OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 28, 2023

 "संस्कृतभाषाशिक्षणवर्गः" इत्यनेन "गृहे गृहे संस्कृतम्" सम्पूर्णं राज्यं लाभं प्राप्स्यति - विनय श्रीवास्तव: ।

वार्ताहरः - सचिन शर्मा, उत्तरप्रदेशः ।

उत्तरप्रदेश संस्कृत-संस्थानम् उत्तरप्रदेश-सर्वकारस्य भाषाविभागस्य अन्तर्गतं मार्चमासे प्राविधिकस्तरं क्रियमाणानां कक्षानां समाप्तौ, जेसी अतिथिगृहे सप्तदिवसीयस्य शिक्षकप्रशिक्षणस्य च समाप्तेः अवसरे, गृहे गृहे संस्कृतयोजना अन्तर्गत निरालनगरे संस्थाननिदेशकः विनयश्रीवास्तवः कार्यक्रमे प्रशिक्षुभ्यः प्रशिक्षकेभ्यः च प्रमाणपत्रं वितरितवान्। प्रशिक्षून् सम्बोधयन् सः अवदत् यत् भवन्तः मण्डलस्तरस्य संस्थायाः राजदूतरूपेण कार्यं करिष्यन्ति। उत्तरप्रदेशस्य संस्कृतसंस्थानं शीघ्रमेव जिलास्तरस्य समन्वयकान् स्थापयिष्यति, न केवलं ऑनलाइन, अपितु प्रथमचरणे प्रत्येकस्मिन् गृहे संस्कृतभाषास्तरं सुदृढं कर्तुं प्रयतते।

Monday, March 27, 2023

 अतुल्यः अभिनेता इन्नसेन्ट् दिवंगतः। 


कोच्ची> कैरलीचलच्चित्रमण्डले हास्यनटानां  चक्रवर्तिपदे  विराजमानः अतुल्यः नटः इन्नसेन्ट् रविवासरस्य रात्रौ कालयवनिकां प्राप्तः। ७५ वयस्कः आसीत्। मार्च्मासस्य प्रथमवारे ह्रस्वकालीयाम् अमेरिकायात्रां समाप्य प्रतिनिवृत्तः सः 'न्युमोणिया'ज्वरबाधया सप्ताहत्रयं यावत् कोच्चीनगरस्थे  आतुरालये परिचर्यायामासीत्। 

  नववत्सरेभ्यः पूर्वं अर्बुदरोगबाधितः इन्नसेन्ट् वर्यः चिकित्सया सह निश्चयदार्ढ्येन मनःस्थैर्येण च रोगमुक्तः सन् सहस्रशः अर्बुदबाधितेभ्यः आत्मविश्वासं प्रादात्। ७५,००० प्रतिकृतिभिः 'क्यान्सर् वार्डिले चिरि' [अर्बुदप्रकोष्ठे हासः] नामकः तस्य अर्बुदकालजीवितानुभवग्रन्थः सुतरां प्रशस्तोSभवत्। आङ्गल-तमिल-कन्नट-इटालियभाषासु तस्य ग्रन्थस्य अनूदितानि जातानि। उपसप्तशतेषु चलच्चित्रेषु तस्य अभिनयप्रवीण्यं प्रकट्तवान् सः सहनटस्य राज्यपुरस्कारं च प्राप्तवान्। 

  २०१४ तमे वर्षे चालक्कुटि मण्डलात् लोकसभासदस्यरूपेण चितः आसीत्। १५ संवत्सराधिककालं  'अम्मा' नामकचलच्चित्रसंघटनस्य अध्यक्ष आसीत्। इन्नसेन्टवर्यस्य देहवियोगे प्रधानमन्त्री नरेन्द्रमोदी अनुतापं प्रकाशितवान्।

Sunday, March 26, 2023

 वाक्सुधा कार्यशाला अद्य सुसम्पन्ना

    आधुनिककाले संस्कृतम् संस्कृतानुवादस्य प्राधान्यं च इति विषयमधिकृत्य समारब्धा त्रिदिवसीया कार्यशाला सुसम्पन्ना। अमृतविद्यापीठस्य कोच्ची परिसरे आयोज्यमानायां कार्यशालायां विविधान् विषयान् चर्चितवन्तः। 


    संस्कृतस्य अन्यभारतीयभाषाणां च मिथः संबन्धः, भाषान्तरीकरणस्य रीतिशास्त्रं, संस्कृतस्य सङ्गणकीयभाषा इति रीत्या वैज्ञानिकाध्ययनं, सङ्गणकमण्डले संस्कृतस्य स्थानं, शब्दशालायोजना, सरल-मानक-संस्कृतं, भारतीयायाम् आङ्गलेयभाषायां संस्कृतस्य प्रभावः,


योगशास्त्रग्रन्थसंबन्धी ग्रन्थस्य संस्कृतानुवादस्य सन्दर्भः, संस्कृतभाषायाः आधुनिकवैज्ञानिकमण्डले अनिवार्यता इत्यादयः बहवः विषयाः अस्याां कार्यशालायां परिकल्पिताः च। सत्रस्य समापनसमारोहे डा. एम् वि नटेशः विशेषज्ञरूपेण उपस्थितः आसीत् ।

 सर्वेषु मण्डलेषु स्त्रियः शक्तिं समार्जितवत्यः - मन की बात कार्यक्रमे प्रधानमन्त्रिणा उक्तम्।

   प्रधानमन्त्रिणः नरेन्द्रमोदिनः 'मन की बात' नाम मासिकीय आकाशवाणी कार्यक्रमे तेन उक्तं यत् सर्वेषु मण्डलेषु स्त्रियः शक्तिं समार्जितवत्यः इति। कार्यक्रमस्य एकोन शततमं प्रसारणम् आसीत् इदम्।  

  भारतस्य संवर्धने महिलानां महती भूमिका वर्तते। ते प्रत्येकस्मिन् क्षेत्रे स्वकौशलं सिद्धयन्ति। नागालैण्ड्देशे ७५ वर्षेभ्यः परं प्रथमवारं विधानसभायां द्वे महिले आगतवत्यौ इति प्रधानमन्त्री अवदत्।

   अस्माभिः संयुक्तराष्ट्रसङ्घस्य नियोगे अन्तर्गतायां शान्तिसेनायां महिलानां मण्डलम् एकं प्रेषितम् आसीत्। भारतस्य क्षमतां नूतनस्तरं प्रति नेतुम् महिलानाम् उपलब्धयः महत्त्वपूर्णाः सन्ति इत्यपि नरेन्द्रमोदिना स्मृतम्।  

  २०१४ तमस्य वर्षस्य विजयदशमी-दिने (अक्टोबर्-मासस्य ३ दिनाङ्के) आरब्धस्य 'मन की बात'-कार्यक्रमस्य ९९ तमे प्रकरणे आसीत् प्रधानमन्त्रिणः महिलां प्रति ईदृशी सहयोग प्राप्तिः तदीयं वचश्च।

 मिसिसिप्पि राज्ये चक्रवातः। २५ जनाः मृताः। 

    शुक्रवासरे रात्रौ दुरापन्ने अतिशक्ते चक्रवाते २५ जनाः मृत्युमुपगताः। मृतानां संख्या इतोऽपि वर्धिता स्यात् इत्यस्ति प्रतिवेदनम्। चक्रवातस्य दुष्प्रभावेन 'कार्'-यानानि पक्षिवत् उड्डयितानि। अन्यानि वाहनानि गृहाणि वृक्षाः च नाशिताः। विद्युद्बन्धः विनष्टः। चक्रवातेन भारवाहनान्यपि हर्म्याणाम् उपरि क्षिप्तानि इति प्रचरितैः चित्रैः  दृश्यन्ते। अमेरिक्कस्य राष्ट्रपतिना जो बैडनेन दुरन्तबाधितेभ्यः साहाय्यं करिष्ये इति उक्तम्। चक्रवातस्य अधिकं दुष्प्रभावम् अनुभूतं नगरं रोलिङ्फोर्क् भवति। सामान्येन यत्रकुत्रापि विद्युद्बन्धः नास्ति। तस्मात् समागताः दृश्यखण्डाः दुरन्तस्य व्याप्तिं बोधयति।  भग्नावशिष्टानाम् अधः बहवः जनाः निरालम्बाः लग्नाः  स्युः इति प्रतिवेदितमस्ति।

 राहुलगान्धी सदस्यपदात् निष्कासितः। 

कारागारबद्धोSपि प्रजाधिपत्याय युद्धं करिष्यामीति राहुलः। 

नवदिल्ली> २०१९ तमे वर्षे निर्वाचनकाले कर्णाटकस्य कोलार् प्रदेशे आयोजिते सम्मेलने मोदिनामकं धर्मसमाजं स्वभाषणेन अपकीर्तीकृतवान् इत्यस्मिन् प्रकरणे वर्षद्वयं यावत् कारागृहदण्डनं विहितः राहुलगान्धी लोकसभासदस्य पदात् निष्कासितः। शुक्रवासरे लोकसभायाः सचिवमुख्यः उत्पल्कुमारसिंहेन एव आदेशः विज्ञापितः। नीतिसंधानस्य १०२(१)ई अनुच्छेदानुसारं तथा च प्रजाप्रातिनिध्यनियमस्य अष्टमव्यवस्थानुसारं च अयं प्रक्रम‌ इति आदेशे स्पष्टीकृतम्। 

