। कुल्भूषणस्य मोचनाय भारतेन २३ आवेदनानि पाकिस्थानं प्रति समर्पितानि सन्ति। किन्तु कदापि एकं  प्रतिकरणमपि पाकिस्थानपक्षतः नाभवत् - सः असूचयत्। कुल्भूषणः स्वयमेव अपराधवहनं अकरोत् इत्येव पाकिस्थानस्य विशदीकरणं, किन्तु एतदर्थं किमपि निदानं न समर्पितं च, साल्वे अभिप्रयत्। एतत् पाकिस्थानेन क्रियमाणं मानवाधिकारलङ्घनमेव भवतीत्यपि हरीष् साल्वे अवदत्। कुल्भूषणस्य मोचनम् अन्ताराष्ट्रन्यायालयस्य साहाय्येन सुसाध्यमेव इति प्रतीक्षामपि सः प्राकटयत्।

Sunday, May 3, 2020

केरलस्य कोविड्प्रतिरोधाय शशि तरूरस्य अतुल्यं योगदानं - "Thermal Optical Imaging Camera" ।

 अनन्तपुरी >  केरलस्य कोविड् प्रतिरोधकर्ममण्डलाय अधिकोर्जं प्रदाय लोकसभासदस्यस्य शशि तरूरस्य महत्तरं योगदानम्। कृत्रिममेधाशक्तियुक्तं  मुखावगमनसाङ्केतिकविद्याधिष्ठितं "Thermal Optical Imaging Camera" नामकं चित्रग्राहियन्त्रं केरलराजधानिम् आनीय सः केरलस्य कोविड्प्रतिरोधयज्ञाय  शक्तिं प्रददात्। 
  सामाजिकदूरं पालयतां अनेकेषां शरीरतापं युगपद् प्रत्यभिज्ञातुं अनेनोपकरणेन शक्यते। शशि तरूरस्य आगोलसौहृदं 'एम् पि निधिं' चोपयुज्य जर्मनीतः एवेदं तापीयचित्रग्राहियन्त्रम् आनीतम्। गते एप्रिल् २४तमे जर्मन्यां कोलोण् प्रदेशात् डि. एछ्. एल् संस्थायाः सविशेषविमाने पारीस्, ब्रसल्स्, लीप्सिग्, बहरिन्, दुबाय् इत्येतैः विमाननिलयैः २८तमे दिनाङ्के बंगलुरु प्रापितम्। ततः वीथीमीर्गेण अनन्तपुरं प्रापितम्। 
  ह्यः अनन्तपुरीतः स्वराज्यं गतवताम् इतरराज्यकर्मचारिणां शरीरतापः अनेन यन्त्रेणैव अवगतः। ५.८ लक्षं रूप्यकाणि मूल्ययुतस्य यन्त्रस्य आनयनव्ययः २.७५ लक्षम् अभवत्। इतरराज्यकर्मकराणां गमनसमये तथा प्रवासिनाम् आगमनसमये च इदं चित्रग्राह्युपकरणम् अत्यन्तं प्रयोजनप्रदं भविष्यतीति मन्यते।