OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 20, 2023

 वाक्सुधासत्रं २७,२८,२९ दिनाङ्केषु।

    आधुनिककाले संस्कृतम् संस्कृतानुवादस्य  प्राधान्यं च इति विषयमधिकृत्य प्रचाल्यमानं त्रिदिवसीयं सत्रं  मार्च् २७, २८, २९ दिनाङ्केषु भविष्यति। अमृत विश्वविद्यापीठस्य कोच्ची परिसरे एव कार्यक्रमः आयोक्ष्यते। भारतसर्वकारस्य भाषाविभागस्य आर्थिकसाहाय्येन  संस्कृतभारत्याः साह्येन तथा अमृतविश्वविद्यापीठस्य सांस्कृतिक- भारतीय - अध्ययनविभागेन  च सत्रमिदं प्रचलिष्यति। 


      संकृतभारतयाः अखिलभारतीय सचिवः प. नन्दकुमारः कार्यक्रमस्य उद्घाटनं करिष्यति। संस्कृतभाषायाः विभिन्नक्षेत्रेषु प्रवर्तननिरताः  कर्मकुशलाः निष्णादाः विविधेषु विषयेषु स्वमतान् अवतारयिष्यन्ति। केरलराज्यस्य विभिन्नेभ्यः प्रदेशेभ्यः, कलाशालाछात्राः,  अध्यापकाः, संस्कृतानुरागिणः च भागं स्वीकरिष्यन्ति इति कार्यक्रमस्य आयोजकेन वि ज्योतिष्मयी महोदयेन उक्तम्।

 

   कार्यक्रमस्य विशेषज्ञाः भूत्वा डा. एम् वि नटेशः डा. के गिरिधर राऊ डा. ज्योत्स्ना जी डा. एम् जयरामः डा. तिलक् एम् राऊ डा. शिवजा एस् नायर्. डा. पिके शङ्करनारायणः श्रीमति इन्दु के एस् , जे वन्दना च भागं स्वीकरिष्यन्ति।