  अनेन उपरिनीत्पीठात् यदि विधितिरस्कारः न लप्स्यते तर्हि अष्ट वर्षाणि यावत् राहुलः निर्वाचनेषु स्पर्धितुम् अयोग्यः भविष्यति। 

  किन्तु गतदिने स्वदलास्थाने समायोजिते पत्रकारसमेमेलने राहुलगान्धी केन्द्रसर्वकारंं प्रधानमन्त्रिणं नरेन्द्रमोदिनं च तीव्रभाषया विमृष्टवान्। यदि कारागारे बद्धः भविष्यति तर्हि प्रजाधिकारयुद्धात् प्रतिनिवर्तनं न भविष्यतीति राहुलः उक्तवान्। तदर्थं स्वस्य संग्रामः अनुवर्तिष्यते इति तेनोक्तम्।

 इसरो इत्यस्य विक्षेपणवाहनं 'मार्क् ३'   ३६ उपग्रहैः सह विक्षिप्तम्।

  चेन्नै>  ब्रिटिश्-अन्तर्जालसेवाप्रदातृसंस्थायाः 'वण् वेब्' इत्यस्य  ३६ उपग्रहैः सह इसरो इत्यस्य विक्षेपणवाहनस्य मार्क् ३ – एम्३ (एलवीएम ३ – एम्३) इत्यस्य  प्रक्षेपणं सफलतया कृतम् । श्रीहरिक्कोट्टानगरस्य सतीशधवान्-अन्तरिक्षकेन्द्रात् द्वितीयविक्षेपणस्थानात् प्रातः ९ वादने आसीत् एलवीएम ३ इत्यस्य अन्तरिक्षविक्षेपणम्।

Friday, March 24, 2023

 अपकीर्तिकरपरामर्शः - राहुलगान्धी संवत्सरद्वयं दण्डितः। 

दण्डविधिं साक्षात् श्रुत्वा सूरत् न्यायालयात् दिल्लीं प्राप्तः राहुलगान्धी प्रवर्तकान् अभिवादयति। 

अहम्मदाबादः> २०१९ तमे संवत्सरे निर्वाचनकाले आयोजिते एकस्मिन् सम्मेलने कृते तस्य भाषणे 'मोदि' इति धर्मसमाजम् अपकीर्तीकृतमिति प्रकरणे कोण्ग्रसः नेता राहुलगान्धी गुजरातस्य सूरत् नीतिपीठेन वर्षद्वयं   यावत् कारागारदण्डः विहितः। पुनर्विचारयाचिकायै दण्डः ३० दिनानि यावत् स्थगयित्वा तस्मै  प्रातिभाव्यम् अनुमोदितम्। 

  संवत्सरद्वयस्य दण्डविहितेन राहुलगान्धिनः लोकसभासदस्यत्वं अनिश्चितं वर्तते। यदि  उपरिन्यायालयात्  पूर्णतिरस्कारः न लप्स्यते तर्हि जनप्रातिनिध्यनियमानुसारं वयनाट् मण्डलात् लब्धं सदस्यत्वं विनष्टं भविष्यति। उपरिन्यायालयं प्रति  दण्डविमुक्ताभियाचिकां समर्प्य अनन्तरप्रक्षेपान् करिष्यतीति कोण्ग्रस् दलस्य नेतृभिः निगदितम्।

 कोविड्रोगः वर्धते। भारतम् अतीव जाग्रतायाम्। प्रधानमन्त्रिणः आध्यक्षे उच्चस्तरयोगः।

    नवदिल्ली> दीर्घकालविरामानन्तरं कोविड् प्रकरणानि वर्धिते सन्दर्भेऽस्मिन् राष्ट्रे अतिजाग्रतानिर्देशाः प्रदत्ताः। प्रधानमन्त्रिणः आध्यक्षे उच्चस्तरमेलनं समभवत्। सामाजिकदूरादिप्रतिरोधमार्गान् स्वीकर्तुं नरेन्द्रमोदिना आदेशः प्रदत्तः। प्रकरणानि वर्धन्ते तथापि अपघातसन्दर्भः नास्ति इति स्वास्थ्यमन्त्रालयेन प्रधानमन्त्रिणे सूचना प्रदत्ता।

Thursday, March 23, 2023

 विश्वसुखप्रतिवेदनम् : फिन्लैण्ड् विश्वस्य सर्वाधिकः सन्तुष्टदेशः, भारतं १२६ तमे स्थाने।

     फिन्लैण्ड्देशः क्रमशः षष्ठवारं विश्वस्य सर्वाधिकसुखदः देशः इति ख्यातिः सम्प्राप्ता। २० मार्च् दिनाङ्के अन्ताराष्ट्रियसुखदिवसे प्रकाशिते प्रतिवेदने भवति इदं विवरणम्।  वैय्यक्तिकः आयः सामाजिकसाह्यः आयुर्दैर्घ्यं स्वातन्त्र्यम् उदारता अलीकप्रवर्तने न्यूनता एवं विविधान् अंशान् परिकल्प्य अङ्काः निर्णीयन्ते। अङ्कान् अनुसृत्य तुष्टिमानं क्रियते। विश्वसुखप्रतिवेदनं प्रतिवर्षं संयुक्तराष्ट्रसङ्घस्य स्थायिविकास-समाधान-जालद्वारा (Sustainable Development Solutions Network) प्रकाशितं भवति। पट्टिकायां भारतं १२६ तमे स्थाने भवति।

 उत्तरभारतेSपि प्रकम्पः -  प्राणहानिः नास्ति। 

नवदिल्ली> अफ्गानिस्थानस्य हिन्दुक्कुष् प्रान्ते जातस्य भूकम्पस्य प्रकम्पनानि उत्तरभारते अपि अनुभूतानि। दिल्यां ४. ५ तीव्रता अनुभूता। जीवहानिः न सूचितः। 

   दिल्लीं विना हरियानं, पञ्चाबः, राजस्थानं, जम्मुकाश्मीरम् इत्येषु राज्येषु परिभ्रान्ताः जनाः भवनेभ्यः बहिर्गताः।

 पाकिस्थाने अफ्गानिस्थाने च भूकम्पः - ११ मरणानि। 

इस्लामबादः> पाकिस्थाने अफ्गानिस्थाने च कुजवासरस्य रात्रौ दुरापन्ने शक्ते भूकम्पे ११ जनाः मृत्युमुपगताः। महिलाद्वयमभिव्याप्य नव जनाः पाकिस्थाने मृताः। इतरौ अफ्गानिस्थाने च मृतौ। १६० अधिकाः जनाः आहताः इति प्राथमिकसूचना। अनेकानि भवनानि विशीर्णानि। 

   अफ्गानिस्थानस्य हिन्दुक्कुष् क्षेत्रे १८० कि मी अगाधतायामस्ति भूकम्पस्य प्रभवकेन्द्रम्। पाकिस्थाने लाहोर्, इस्लामबादः, रावल्पिण्टी,पेषवार्, गुज्रन्वाला इत्यादिषु प्रदेशेषु भूचलनमनुभूतम्।

 काञ्चीपुरे प्रस्फोटकनिर्माणशालायां दुरापन्ने स्फोटने अष्टजनाः मृताः। २४ जनाः व्रणिताः। 

  चेन्नै> काञ्चीपुरे प्रस्फोटकनिर्माणशालायाम् दुरापन्ने स्फोटने अष्ट जनाः मृताः। चत्वारिंशत् जनाः व्रणिताः। बुधवासरे१२.३० वादने एव अपघातः दुरापन्नः। पञ्च जनाः घटनास्थले मृतिमुपगताः। त्रयः जनाः चेङ्कल्पेटे सर्वकारातुरालये परिचर्यावेलायां मरणमुपगताः। प्रस्फोटकनिर्माणसम्बन्धिनः बहवःसामग्र्यः सम्भरणशालायाम् आसन्। अग्निव्यापनस्य कारणम् अज्ञातमस्ति। पञ्च सम्भरणशालाः प्रदेशे सन्ति। चत्वारिंशत् कर्मकराः अत्र सेवननिरताः आसन्।

