आविश्वं समुद्रजलवितानवर्धनया न केवलं द्वीपराष्ट्राणि भारतीयनगराणि अपि भीषां अभिमुखीकरिष्यन्ति।
आविश्वं समुद्रजलवितानवर्धनं द्वीपराष्ट्रान् प्रबाधयिष्यते इति प्रतिवेदनं समीपकाले एव आगतम्। घटनेयं न केवलं द्वीपराष्ट्राणि भारते चेन्नै कोल्कत्ता इत्यादीनि अन्यानि बृहत्नगराण्यपि आविश्वसमुद्रजलवितानवर्धनया भीषां अभिमुकरिष्यन्ति इति अध्ययनफलानि सूचयन्ति। २१०० संवत्सराभ्यन्तरे हरितगृहवातकानां बहिर्गमनं न निरोधयिष्यति चेत् एष्याभूखण्डस्थानां नगराणां स्थितिः अतिशोचनीया भविष्यति इति नेच्चर् क्लेमेट् चेय्ञ् इति वार्तापत्रिकायां प्रकाशितं अध्ययनप्रतिवेदनं पूर्वसूचनां ददाति।