OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 13, 2023

 गीतामृतम् कार्यक्रम: सम्पन्नः।

 केरले इरिञ्जालक्कुटा चेम्मण्डग्रामे गीताशिक्षणकेन्द्राणां दिनद्वयस्य सङ्गमः प्राचलत्। गीतामृतं नाम कार्यक्रमेस्मिन् गीतासोपानद्वारा संस्कृतं पठन्तः शिक्षार्थिनः भागं स्वीकृतवन्तः । कार्यक्रमस्य उद्घाटनं विश्वसंस्कृतप्रतिष्ठानस्य पूर्वतन-प्रन्तीयोपाध्यक्षः अमृतभारती विद्यापीठस्य अध्यक्षः डा . एं . वि . नटेशः कृतवान् । संस्कृतभारत्याः प्रान्तियसम्पर्कप्रमुखः डा. पि के . शङ्करनारायणः अध्यक्ष : आसीत् । सेवानिवृत्त : संस्कृताध्यापक: अजितन् वार्यर् आशंसा भाषणं कृतवान्। प्रशिक्षणप्रमुखः पि आर् शशी स्वागतं तथा श्रीमती श्रीजा कावनाट् कृतज्ञतां च कृतवन्तौ ।

    सम्भाषणसन्देशस्य सम्पादक : विद्वान् जनार्दन हेग्डे , संस्कृतभारती अखिलभारतीय प्रचारप्रमुखः श्रीरामः, दक्षिणक्षेत्रसंघटनामन्त्री सुवीषः, संस्कृतभारत्या: पूर्वतन पूर्णकलिकः संस्कृतसेवकः डा के एन् .पद्मकुमारः च भगवद् गीताविषयान् उत्बोधितवन्तः। समारोपकार्यक्रमे प्रन्तीयाध्यक्षः पण्डितरत्नं डा पि के माधवमहोदयः मुख्यभाषणं कृतवान्। श्री श्रीशमः, कोशाध्यक्षः संजीव् टि सि आशंसां च कृतवन्तौ। 40 शिक्षार्थिनः कार्यक्रमे अस्मिन् भागंस्वीकृतवन्तः ।