Monday, March 20, 2023

 मार्च् २८ तमे दिनाङ्के आकाशे अत्भुतदृश्यम्। पञ्चग्रहान् युगपद् द्रष्टुं शक्यते।  

 मार्च् मासस्य २८ तमे दिनङ्के अकाशे विस्मयात्मकं दृश्यं भविष्यति।  मङ्गल-शुक्र-बुध -बृहस्पति-युरेनसग्रहाः एवम् अस्माकं  दृष्टिपथम् आगमिष्यन्ति। मार्चमासस्य प्रथमे दिनाङ्के शुक्रः बृहस्पतिः च प्रत्यक्षरेखां प्राप्तवन्तौ। फेब्रुवरीमासे च बृहस्पतिशुक्रौ पूर्णिमया सह प्रत्यक्षरेखायां समागतवन्तौ आस्ताम्। 

     बृहस्पतिः बुधात् अधिकम् उज्ज्वलः इति द्रष्टुं शक्यते। पञ्चग्रहेषु शुक्रः तेजस्वी भविष्यति। शुक्रं नग्ननेत्रेण द्रष्टुं शक्यते। अन्ये ग्रहाः अपि दृश्यन्ते किन्तु शुक्रवत् उज्ज्वलाः न भवन्ति। यूरानसस्य दर्शनाय कष्टता भविष्यति।

 ओ टि टि वेदिकायां अश्लीलता असभ्यता च वर्धते। प्रक्रमान् स्वीकरिष्यन्ति इति केन्द्रमन्त्री

   नवदिल्ली> नाग्पूरे वार्ता माध्यमान् अभिसंबुद्धय भाषमाणे सन्दर्भे एव अनुराग् ठक्कूरेणओ टि टि वेदिकाः विरुध्य अतिरूक्षतया विमृष्टः। ओ टि टि वेदिकासु अश्लीलता असभ्यता च वर्धते। आविष्कारस्वतन्त्रतायाः नाम्नि संस्कारशून्यता न प्रोत्साहनीया। अवश्यं चेत् नियमेषु परिवर्तनम् आनेष्यति इति तेन निगदितम्।

 वाक्सुधासत्रं २७,२८,२९ दिनाङ्केषु।

    आधुनिककाले संस्कृतम् संस्कृतानुवादस्य  प्राधान्यं च इति विषयमधिकृत्य प्रचाल्यमानं त्रिदिवसीयं सत्रं  मार्च् २७, २८, २९ दिनाङ्केषु भविष्यति। अमृत विश्वविद्यापीठस्य कोच्ची परिसरे एव कार्यक्रमः आयोक्ष्यते। भारतसर्वकारस्य भाषाविभागस्य आर्थिकसाहाय्येन  संस्कृतभारत्याः साह्येन तथा अमृतविश्वविद्यापीठस्य सांस्कृतिक- भारतीय - अध्ययनविभागेन  च सत्रमिदं प्रचलिष्यति। 

 संस्कृतभारत्याः पण्डितरत्नपुरस्कारः स्वप्रभानन्दस्वामिने, शर्माजी पुरस्कारः टि . सि. सजीवाय च समर्पयिष्यते

वार्ताहरः - डा. पि. के. शङ्करनारायणः

    ज्ञानेन तपसा सुव्यक्तेन मार्गदर्शनेन च सर्वेषां सज्जनानाम् आदरपात्रं भवति पूजनीयः स्वप्रभानन्दस्वामिपादः। अरुणापुरस्थस्य श्रीरामकृष्णाश्रमस्य अध्यक्षः श्रीरामकृष्णसंस्कृतमहाविद्यालयस्य प्राचार्यः च आसीत्, इदानीं तिरुवनन्तपुरस्थिते श्रीरामकृष्णाश्रमे वसन् संस्कृतसेवानिरतः अयं महात्मा। पूजनीयाय स्वामिपादाय अस्य संवंत्सरस्य पण्डितरत्नपुरस्कारं संस्कृतभारत्या दीयते। संस्कृतप्रचारकार्यनिरताय शिक्षकवर्याय सजीव‌् टी सी महाशयाय (गवण्मेन्ट् हयर् सेकेन्टरी स्कूल् एरुमप्पेट्टि) शर्माजीपुरस्कारः अपि दीयते। पुरस्कारसमर्पणम् एप्रिल् मासस्य ३० तमदिनाङ्के कोल्लं महानगरे सम्पत्स्यमाने संस्कृतभारत्याः राज्यवार्षिकसम्मेलने भविष्यति इति पुरस्कारसमित्यङ्गैः महामहोपाध्यायः डा. गङ्गाधरन् नायरः पण्डितरत्नं डा. पि. के. माधवः. डा. इ एन् ईश्वरः इत्येतैः उक्तम्।

 अमृतपालसिंहः निगूढः वर्तते इति आरक्षकाधिकारी। 

अमृतपालसिंहः। 

चण्डीगढ्> खलिस्थान् वादी तथा च 'वारिस् पञ्चाब् दे' संघटनस्य नेता अमृतपालसिंहः इदानीमपि निलीय वर्तते इति पञ्चाबस्य आरक्षकाधिरिभिः उक्तम्। वाहनव्यूहम् अनुगम्य जलन्धरे सः निगृहीत इति शनिवासरे  पञ्चाबस्य आरक्षकाधिरिभिः अभिमानितमासीत्। किन्तु आरक्षकवलयं प्रभिद्य सः रक्षां प्राप्तवानिति रविवासरे विशदीकृतम्। 

  परं अमृतपालसिंहस्य उपरि, कलापाह्वानं आयुधसञ्चयनं चेति  नूतनं प्रकरणद्वयमपि पञ्जीकृतमिति आरक्षकैः निगदितम्।

Sunday, March 19, 2023

 खलिस्थानवादी अमृतपालसिंहः निगृहीतः। 

नवदिल्ली> खलिस्थानवादी तथा च 'वारीस् पञ्चाब् दे' इति संघटनस्य नेता अमृतपालसिंहः पञ्चाबारक्षकदलेन जलन्धरे निगृहीतः। सप्तजनपदेभ्यः आगताः शतशः आरक्षकाः निग्रहणक्रियाविधौ भागं कृतवन्तः। गतैः कतिपयसंवत्सरैः पञ्चाबराज्ये तीव्रवादधिया प्रवर्तमानः अमृतपालसिंहः आयुधधारिभिः अनुयायिभिः सह एव सञ्चरन्ति।

 एकादशी- श्रीमद्भगवद्गीता राष्ट्रिया व्याख्यानगोष्ठी सुसम्पन्ना।

    संस्कृतविभाग-महात्मागांधी- केन्द्रीय-विश्वविद्यालय: मोतिहारी, पूर्णिया महाविद्यालयः  पूर्णिया बिहार:, चातुर्वेदसंस्कृतप्रचारसंस्थानं, काशी, उत्तरप्रदेश: इत्येतेषां संयुक्ततत्त्वावधाने विश्वसंस्कृतकुटुम्बकम् आमुखपटलसमूहस्य आनलाईन् पाक्षिकीयं षष्ठी राष्ट्रिया गोष्ठी 18/3/2023 दिनाङ्के, शनिवासरे सफलतया सम्पन्ना अभूत्।

  कार्यक्रमेऽस्मिन् सभाध्यक्षरूपेण प्रो० प्रसूनदत्तसिंह:, अधिष्ठाता मानविकी एवं भाषासंकाय:, म.गा. केन्द्रीय- विश्वविद्यालय: मोतिहारी। महोदय: सम्पूर्णव्याख्यानस्य साररूपेण व्याख्यानम् अकरोत्। स: अवदत् यत् भारतस्य परिचयः गीतावेदादिग्रन्थमाध्यमेन एवास्ति। 

 ब्रह्मपुरम् अग्निबाधा - कोच्चि नगरसभां शतकोटिरूप्यकाणां द्रव्यदण्डः। 

नवदिल्ली> ब्रह्मपुरस्थे मालिन्यसंस्करणस्थाने सप्ताहद्वयात्पूर्वं दुरापन्नामग्निबाधामाधारीकृत्य राष्ट्रियहरितन्यायासनेन [National Green Tribunal] कोच्चिनगरसभा १००कोटिरूप्यकाणि दण्डेन विहिता। मासैकाभ्यन्तरे राज्यकार्दर्शिमुख्यस्य समक्षं दण्डद्रव्यं समर्पणीयम्। दण्डद्रव्यं अग्निबाधानन्तरं सञ्जातेभ्यः सामान्यजनानां स्वास्थ्यप्रकरणेभ्यः विनियोजयितव्यः इति न्यायासनेन आदिष्टम्। 

  मार्च् द्वितीयदिनाङ्कतः २३तमपर्यन्तम् अनुवर्तमाने अग्निप्रकाण्डे एरणाकुलं जनपदस्थीयाः जनाः अभूतपुर्वं क्लेशमनुभवन्ति स्म। जनपदे समीपजनपदेषु च व्यापृतेन विषधूमजालेन बहुप्रकाराः अस्वास्थ्यप्रकरणाः जाताः। न केवलं वायुः नद्यादीनि जलस्रोतांस्यपि मलिनीभूतानि। अतः केन्द्रहरितन्यायासनेन स्वमेधया एव प्रकरणः स्वीकृतः।

