OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 19, 2023

 एकादशी- श्रीमद्भगवद्गीता राष्ट्रिया व्याख्यानगोष्ठी सुसम्पन्ना।

    संस्कृतविभाग-महात्मागांधी- केन्द्रीय-विश्वविद्यालय: मोतिहारी, पूर्णिया महाविद्यालयः  पूर्णिया बिहार:, चातुर्वेदसंस्कृतप्रचारसंस्थानं, काशी, उत्तरप्रदेश: इत्येतेषां संयुक्ततत्त्वावधाने विश्वसंस्कृतकुटुम्बकम् आमुखपटलसमूहस्य आनलाईन् पाक्षिकीयं षष्ठी राष्ट्रिया गोष्ठी 18/3/2023 दिनाङ्के, शनिवासरे सफलतया सम्पन्ना अभूत्।

  कार्यक्रमेऽस्मिन् सभाध्यक्षरूपेण प्रो० प्रसूनदत्तसिंह:, अधिष्ठाता मानविकी एवं भाषासंकाय:, म.गा. केन्द्रीय- विश्वविद्यालय: मोतिहारी। महोदय: सम्पूर्णव्याख्यानस्य साररूपेण व्याख्यानम् अकरोत्। स: अवदत् यत् भारतस्य परिचयः गीतावेदादिग्रन्थमाध्यमेन एवास्ति। 

    मुख्यवक्त्री प्रो० विभा अग्रवाल पूर्व अध्यक्षा, संस्कृत पालि एवं प्राकृतविभाग: कुरुक्षेत्र-विश्वविद्यालय:, हरियाणा। महोदया 'श्रीमद्भगवद्गीतायां त्रिगुणस्वरूपम्, इतिविषये सारगर्भितं व्याख्यानमकरोत्। सा अवदत् गीतायां यत् त्रिगुणस्वरूपं वर्णितमस्ति तस्य वैज्ञानिकता अस्ति। अष्टधा प्रकृतिविषये सा महोदया प्रकाशनम् अकरोत्। त्रिगुणविषये एव सम्पूर्ण संसारस्य आधार: अस्ति। मनुष्य: त्रिगुणभोक्ता अस्ति। त्रिगुणविषयात् भिन्न: अस्ति ईश्वर:, य: चेतनरूप: अस्ति।  विशिष्टवक्ता डॉ॰ कृष्णमोहनपाण्डेय:, वेद विभागाध्यक्ष: सनातनधर्म आदर्श संस्कृतमहाविद्यालय: डोहगी,ऊना हिमाचलप्रदेश:। महोदयः श्रीमद्भगवद्गीतायां जीवनप्रबन्धनं विषयेऽस्मिन्  व्याख्यानमकरोत्। स: अवदत् गीतां बिना जीवनं नास्ति। न च शक्नोम्यवस्थातुं भ्रमतीव च मे मन: श्लोकेऽस्मिन् वर्णितमस्ति जीवने अपि सर्वदा एवमेव भ्रम: भवति किन्तु तस्य समाधानं श्रीमद्भगवद्गीतायामेव अस्ति।मनसि दृढ़निश्चयं कृत्वा एव कार्यं करणीयं । तदा अवश्यमेव सफलता भविष्यति। बुद्ध्या कार्यं कुर्वन्तु न तु मनसा।

   सहसमन्वयक: डॉ० मोहम्मद कमाल:, प्राचार्य:, संयुक्तसंयोजिका डा० सविताओझा संस्कृतविभागाध्यक्षा  पूर्णिया कालेज पूर्णिया.

कार्यक्रमेऽस्मिन् मंङ्गलाचरणं कृतवान् डा० पूरन चन्द्र जोशी, वेदाचार्य: श्रीमाता वैष्णोदेवी गुरुकुलं, श्राईन बोर्ड कटरा  जम्मू कश्मीर, गीताश्लोकपाठं कृतवती अर्पिता शर्मा, ओम् बाल संस्कारशाला भदोही।  सम्पूर्णकार्यक्रमस्य सूत्रधार: संयोजकश्च डॉ० चन्द्रकान्तदत्त शुक्लवर्य: कार्यक्रमस्य सञ्चालनम् अकरोत्। समन्वयकः डॉ० श्यामकुमारझा: संस्कृतविभागाध्यक्षः म.गा.के. विश्वविद्यालय: मोतिहारी, अतिथीनां जिज्ञासूनाञ्च स्वागतमकरोत्। स: अवदत् यत् ये कार्यक्रमस्य सूत्रधारा: सन्ति डॉ चन्द्रकान्तदत्तशुक्लवर्या: ते संस्कृतभाषाया: समर्पितसेवका: सन्ति ते न केवलं कार्यक्रमस्य संयोजका अपितु ते संस्कृते एव जीवन्ति।

     धन्यवादज्ञापनं कार्यक्रमस्य संयुक्तसंयोजिका डॉ॰ सविता ओझा विभागाध्यक्षा संस्कृत-पूर्णिया कालेज पूर्णिया महोदया अकरोत्। अन्ते संयोजनसदस्यः डॉ॰ शम्भुत्रिपाठी संस्कृतप्रचारकुलगीतं प्रस्तुतुवान्।

  कार्यक्रमे प्रो० शरदिन्दु कुमार त्रिपाठी, प्रो०नवलता, डॉ॰ नीरज तिवारी, डा०प्रमा द्विवेदी, आचार्य ज्ञानेन्द्र:, डा. प्राङ्गेशकुमारमिश्र:, डा. वत्सला त्रिपाठी,  प्रो० मञ्जुलता शर्मा, डा०आभाद्विवेदी, डॉ ० अरविन्दतिवारी, रोशनमौर्य:, पूजा, प्रिया, शालिनी, आकाङ्क्षा, अङ्किता,मधु, डॉ॰ राहुल कुमार झा:, डॉ॰ तेजप्रकाशचतुर्वेदी, डा. सूर्यप्रकाशसिंहः, डॉ॰ बृजेश पाण्डेयः, डा. सूर्यकान्त त्रिपाठी, डॉ आरुणेय मिश्रः, डा. इन्द्रेश पाण्डेय:, डॉ॰ गीता शुक्ला, डॉ॰ उपेन्द्रनाथपाण्डेयः, डॉ॰ प्रदीपकुमारमिश्रः, अनामिका सिंह, अनन्या श्रीवास्तवा, दीनदयालशुक्लः, डॉ॰ आभा द्विवेदी, डॉ॰ प्राङ्गेशमिश्रः, डॉ॰ मिताली मीनू, डॉ॰ विश्वेश वाग्मी, सुदर्शनश्रीनिवासशाण्डिल्य:, मोहन जोशी, सङ्गीता शर्मा, ऋषिकान्त उपाध्याय, कृष्णप्रिया हाती, महक, डॉ॰ सन्ध्या ठाकुर, किरन उपाध्याय, पुष्पराज शर्मा, अभिषेक:, डा. रामकेश्वर तिवारी, आनन्द माधव, डॉ॰ धनन्जय मणि, रमेशचन्द्रा, अनेके जिज्ञासव: गीताप्रियाः बन्धवः समुपस्थिताः आसन्।

वृत्तप्रेषिका- डॉ॰ नेहा मिश्रा