OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 4, 2023

 २०२२-२३ तमे सत्रस्य विद्यावारिधि(पी.एच.डी.) सत्रीयपाठ्यक्रमस्य शुभारम्भः

  श्रीलाल् बहादुरशास्त्री-राष्ट्रिय -संस्कृतविश्वविद्यालयस्य शोधविभागः प्रतिवर्षे विद्यावारिधिपाठ्यक्रमे पञ्जीकृत-शोधच्छात्राणां कृते षाण्मासिक-सत्रीयपाठ्यक्रमस्य आयोजनं करोति। अस्मिन् वर्षेऽपि भिन्नभिन्नविभागेषु पञ्जीकृतान् शोधच्छात्रान् शोधप्रविधिं शोधसर्वेक्षणं पाण्डुलिपिविज्ञानञ्चेत्यादि-विषयाणामवबोधनार्थं मार्चमासस्य प्रथमदिनाङ्के शोधविभागेन विद्यावारिधि(पी.एच.डी.) पाठ्यक्रमस्य उद्घाटनकार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमेऽस्मिन् विश्वविद्यालयस्य श्रद्धेयकुलपतिः प्रो.मुरलीमनोहरपाठकः अध्यक्षपदमलङ्करोत्। विश्वविद्यालयस्य पूर्वकुलपतिः स्वनामधन्यः प्रो.रमेशकुमारपाण्डेयवर्यो विशिष्टातिथिरूपेण तत्र निर्देशनं कृतवान्। कार्यक्रमस्यास्य संयोजकः शोधविभागस्याध्यक्षः प्रो. शिवशङ्कर-मिश्रमहानुभावोऽऽसीत्। अस्मिन् उद्घाटनकार्यक्रमे विश्वविद्यालयस्य भिन्न-भिन्नविभागेषु पञ्जीकृताः शोधच्छात्राः समुपस्थिता आसन्। 

  भारतीयपरम्परानुसारं कार्यक्रमस्य प्रारम्भे मङ्गलाचरणम्, दीपप्रज्ज्वालनम्, अध्यक्षाणामतिथीनाञ्च स्वागतञ्च कृतम्। विशिष्टातिथिव्याख्याने प्रो.पाण्डेयमहाभागेन संस्कृते शोधस्वरूपम्, संस्कृतक्षेत्रे कृतानां शोधकार्याणां परिचयं वैशिष्ट्यञ्चोपस्थापितं तथा च पाण्डुलिपिमधिकृत्य शोधकार्याय केषां बिन्दूनां पालनं कर्त्तव्यमिति सम्यग्रूपेण प्रतिपादितम्। आध्यक्ष्यीयोद्बोधने प्रो.पाठकवर्येण शोधस्य महत्त्वपूर्णबिन्दूनां प्रकाशनं कृतं तथा च शोधकरणार्थं पञ्जीकृताः पीएच.डी.शोधच्छात्रा अन्येभ्यो छात्रेभ्यो विशिष्टास्सन्ति, शोधच्छात्रान् दृष्ट्वा अन्ये छात्राः प्रेरिताः भवन्ति, स्वाचरणं व्यवहारञ्च परिशीलयन्तीति वागमृतेन सिञ्चनं कृतम्। कार्यक्रमेऽस्मिन् आधुनिकविषयपीठप्रमुखा प्रो.सविता शर्मा, प्राकृतभाषाविभागाध्यक्षः प्रो.सुदीपकुमारजैनः, सङ्गणकविभागीयाचार्यः श्रीआदित्यपञ्चोलीवर्यः, प्रकाशनविभागस्य सहायकः डॉ.ज्ञानधरपाठकः, शोधविभागस्य प्रूफसंशोधकः डॉ.जीवनकुमारभट्टराई, शोधसहायिका तरुणा-अवस्थी तथा च विश्वविद्यालयस्यान्ये आचार्याः समुपस्थिताः आसन्।