Saturday, March 18, 2023

 भारते वृद्धेषु एककोट्यधिकेषु जनेषु मेधाक्षयः अस्ति  इति अध्ययनफलम्।

   नवदिल्ली> भारते षष्ट्युपरिवयस्केषु एककोट्यधिकजनेषु मेधाक्षयः  (Dementia) इति अध्ययनफलम्। विस्मृतिरोगः अस्ति ।

प्रावर्तित-कृत्रिमबुद्धिमापनप्रक्रियायाः (Artificial intelligence technology) साह्येन दत्तांशसञ्चयं कृतम्। एतत् अध्ययनफलं न्यूरो एप्पिडेमियोलजि नाम वार्तापत्रिकायामेव प्रकाशितम्। ३१७७० जनात्  अध्ययनार्थं आदर्शसञ्चयः Sample collection ) कृतः।

 महिलाप्रबलीकरणे केरलं प्रशंस्य राष्ट्रपतिः। 

अनन्तपुरी> केरलीयमहिलाः अधिकविद्यासम्पन्नाः अत एव परं प्रबलीकृताः इति राष्ट्रपतिः द्रौपती मुर्मुः प्राशंसयत। एष विषयः नैकासु मानवविकसनसूचिकासु केरलस्य श्रेष्ठप्रकटनेषु  प्रतिफलितः इत्यपि राष्ट्रपतिः प्रासूचयत्। 

   राष्ट्रपतिपदप्राप्त्यनन्तरं प्रथमतया केरलं प्राप्तवत्यै मुर्मूमहाभागायै केरलप्रशासनेन समायोजिते पौरस्वीकरणसमारोहे भाषमाणा आसीत् द्रौपती मुर्मुमहाशया। महिलाप्रबलीकरणस्य पारम्पर्यानुसृतं विश्वे  वनितानां  बृहत्तमम् आत्मसाह्यश्रृङ्खलासु अन्यतमं भवति  'कुटुम्बश्री'नामकमिति तया सूचितम्। भारतस्य शासनसंविधानस्य निर्माणसभायाः १५ सदस्येषु केरलीयाः अम्मु स्वामिनाथः, दाक्षायणिवेलायुधः, आनि मस्क्रीन्, उच्चन्यायालयस्य प्रथमा महिलान्यायमूर्तिः अन्ना चाण्टी, सर्वोच्चनीतिपीठस्य प्रथमा महिलान्यायमूर्तिः एम् फात्तिमाबीवी इत्येताः राष्ट्रपतिना अनुस्मृताः। 

  समारोहे राज्यशासनस्य उपहारं मुख्यमन्त्री पिणरायि विजयः राष्ट्रपतिवर्यायै दत्तवान्। राज्यपालः आरिफ् मुहम्मद् खानः, विधानसभाध्यक्षः ए एन् षंसीरः, विपक्षनेता वि डि सतीशः इत्यादयः भागं गृहीतवन्तः।

Friday, March 17, 2023

 एच् ३ एन् २ वैराणुव्यापनम् : पूनेषु प्रथममरणम्। भारते रोगाणुबाधया मृतिमुपगतानां संख्या नव अभवत् ।

    पूने> भारते एच् ३ एन् २ वैराणुव्यापने वर्धिते सन्दर्भे भारतीय-आयुर्विज्ञान-अनुसन्धान- परिषदा पूर्वोपायः निर्दिष्टः आसीत्। इदानीं पूनेषु पिंपरि चिञ्चवाटेषु एच् ३ एन् २ वैराणुबाधया त्रिसप्ततिवयस्कः मृतः इति वार्ता बहिरागच्छति। रोगव्यापने वर्धिते सन्दर्भे महाराष्ट्रस्य  स्वास्थ्यमन्त्रालयेन अतिनियन्त्रणानि आनीतानि। जनैः मुखावरणं धरणीयम्, सामाजिकदूरं पालनीयम् इति स्वास्थ्यमन्त्रिणा तानाजि सावन्तिना प्रोक्तम्।

 ऐ एन् एस् द्रोणाचार्यः निषान् बहुमत्या सम्मानितः। 


कोच्ची> भारतनौसेनायाः परिशीलनकेन्द्राय ऐ एन् एस् द्रोणाचार्यः इत्यस्मै राष्ट्रपतेः परमोन्नतबहुमतिं 'निषान्' नामकं राष्ट्रपतिः द्रौपदी मुर्मू सम्मानितवती। आधुनिकयुद्धसङ्केतस्य आधारे समुद्रमण्डलस्य प्रवर्तनचलनात्मकतां विज्ञाय नौसेना स्वयमेव नवीकरणीया इति बहुमतिदानवेलायां राष्ट्रपतिना उक्तम्। 

  ऐ एन् एस् द्रोणाचार्यस्य लेफ. कमान्टर् दीपक् स्करिया सर्वेभ्यो प्रतिनिधीभूय  निषान् बहुमतिं स्वहस्ताभ्यां  स्वीचकार। केरलस्य राज्यपालः आरिफ मुहम्मद खानः, मुख्यमन्त्री पिणरायि विजयः, नौसेनाध्यक्षः आर् हरिकुमारः , दक्षिणमण्डलस्याधिकारी एम् ए हम्पी होली इत्येते समायोजिते कार्यक्रमे  भागं गृहीतवन्तः।

Thursday, March 16, 2023

 ओस्कार् पुरस्कारेण भारतं बहुमानितम्। 

लोसाञ्जलस् > ९५ तमे ओस्कार् पुरस्कारे भारताय मधुरयुगलम्। 'आर् आर् आर्' इत्यस्मिन् चलच्चित्रे 'नाट्टु नाट्टु' इत्यारभ्यमाणं गानं श्रेष्ठतमगानस्य तथा कार्तिकी गोण्सीवल्स् इत्यस्य निदेशकत्वे कृतं 'The Elephant Whisperers' नामकं ह्रस्वचित्रस्य च पुरस्काराय चितम्। 

  एस् एस् राजमौलिनः निदेशकत्वे साक्षात्कृतं तेलुगुभाषाचलच्चित्रं भवति 'आर् आर् आर्'। तस्मिन् चन्द्रबोसः विरच्य एम् एम् कीरवाणिवर्येण दत्तसंगीतं नाट्टु नाट्टु इति गानाय पूर्वं गोल्डण् ग्लोब् पुरस्कारः, Hollywood Critics Association पुरस्कारश्च लब्ध आसीत्।

 चीनेषु त्रिसंवत्सराणि यावत् दीर्घितानां नियन्त्रणानां परिसमाप्तिः। सन्दर्शकानां कृते चीनेन सीमा उद्घाटिता।

  कोविड्रोगप्रसरणहेतुना चीनेन त्रिसंवत्सराणि यावत् स्थगितानि प्रवेशानुमतिपत्राणि पुनर्दातुं निश्चितानि। प्रवेशानुमतिपत्रं विना गन्तव्येषु प्रदेशेषु पूर्ववत् प्रवेशं कर्तुं शक्यते । कोविड्रोगव्यापनहेतुना चीनेषु दापितानि अतिनियन्त्रणानि पूर्णतया निर्वर्तनार्थं सूचना भवति एषः प्रक्रमः इति निर्णयः अस्ति। त्रिसंवत्सराणि यावत् चीनेन विदेशीयानां पुरतः कवाटः कीलितः आसीत् ।

 एच्३ एन् २ प्रकरणानि वर्धन्ते। पुतुच्चेरी देशे एकादशदिनानि यावत् विद्यालयाः कीलिताः।

  पुतुच्चेरी> एच् ३ एन् २ प्रकरणानि वर्धिते सन्दर्भे पुतुच्चेरिसर्वकारः विद्यालयान् कीलितुं निश्चिनोत्। प्रथम कक्ष्यायाः आरभ्य अष्टमकक्ष्यापर्यन्तं छात्रेभ्यः आगामि एकादशदिनानि यावत् विरामः अदात्। शिक्षामन्त्रालयस्य अधिकारिणा  गृहमन्त्रिणा ए नमश्शिवायेन एव विधानसभायां विषयमिदम् आवेदितम्।

Wednesday, March 15, 2023

 आविश्वं समुद्रजलवितानवर्धनया न केवलं द्वीपराष्ट्राणि  भारतीयनगराणि अपि भीषां अभिमुखीकरिष्यन्ति।

   आविश्वं समुद्रजलवितानवर्धनं द्वीपराष्ट्राणि प्रबाधयिष्यते इति प्रतिवेदनं समीपकाले एव आगतम्। घटनेयं  न केवलं द्वीपराष्ट्राणि भारते चेन्नै कोल्कत्ता इत्यादीनि अन्यानि  बृहन्नगराण्यपि आविश्वसमुद्रजलवितानवर्धनया भीषां अभिमुकरिष्यन्ति इति अध्ययनफलानि सूचयन्ति। २१०० संवत्सरप्राप्तेः प्राक् हरितगृहवातकानां बहिर्गमनं न निरोधयिष्यति चेत् एष्याभूखण्डस्थानां नगराणां स्थितिः अतिशोचनीया भविष्यति इति 'नेच्चर् क्ललैमट् चेञ्च्' इति वार्तापत्रिकायां प्रकाशितं अध्ययनप्रतिवेदनं पूर्वसूचनां ददाति।

