OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 7, 2015

संस्कृतदिनाचराणम्‌

 प्रतिज्ञा 
दिनाचरणं  कसरगोड् जिल्लायां
संस्कृतं मम जीववाणी। तस्याः समृद्धायां नानाविधायां पूर्विकसम्पत्तौ अभिमानी भवामि। संस्कृतपठनं मम विनय-आत्मगौरव-सदाचार-सामूह्यबोधादीनां सद्गुणानां विकासाय प्रभावयति। "वसुधैव कुटुम्बकम्", "सत्यमेव जयते", "सर्वे भवन्तु सुखिनः", इत्यादिभिः आप्तवचनैः राष्ट्रस्य अखण्डता ऐक्यं च संस्कृतभाषायां सुरक्षितमिति विवेचयामि। अहं जाति-वर्ग-स्त्री-पुरुषभेदबुद्धिं विना संस्कृतभाषापठने तथा प्रचारणे च सदा सर्वथा प्रयत्नं करोमि। स्नेहमयी माता स्वपुत्रान् इव अन्यभाषाः अपि आदरिष्ये।।
जयतु जयतु संस्कृतम्।
सि. बि. विनायकः - कोट्टयम्‌ ।