OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 17, 2024

 शास्त्रार्थमाध्यमेनैव भारतीयज्ञानपरम्परा संरक्षिताऽस्ति - आचार्य: हरेराम: त्रिपाठी।

-डॉ.दिनेश चौबे, उज्जयिनी ।

   उज्जयिनीस्थे महर्षिपाणिनि संस्कृत -वैदिकविश्वविद्यालये नवदेहलीस्थस्य केन्द्रीय -संस्कृतविश्वविद्यालयस्य अष्टादशीपरियोजनान्तर्गतायाः राष्ट्रियशास्त्रार्थ-कौशलप्रशिक्षण-विषयिकायाः कार्यशालायाः समारम्भः विश्वविद्यालयस्य योगेश्वरश्रीकृष्णभवने अभवत्। कविकुलगुरूकालिकाससंस्कृत विश्वविद्यालयस्य कुलपति: आचार्य: हरेरामत्रिपाठीमहोदय: मुख्यातिथिरूपेण समागत्य स्वकीय सम्बोधने उक्तवान् यत् एवमेवातिप्राचीनकालतः प्रश्नोत्तरमाध्यमेन शास्त्रविधिना शास्त्रसंरक्षण भारते संरक्षितं वर्तते। येनाद्य अस्माकं ज्ञानपरम्परा समृद्धा विद्यते । सभाध्यक्षीयोद्वोधने कुलपतिः आचार्य: विजयकुमारसीजी महोद‌य: कथितवान् महाराज्ञ: विक्रमस्य नवरत्नरूपेण नानाशास्त्रपण्डिताः अत्रैव अभूवन् एते विश्वप्रसिद्धा: आसन्। सारस्वतातिथिः आचार्य: श्यामदेवमिश्रमहाभागः न्यायवेदव्याकरण-ज्योतिषादि शास्त्राणां महत्त्वं प्रतिपादितवान् ।

  संयोजकः परियोजनान्वेषक: डॉ. तुलसीदासपरोहा वाचिकस्वागतं कृत्वा प्रस्तावना प्रस्तुतीकरणपूर्वकं सविस्तरेण शास्त्रार्थपरम्परा तथा संप्रति एतस्यावश्यकताऽपि प्रतिपादितवान्। संचालनञ्च प्राध्यापक: डॉ. गंगाशरणव्यासः कृतवान् । कुलसचिवः डॉ.दिलीप सोनीमहोदयेन धन्यवादज्ञापनं कृतम्।