 विश्वस्मिन् अति रूक्षतया वायुप्रदूषितेषु ५० नगरेषु ३९ नगराणि भारते एव। 

चित्रम् दिल्ली नगरम् - AFP द्वारा संगृहीतम्

 नवदिल्ली> २०२२ संवत्सरे विश्वस्मिन् अतिरूक्षतया वायुप्रदूषितानां राष्ट्राणां पट्टिकासु भारतम् अष्टमे स्थाने अस्ति। गतसंवत्सरे पञ्चमस्थाने आसीत्। विश्वस्मिन् अतिमलिनेषु पञ्चाशत् नगरेषु ३९ नगराणि भारतेषु अन्तर्भवन्ति। स्विस् एयर् क्वालिट्टि टेक्नोलजि परिषदेन आयोजिते वार्षिकप्रतिवेदने  विषयमिदं रेखाङ्कितमस्ति।

Tuesday, March 14, 2023

 जप्पाने बहुसंवत्सराः यावत् अज्ञाताः ७००० द्वीपाः प्रत्यभिज्ञाताः

अदृष्टपूर्वै बहूनां मनोहरदृश्यै प्रसिद्धं राष्ट्रं भवति जप्पानः। नगरैः ग्रामैःद्वीपैः समुद्रतीरैः च सुसम्पन्नः सुन्दरदेशः भवति एषः। विचित्रा अतिमनोहरा भूप्रकृतिः जप्पानस्य विशेषता भवति। नूतनवार्तामनुसृत्य अद्यावधि अज्ञाताः   ७००० अधिकाः नूतनद्वीपाः जप्पानेन प्रत्यभिज्ञाताः। ३५ संवत्सरात् पूर्वं तदानीन्तन प्रौद्योगिकविद्यायाः साहाय्येन जप्पानेन द्वीपानां गणना समारब्धा। तस्मिन् सन्दर्भे बृहत् द्वीपानां लघुद्वीपसमूहानां च मिथः अन्तरं प्रत्यभिज्ञातुं प्रौद्योगिकविद्या अपर्याप्ता आसीत्। इत्थं सहस्रशः लघुद्वीपाः एकत्वेन गणिताः। अनन्तरं जाताः अग्नि-पर्वतविस्फोटाः द्वीपानां संख्यावर्धने कारणमभवत्

Monday, March 13, 2023

 गीतामृतम् कार्यक्रम: सम्पन्नः।

 केरले इरिञ्जालक्कुटा चेम्मण्डग्रामे गीताशिक्षणकेन्द्राणां दिनद्वयस्य सङ्गमः प्राचलत्। गीतामृतं नाम कार्यक्रमेस्मिन् गीतासोपानद्वारा संस्कृतं पठन्तः शिक्षार्थिनः भागं स्वीकृतवन्तः । कार्यक्रमस्य उद्घाटनं विश्वसंस्कृतप्रतिष्ठानस्य पूर्वतन-प्रन्तीयोपाध्यक्षः अमृतभारती विद्यापीठस्य अध्यक्षः डा . एं . वि . नटेशः कृतवान् । संस्कृतभारत्याः प्रान्तियसम्पर्कप्रमुखः डा. पि के . शङ्करनारायणः अध्यक्ष : आसीत् । सेवानिवृत्त : संस्कृताध्यापक: अजितन् वार्यर् आशंसा भाषणं कृतवान्। प्रशिक्षणप्रमुखः पि आर् शशी स्वागतं तथा श्रीमती श्रीजा कावनाट् कृतज्ञतां च कृतवन्तौ ।

 आयव्ययपत्रसम्मेलनस्य द्वितीयसोपानम् अद्य आरभते। 

नवदिल्ली> भारतीयसंसदि आयव्ययपत्रसम्मेलनस्य द्वितीयसोपानं सोमवासरे आरभते। आर्थिकविधेयकानाम् अनुमोदने अस्ति सर्वकारस्य प्रथमपरिगणना इति संसदीयसहमन्त्रिणा अर्जुन राम मेघवालेन निगदितम्। सम्मेलनमिदं एप्रिल् षष्ठे दिनाङ्के समाप्स्यते। 

  गतदिने राज्यसभाध्यक्षस्य जगदीपधन्करस्य भवने सर्वदलमेलनम् आयोजितम्।

Sunday, March 12, 2023

 ब्रह्मपुरस्य मालिन्यसंस्करणशाला अशास्त्रीया इति केन्द्रमलिनीकरणनियन्त्रणसंस्था।

नवदिल्ली> केरले कोच्चीस्थे मालिन्यसंस्करणशालायाः निर्माणं शास्त्रानुसारी नास्तीति केन्द्रमलिनीकरणनियन्त्रणसंस्थया विधत्तायां परिशोधनायां अधिगतम्। मालिन्यानां निक्षेपःएव तत्र कृता, न संस्करणम्। नगरसभाधिकारिभिः पूर्वजाग्रता न पालिता।

 नासायाः मार्स् नाम उदग्रयानेन कुजग्रहात् सूर्यास्तमनचित्रं संगृहीतम्।

नासायाः'इन्जेन्युपिट्टि मार्स्' नाम उदग्रायानेन कुजग्रहात्  सूर्यास्तमनचित्रं संगृहीतम्।फेब्रुवरिमासस्य२५ तमे दिने, उदग्रयानस्य ४० तम डयनसन्दर्भे एव चित्रं संगृहीतम्। दूरे गिरिश्रृङ्गस्योपरि विराजमानः अस्तमयसूर्यः एव चित्रे विराजते। जसरागर्तस्थां मृत्तिकायां शिलायां च सूर्यकिरणाः स्पृशन्तं मनोहरं रूपं चित्रे सन्दृश्यते। २०२१ तमे संवत्सरे फेब्रुवरिमासस्य १८ तमे दिने नासायाः पेन्सिविलियरन्स् रोवर्ट् इत्यनेन साकं इन्जेन्युविट्टि उदग्रयानमपि कुजग्रहे प्राप्तम्। इतः पर्यन्तं भूमेः बहिः अन्यग्रहेषु इन्जे न्युपिट्टिमिव अन्योपकरणानाम् उपयोगं न कृतम्।

 अमेरिक्कायां पुनरपि वित्तकोशक्षयः। 


मुम्बई> अमेरिक्कायां २००८ तमस्यानन्तरं पुनरपि बृहत् वित्तकोशक्षयः। संरम्भकसंस्थानां कृते बृहत् रीत्या धनराशिं दीयमानः सिलिक्कण् वालि नामकः वित्तकोशः क्षयंगत इति निक्षेपकाः निगदिताः। कालिफोर्णियास्थे वित्तकोशनियन्त्रणनियुक्तः Department of Financial Protection and Innovation नामक संस्थया वित्तकोशः पिहितः इति प्रख्यापितः। 

  यु एस् राष्ट्रे मूल्यवर्धनं नियन्त्रयितुं वृद्धिमानं लम्बतया संवर्धितमासीत्। कोविड्व्यापनहेतुतया संरम्भकाणां कृते राशिदानं चन्यूनीकृतम्। एतद्वयं च सिलिक्कण्वालि वित्तकोशं आर्थिकदुरवस्थाम् अपातयत् । निक्षेपकाश्च स्वीयान् निक्षेपान् प्रत्याहर्तुं उत्सुकाः अभवन्। अत एव वित्तकोशस्य पिधानहेतुरिति सूच्यते।

Saturday, March 11, 2023

 'एछ् ३ एन् २' ज्वरबाधया भारते द्वौ मृतौ। 

नवदिल्ली> इदं प्रथमतया भारते एछ् ३ एन् २'नामकवैराणुबाधया मरणं स्थिरीकृतम्। कर्णाटके हासन् जनपदस्थे आलूर् प्रदेशे हीरे गौडा नामकः ८२ वयस्कः, हरियाने जिन्द् प्रदेशीयः ५६ वयस्कश्च पूर्वोक्तनामकवैराणुबाधया एव मृत्युमुपगताविति दृढीकृतम्। हीरे गौडा मार्च् प्रथमे दिनाङ्के हरियानीयः मार्च् ८ तमे दिनाङ्के च मृतिं प्राप्तवन्तौ। द्वावपि  रक्तातिमर्द-प्रमेहादिकैः इतररोगैः पीडितौ इति सूच्यते।

  उच्चतर व्यापनशक्तियुक्तोSयं एछ् ३ एन् २ वैराणुः अत्यधिकं मरणकारणमिति ICMR संस्थया निर्णीतमस्ति। कोविडसमानमेवास्य ज्वरस्य लक्षणानि। राष्ट्रस्य स्वास्थ्यमन्त्रालयेन इदानींतनावस्थाः निरीक्ष्यमाणाः वर्तन्ते।

 रामचन्द्रपौदेलः नेप्पालस्य राष्ट्रपतिः।

रामचन्द्रपौदेलः 

काठ्मण्डुः> नेप्पालराष्ट्रस्य नूतनः प्रथमपौररूपेण नेप्पालि कोण्ग्रस् नामकराजनैतिकदलस्य नेता रामचन्द्रपौदेलः चितः। 'सि पि एन्', नेप्पालि कोण्ग्रस् इत्यादीनाम् अष्टानां राजनैतिकदलानां सख्यस्य स्थानाशिनः आसीत् सः।

  ३३२ संसद्सदस्याः ५५२प्रविश्यासदस्याः च मिलित्वा ८८२ जनाः मतदानं कृतवन्तः। रामचन्द्रपौदेलेन ५६६ मतानि सम्प्राप्तानि।

Friday, March 10, 2023

 संस्कृते समकालिकसाहित्यानां अनिवार्यता अस्ति-डो. जनार्दनहेग्डे।

वार्ताहरा - रमा टी के

 केन्द्रीयसंस्कृतविश्वविद्यालयस्य पुरनाट्टुकरस्थगुरुवायूर्-परिसरेण चेम्मण्टस्थ-शारदागुरुकुलेन च भारतशासनस्य शिक्षामन्त्रालयाधीनायाः भारतीयभाषासमित्याः च सहयोगेन   समकालीन -ज्ञान -  पाठ्यपुस्तकानां अनुवादः इति विषयम् अधिकृत्य समायोजिता त्रिदिवसीयकार्यशाला अद्य समारब्धा। केन्द्रीयसंस्कृतविश्वविद्यालयस्य निदेशकस्य प्रोफ. ललितकुमारसाहोः आध्यक्षे समारब्धायाः कार्यशालायाः  उद्घाटनं सम्भाषणसन्देशस्य सम्पादकेन विद्वान् जनार्दनहेग्डे महाभागेन कृतम्। संस्कृते अपि समकालिकसाहित्यानां अनिवार्यता अस्ति। तदर्थम्

 इन्स्टग्रामे ५०००० अनुयायिनः! दशमीकक्ष्यायाः छात्रा वञ्चिता। पितुः वित्तकोशलेखात् धनं विनष्टम्।

    इन्स्टग्रामे अनुयायिनां संख्या संवर्धयितुं साहाय्यं करिष्यामि इत्युक्त्वा दशमीकक्ष्याछात्रायाः सकाशात् ५५००० रूप्यकाणि कपटमार्गेण स्वायत्तीकृतानि। मुम्बैदेशस्था षोडशवयस्का एव वञ्चिता। छात्रा पितुः वित्तलेखात् एतावत् धनं प्रेषितवती। घटनायामस्यां प्रकरणं दापयित्वा अन्वेषणम् आरब्धमिति आरक्षकैः ज्ञापितम्। मार्च मासस्य प्रथमे दिने सोनालि सिंह् नाम इन्स्टाग्रां प्रत्यभिज्ञानलेखात् एव छात्रायाः अनुसरसन्देशः लब्धः।

 जीर्णफलस्य दुर्गन्धेन कक्ष्यायां छात्राः मुग्धाः। इराने विषवातकप्रयोगः।

   इरानस्य राजधान्याः टेहरानस्य दक्षिणभागे वर्तमानस्य खूं नगरस्य मध्ये विराजमानस्य नूर् प्रैद्योगिकी विद्यालायस्य छात्राः मुग्धाः भूत्वा पतितवत्यः।  छात्राः प्रथमतया विस्फोटकशब्दः श्रुतवत्यः। अनन्तरं जीर्णफलस्य दुर्गन्धः सर्वत्र व्याप्तः। छात्राः मोहेन वमनेन श्वासस्तगनेन च अधः पतितवत्यः। नूर् विद्यालयस्य १८ छात्राः अस्वास्थ्यकारणेन आतुरालयं प्रविष्टाः। राष्ट्रस्य विविधेषु बालिकाविद्यालयेषु एवं विषवातकप्रयोगाः अभूवन्। एवं १२०० बालिकाः विषवातकप्रयोगेन क्लिष्टाः अभवन्।  राष्ट्रस्य बालिकाः उद्दिश्य कृतः नीचप्रयोगः भवति अयम् इति प्रतिवेदनमस्ति। 

   समीचीनतया शिरोवस्त्रधारणं न कृतम् इत्युक्त्वा आरक्षकैः संगृहीता नारी कारागारे मृता इत्यनेन आराष्ट्रं वनितानां प्रतिषेधः प्रचलन् अस्ति। मानवाधिकारप्रवर्तकाः अयं विषवातकप्रकरणस्य शिरोवस्त्रप्रकरणेन सह सम्बद्धः अस्ति इति वदन्ति।

Thursday, March 9, 2023

 एस् एस् एल् सि वार्षिक परीक्षायाः शुभारम्भः; HSS परीक्षाः श्वः। 

कोच्ची> केरलेषु माध्यमिकस्तराध्ययनश्रेण्याः अन्तिमा सार्वजनीनपरीक्षा SSLC नामिका अद्य आरब्धा। ४,१९,५५४ छात्राः परीक्षार्थं पञ्जीकृताः सन्ति। लक्षद्वीपः, गल्फ् देशान् चाभिव्याप्य २८६० परीक्षाकेन्द्राणि विद्यन्ते। अद्य संस्कृतं, मलयालम्, अरबी इति ऐच्छिक विषयाणां परीक्षाः सम्पन्नाः। 

   उच्चतरविद्यालयछात्राणां वार्षिकपरीक्षाः श्वः आरप्स्यन्ते। +२ विभागे ४,४२,०६७ छात्राः,+१ विभागे ४,२५,३६१ छात्राश्च परीक्षार्थिनः सन्ति। 

   सर्वाः परीक्षाः प्रातः सार्धनवादनतः आरभ्यमाणरीत्या एव क्रमीकरणानि विधत्तानि।

Wednesday, March 8, 2023

 षालिसा धामी- भारतीयवायुसेनायां प्रथमश्रेणीयोद्धृदलस्य नेतृस्थानं प्राप्ता प्रथमा वनिता।

नवदिल्ली> भारतीयवायुसेनायां षालिसा  धाम्या नूतनं चरितम् आरचितम्। पश्चिममण्डले प्रथमश्रेणीयोद्धृदलस्य सेनापतिस्थानं एषा प्राप्तवती। भारतीयवायुसेनायाः चरित्रे इदंप्रथमतया एव एका वनिता  अस्मै स्थानाय चिता। पाकिस्थानस्य सीम्नि पश्चिममण्डलस्थे मिसैल् स्क्वार्डनस्य सेनापतिस्थाने अस्याः नियुक्तिः विना विलम्बं भविष्यति।

Tuesday, March 7, 2023

 मेघालये नागालान्टे च नूतनप्रशासनस्य शपथारोहः

कोण्राड् सङ्मा
अद्य। 
नेफ्यू रियो

नवदिल्ली> मेघालयराज्ये कोण्राड् सङ्मा इत्यस्य नेतृत्वे नूतनं मन्त्रिमण्डलं अद्य सत्यशपथं करिष्यति। एन् पि पि नामकराजनैतिकदलस्य नेत्रे सङ्मावर्याय ४५ सामाजिकानां सहयोग अस्तीति सूच्यते। भाजपादलस्य सहयोगोSपि अस्मै लप्स्यते। 

  नागालान्टे तु एन् डि डि पि दलस्य नेता नेफ्यू रियो इत्यस्य नेतृत्वे नूतनं प्रशासनं कुजवासरे मध्याह्ने कोहिमायां सत्यशपथं करिष्यति। ३७ स्थानानां  सुव्यक्तं भूरिपक्षं प्राप्तवान् सः पञ्चमवारमेव मुख्यमन्त्रिपदमावहति। एन् डि डि पि - भाजपासख्यसर्वकाराय प्रायः अन्ये सर्वे दलाः अपि सहयोगं कुर्वन्तीत्यतः विपक्षदलमपि नास्तीति निश्चितम्।

Monday, March 6, 2023

 केरले पलास्तिकमालिन्यसञ्चये अग्निकाण्डः - जनाः दुरितकाण्डे। 

अग्निकाण्डशमनाय तीव्रपरिश्रमः।

कोच्ची> केरले कोच्चीनगरस्य ब्रह्मपुरस्थे  मालिन्यनिक्षेपस्थाने निक्षिप्तः पर्वताकारः  पलास्तिकमालिन्यसञ्चयः अग्निप्रकाण्डेन दग्धः। दिनचतुष्टयात्पूर्वमापन्नया अग्निबाधया कोच्चीनगरमभिव्याप्य समीपप्रदेशाः सर्वे विषलिप्तधूमेव्याप्ताः जाताः। जनाः कास-कण्डूय-श्वासरोधादिभिः बहुभिः काठिन्यैः दुरितकाण्डमनुभवन्ति। 

  अग्निशमनप्रवर्तनानि पञ्चमदिनेSपि अनुवर्तन्ते। अग्निः नियन्त्रणविधेयः अभवत्तथापि विषधूमप्रसारणेन जातानि अस्वास्थ्यानि न शमितानि इत्यतः समीपप्रदेशस्थानां विद्यालयानां विरामः उद्घोषितः।

Sunday, March 5, 2023

 ‘दशमहाविद्यास्वरूपम्’ इति विषमधिकृत्य द्विदिवसीय-राष्ट्रियसङ्गोष्ठी सुसम्पन्ना

श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य साहित्य-संस्कृतिपीठान्तर्गत-पुराणेतिहासविभागेन ‘दशमहाविद्यास्वरूपम्’ इति विषयमधिकृत्य मार्चमासस्य प्रथम-द्वितीय-दिनाङ्कयोः द्विदिवसीय-राष्ट्रियसङ्गोष्ठी समायोजिता। तत्र प्रथमे दिनाङ्के उद्घाटनसत्रे अध्यक्षरूपेण असमप्रान्तस्थ-कुमारभारस्करवर्मापुरातन‍-अध्ययनविश्वविद्यालयस्य कुलपतिः प्रो.प्रह्लादजोशी समागतोऽऽसीत्। सत्रेऽस्मिन् मुख्यातिथित्वेन श्रीमनोजकुमारद्विवेदी (IAS, Delhi) समुपस्थितोऽऽसीत्। कार्यक्रमस्य भिन्न-भिन्नसत्रे भिन्न-भिन्नाचार्येण सत्राध्यक्ष्यत्वं विशिष्टातिथित्वं सत्रसंयोजनञ्च निर्वाहितम्। कार्यक्रमेऽस्मिन् प्रो.रामसलाहीद्विवेदी-प्रो.मारकण्डेयनाथतिवारी- डॉ. कीर्तिकान्तमहोदयानां विशिष्टव्याख्यानं जातम्। सत्रे नैकैः प्रतिभागिभिः तथा च डॉ.विजयगुप्ता-डॉ.मोहनलालशर्मः-श्रीलेखराजसिंहः-डॉ.योगेशकुमारमिश्रेणापि शोधपत्रप्रवाचनं कृतम्। कार्यक्रमस्यास्य सम्पूर्तिसत्रे स्वामीपरानन्दतीर्थैः आध्यक्ष्यपदमलङ्कृतम्। अनेन दशमहाविद्याविषये अत्यन्तसारगर्भितं व्याख्यानं कृतम्। तन्त्रागमानुसारं दशमहाविद्या अलौकिका विद्या विद्यते। तेषामुपासनया अलौकिकं फलं समुपलभ्यते। अस्यां सङ्गोष्ठ्यां दशमहाविद्याविषये सम्यग्रूपेण प्रतिपादनं जातम्।

 बाह्याकाशे  अवशिष्टाः वर्धन्ते। परिहाराय अमेरिक्कीयसर्वकारः निजीयपरिषदः च।

  बहिराकाशदौत्यानां भागतया इदानीन्तनकालपर्यन्तं सहस्रशः अवशिष्टाः बहिराकाशे राशीकृताः सन्ति। एते कोटिशः धनानि व्ययीकृत्य भ्रमणपथे विन्यस्तेभ्यः उपग्रहेभ्यः बहिराकाशनिलयेभ्यः च भीषां जनयन्ति। सन्दर्भमिदं प्रत्यभिज्ञाय बाह्याकाशशुद्धिं दृढीकर्तुं नूतननियमान् आविष्कर्तुम् अमेरिक्केन प्रयत्नः आरब्धः।बाह्याकाशे राशीकृतानां अवशिष्टानां निवारणाय निजीयपरिषदः अमेरिक्कीयसर्वकारः च बृहद्रूपेण धननिक्षेपं कुर्वन्तः सन्ति।

 सर्वेभ्यः रोगेभ्यः प्रतिजैविकं न आवश्यकं, रोगलक्षणमनुसृत्य चिकित्सा आवश्यकी इति भारतीय भैषज्यदलम्। 

    आराष्ट्रं ज्वरः, कासः, श्वासकोशरोगाः च वर्धन्ते। सन्दर्भे अस्मिन् भारतीयभैषज्यदलेन नूतननिर्देशाः प्रकाशिताः। ज्वरस्य तथा अन्येषां वैराणुरोगाणां कृते निर्दिष्टमाणं प्रतिजैविकं त्याज्यम्। एतादृशरोगाणां लक्षणानुसृताः चिकित्साः दातव्याः इति भारतीयभैषज्यदलेन निर्देशः प्रदत्तः अस्ति।

 दिनद्वयसन्दर्शनाय राष्ट्रपतिः  केरलं प्राप्स्यति। 

अनन्तपुरी> दिनद्वयस्य सन्दर्शनाय राष्ट्रपतिः द्रौपदी मुर्मू १६तमे दिनाङ्के केरलं सम्प्राप्स्यति। राष्ट्रपतिपदप्राप्त्यनन्तरं मुर्मूवर्यायाः प्रथमं सन्दर्शनं भवत्येतत्। 

  मार्च्मासस्य २६ तमे दिनाङ्के कोच्चीं प्राप्यमाणा राष्ट्रपतिः 'ऐ एन् एस् द्रोणाचार्यं' सन्द्रक्ष्यति। १७ तमे दिनाङ्के अनन्तपुरीं गत्वा कुटुम्बश्री संस्थायाः २५ तमे संवत्सरीयोत्सवे भागं करिष्यति। ततः सायं सार्धत्रिवादने लक्षद्वीपं  गमिष्यति।

Saturday, March 4, 2023

 २०२२-२३ तमे सत्रस्य विद्यावारिधि(पी.एच.डी.) सत्रीयपाठ्यक्रमस्य शुभारम्भः

  श्रीलाल् बहादुरशास्त्री-राष्ट्रिय -संस्कृतविश्वविद्यालयस्य शोधविभागः प्रतिवर्षे विद्यावारिधिपाठ्यक्रमे पञ्जीकृत-शोधच्छात्राणां कृते षाण्मासिक-सत्रीयपाठ्यक्रमस्य आयोजनं करोति। अस्मिन् वर्षेऽपि भिन्नभिन्नविभागेषु पञ्जीकृतान् शोधच्छात्रान् शोधप्रविधिं शोधसर्वेक्षणं पाण्डुलिपिविज्ञानञ्चेत्यादि-विषयाणामवबोधनार्थं मार्चमासस्य प्रथमदिनाङ्के शोधविभागेन विद्यावारिधि(पी.एच.डी.) पाठ्यक्रमस्य उद्घाटनकार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमेऽस्मिन् विश्वविद्यालयस्य श्रद्धेयकुलपतिः प्रो.मुरलीमनोहरपाठकः अध्यक्षपदमलङ्करोत्। विश्वविद्यालयस्य पूर्वकुलपतिः स्वनामधन्यः प्रो.रमेशकुमारपाण्डेयवर्यो विशिष्टातिथिरूपेण तत्र निर्देशनं कृतवान्। कार्यक्रमस्यास्य संयोजकः शोधविभागस्याध्यक्षः प्रो. शिवशङ्कर-मिश्रमहानुभावोऽऽसीत्। अस्मिन् उद्घाटनकार्यक्रमे विश्वविद्यालयस्य भिन्न-भिन्नविभागेषु पञ्जीकृताः शोधच्छात्राः समुपस्थिता आसन्। 

 केरलेषु तापमानं वर्धते।

कण्णूर्> केरलस्य बहुत्र स्थानेषु अत्युष्णः अनुभूयते। कण्णूर्, कासरगोड् इत्यादिषु उत्तरजनपदेषु दिनतापमानं ३ - ५ डिग्री सेल्षियस् पर्यन्तं वर्धिष्यते इति ऋतु विज्ञानीयविभागेन निगदितम्। गतदिने कण्णूरस्य कतिचित् स्थानेषु तापमानं ४२. १ डिग्री सेल्षियस् पर्यन्तमासीत्। 

  केरलस्य विविधजनपदेषु नदी वाप्यादयः शुष्कप्रायाः जाताः। वनस्थानेषु वनाग्निः व्याप्यते। ग्रीष्मकालवर्षाः अस्मिन् संवत्सरे न्यूनाः जाताः इत्येव कारणमिति अभिज्ञमतम्।

Friday, March 3, 2023

 ऊर्जरहितस्य कृत्रिममधुरस्य  गुरुतरप्रत्याघाताः सन्ति इति अध्ययनफलम्।

     सितायाः स्थाने उपयुज्यमानेषु कृत्रिममधुरेषु मुख्यो भवति एरित्रिट्टोल्। शून्य - ऊर्जोत्पन्नस्य (zero calorie ) एरित्रिट्टोलस्य दोषफलानि सन्ति इति अध्ययनानि व्यनक्ति। सितायाः स्थाने उपयुज्यमानम् उत्पन्नमिदं हृदयाघातः, पक्षाघातः इत्यादिषु स्वास्थ्यसमस्यासु च नयति। तथा अस्य उपयोगः मरणकाराणमपि भविष्यति इति अध्ययनफलानि सूचयन्ति। अमेरिक्कस्य क्लेव् लान्ट् क्लीनिक् लेर्णल् गवेषणकलालयस्थैः वैज्ञानिकैः एव अध्ययनमिदम् आयोजितम् ।

 उत्तरपूर्वीयराज्येषु भा ज पा प्रगतिः। 

नवदिल्ली> विधानसभानिर्वाचनानि सम्पन्नानां राज्यानां मतगणनाफले बहिरागते त्रिष्वपि राज्येषु भा ज पा सख्योपेतम्  एन् डि ए सख्यं प्रशासनपदं प्राप्स्यति। त्रिपुरा , नागालान्ट् राज्ययोः एन् डि ए सख्यं शासनानुवर्तनं प्राप्तम्। मेघालये अपि अधिकस्थानं लब्धेन एन् पि पि (National Peoples Party) नामकदलेन सह सख्याय भा ज पादलेन उद्यमः आरब्धः। अनेन राष्ट्रस्य उत्तरपूर्वीयक्षेत्रस्य अष्टसु राज्येष्वपि भा ज पादलस्य शासनपदप्राप्तिः लप्स्यते। 

  त्रिपुरायाम् आहत्य ६० मण्डलेषु ३२ मण्डलानि भा ज पादलेन प्राप्तानि। प्रतियोगिने सि पि एम् - कोण्ग्रस् सख्यदलाय केवलं १३ स्थानान्येव प्राप्तानि। नागलान्टे एन् डि ए सख्ययुक्ताय एन् डि पि पि दलेन २५ स्थानानि भा ज पादलेन १२ स्थानानि च प्राप्तानि। मेघालये तु न कोSपि दलः शासनाधिकारसंख्याकं स्थानं  न सम्प्राप तथापि एन् पि पि दलः भाजपादलेन सह शासनपदं प्राप्स्यति।

Thursday, March 2, 2023

 अनिलकोशस्य मूल्यम् अवर्धयत; सर्वत्र प्रतिषेधः। 

नवदिल्ली> सामान्यजनस्योपरि प्रहरं कृत्वा पाकेन्धनस्य मूल्यं पुनरपि केन्द्रसर्वकारेण वर्धापितम्। गार्हिकानिलकोशस्य मूल्यं ५० रूप्यकाणि वाणिज्यकोशस्य च ३५१ रूप्यकाणि च वर्धापितानि। 

  २०२२ तमे वर्षे चतुवारं गार्हिकेन्धनस्य मूल्यं वर्धापितमासीत्। आभारतं पाकेन्धनस्य मूल्यवर्धने प्रतिषेधकार्यक्रमाः आयोजिताः। अन्ताराष्ट्रविपण्यां असंस्कृततैलस्य मूल्यं नितरां न्यूनमित्यस्मात् पाकेन्धनस्य मूल्यवर्धनं निष्ठुरमिति सामान्यजनानां मतम्।

Wednesday, March 1, 2023

 आन्ध्राप्रदेशे हिन्दुधर्मप्रचारणाय संरक्षणाय च सर्वकारेण३००० मन्दिराणि निर्मीयन्ते। 

   अमरावती> आन्ध्राप्रदेशे सर्वासु जिल्लासु मन्दिरसान्निध्यं दृढीकर्तुं विपुलया रीत्या मन्दिरनिर्माणमारब्धमिति राज्यसर्वकारः। हिन्दुधर्मस्य संरक्षणं प्रचारणं च लक्ष्यीकृत्य एव प्रक्रमोऽयम्। तदर्थं मुख्यमन्त्रिणा वै एस् जगन् मोहन् रेड्डिणा निर्देशाः दत्ताः इति उपमुख्यमन्त्रिणा कोट्टु सत्यनारायणेन प्रतिवेदितम्। तिरुमला तिरुप्पति देवस्थानस्य श्रीवाणी ट्रस्ट् इत्यनेन मन्दिरनिर्माणार्थं दशलक्षं रूप्यकाणि प्रदत्तानि। १,३००  मन्दिराणां निर्माणं समारब्धम् । १,४६५ मन्दिराणि निर्माण-पट्टिकासु सन्निवेशितानि। अवशिष्टानां मन्दिराणां निर्माणं सन्नद्धसंघट्टनानां साहाय्येन पूर्तीकरिष्यन्ति।

 मुम्बै वाङ्डे क्रीडाङ्कणे सच्चिन् तेन्डुल्करस्य प्रतिमा संस्थाप्यते। विश्वचषकस्पर्धावेलायाम् अनाच्छादनं भविष्यति।

  क्रिक्कट् आराधकानां कृते क्रिक्कट् इतिहास इति प्रसिद्धस्य सच्चिन् तेन्डुल्करस्य प्रतिमा अनाच्छादनाय सज्जते। विख्याते वाङ्डे क्रीडाङकणे एव प्रतिमा संस्थाप्स्यते। मुम्बै क्रिक्कट् असोसियेषन् अध्यक्षेण अमोल्काणेन एव वार्तेयम् प्रतिवेदिता। २०१३ तमे संवत्सरे ओक्टोबर् मासे एकदिनविश्वचषक-स्पर्धायाः सन्दर्भे प्रतिमा अनाच्छादयितुं निश्चिता। इदंप्रथमतया एव भवति वाङ्डे क्रीडाङकणे प्रतिमायाः स्थापनम्।

 हरिण शाबकं लक्ष्यं कुर्वाणः लुब्धकः - समीपं प्रति हरिणिमाता- द्रष्टारः अद्भुतपरतन्त्राः।

    शत्रून् स्नेहयितुं विशालं मनः आवश्यकम्, तदपि आत्मजं हन्तुमुद्युक्तम् कश्चन लुब्धकं प्रति स्नेहयितुम्। तादृशरीत्या एकं वार्ताचित्रं प्रचलति सामाजिकमाध्यमेषु। मात्रा हरिण्या स्वस्य शाबकस्य हननाय आगतस्य लुब्धकस्य मनपरिवर्तनं  स्नेहेन साधिता।  अस्याः घटनायाः चलनचित्रखण्डः इदानीं सामाजिकमाध्यमेषु अधिकप्रसृतः वर्तते। 

     भारतस्य वनपालकेन सुशान्तनन्देन इदं दृश्यं सामाजिक-माध्यमेषु प्रसारितम्। वनप्रदेशे मृगयार्थम् आगतः कश्चित् पुरुषः दूरे एकं हरिणशाबकं दृष्ट्वा नालिकाशस्त्रं  शाबकस्योपरि लक्ष्यीकृतवान्। माता हरिणी भयेन ततः गमनं न कृतवती। किन्तु सधैर्यं लुब्धकस्य समीपं प्राप्तवती च। किमधिकं  हरिण्याः आगमनं दृष्ट्वा लुब्धकः स्तब्धः अभवत्। स्वस्य समीपे आगतायाः हरिण्याः दैन्ये नेत्रे दृष्ट्वा लुब्धकस्य हृदयं करुणापूरितम् अभवत्। सः वात्सल्येन हरिण्याः शिरसि संस्पृशत्। मृगयाविनोदात् अधिकं सुखं  मृगलालनेन लभते इति पादटिप्पणीसहितेन अयं चलनखण्ड: अनस्यूतं  प्रसार्यमाणः वर्तते।

 पाकिस्थानीयातङ्कवादबन्धः - मध्यप्रदेशे एकः निगृहीतः। 

इन्डोर्>  पाकिस्थानस्य ऐ एस् ऐ नामकगुप्तसंघेन तथा भीकरवादसंस्थाभिः सह सम्बन्धः अस्तीति निर्णीय सर्फरास् नामकः कश्चन युवकः इन्डोरस्य आरक्षकदलेन निगृहीतः। ऐ एन् ऐ संस्थायाः निर्देशानुसारं चन्दननगर आरक्षकस्थानक्षेत्रात् एषः निगृहीत इति मध्यप्रदेशस्य गृहमन्त्रिणा नरोत्तममिश्रवर्येण निगदितम्। 

  चीनः, होङ्कोङः, पाकिस्थानम् इत्येभ्यः राष्ट्रेभ्यः एतस्मै परिशीलनं लब्धः इति सूच्यते। आरक्षकैः परिपृच्छा अनुवर्तते।