OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत - जगद्गुरु भारतीतीर्थस्वामिनः। व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 28, 2020

 ‘मनोगतम् [०२.१६] 

‘मन की बात’प्रसारण-तिथि:-२७’सेप्टेम्बरः, २०२०          

  [भाषान्तरं – सर्वश्री-पुरुषोत्तमशर्म-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]


    मम प्रियाः देशवासिनः, नमस्कारः| कोरोना-कालखण्डे अस्मिन् अशेषविश्वम्  अनेकानि परिवर्तनानि सम्मुखीकरोति| अद्य, यदा ‘दो गज़् की दूरी’ति अनिवार्या आवश्यकता सम्वृत्ता, तदा अमुना एव सङ्कटकालेन, कुटुम्ब-सदस्यान् परस्परं संयोजयितुं, मिथः सामीप्यं स्थापयितुं च महत्कार्यमपि कृतम्| परञ्च, एतावद्दीर्घकाल-पर्यन्तं, सम्भूय वासः,  केन प्रकारेण स्थेयम्, कालः कथं यापनीयः, प्रत्येकमपि क्षणः प्रसन्नता-प्रदः केन प्रकारेण स्यात्? एवम्, अनेकानि कुटुम्बानि काठिन्यानि अन्वभवन्, अस्य कारणमासीत् यत् अस्मदीयाः याः परम्पराः आसन्, कुटुम्बे याः संस्कारसरिद्रूपेण प्रवहन्ति स्म,  तासाम् अभावः अनुभूयते, एवं प्रतीयते यत्, अनेकेषु कुटुम्बेषु एतत्-सर्वं समाप्तम्, तथा च,  एतस्मात् कारणात्, सति तदभावे, एतत्-सङ्कटकालस्य यापनम् अपि कुटुम्बानां कृते किञ्चित् कठिनतरं सञ्जातम्, अपि च, तस्मिन् अन्यतरं महत्वपूर्ण-वृत्तं किमासीत्? प्रत्येकमपि कुटुम्बे कश्चन वरिष्ठः, कुटुम्ब-ज्येष्ठाः जनाः च, कथाः श्रावयन्ति स्म तथा च, गृहे नवीनां प्रेरणाम्, अभिनवाञ्च ऊर्जां पूरयन्ति | वयम्, नूनमिदम् अनुभूतवन्तः स्युः, यत् अस्मदीयैः पूर्वजैः याः विधाः प्रवर्तिताः, ताः अद्यापि कियत्यः महत्वपूर्णाः सन्ति, एताः च यदा नैव प्रवर्तन्ते तर्हि कियत् नैयून्यम् अनुभूयते? एतादृशी एव अन्यतमा विधा – यथा मयोक्तम्, ‘story telling’- कथा-कथनस्य कला वर्तते  |

   सखायः,  कथानाम् इतिहासः तावान् एव प्राचीनः यावती मानवसभ्यता | 

‘where there is a soul there is a story’ | कथाः, जनानां रचनात्मकपक्षं सम्वेदनापक्षं च समक्षम् आनयन्ति, तौ च प्रकटयन्ति | कथायाः शक्तिम् अनुभवितुम् ईह्यते चेत्, तर्हि काचित् जननी यदा स्वीयं शिशुं शाययितुं वा भोजनं खादयितुं कथां श्रावयन्ती भवति, तदा पश्यतु | अहं स्वीय-जीवनस्य सुदीर्घकालपर्यन्तं परिव्राजकरूपेण आसम् | परिव्रजनमेव मम जीवनम् आसीत् | प्रतिदिनं नवीनः ग्रामः, नूतनाः जनाः, नवानि कुटुम्बानि, परञ्च, यदाहं परिवारेषु गच्छामि स्म, तदा बालैः साकम् अवश्यमेव सम्भाषे स्म, तथा च, कदाचित्तु बालान् कथयामि स्म यत्, एवं तर्हि मां काञ्चित् कथां श्रावयतु, तदा आश्चर्यान्वितः अभवं यत् बालाः मां कथयन्तः आसन्,  नैव, पितृव्य! कथां नैव, वयन्तु विनोद-कणिकां श्रावयिष्यामः, तथा च, मामपि ते एतदेव कथयन्ति स्म यत्, पितृव्य! भवान् अस्मान् विनोद-कणिकां श्रावयतु अर्थात् तेषु कथायाः किञ्चित् अभिज्ञानमेव नासीत् | अधिकांशतया, तेषां जीवनं विनोद-कणिकासु एव समाहितमासीत् | 

                सखायः, भारतस्य कथा-कथनस्य,आहोस्वित् कथयन्तु,’ किस्सा-गोई’- इति कथावर्णनस्य समृद्धा परम्परा वर्तते | वयं गौरवम् अनुभवामः यत् वयं तस्य देशस्य वासिनः, यत्र हितोपदेशस्य पञ्चतन्त्रस्य च परम्परा प्रवर्तते, यत्र, कथासु पशु-पक्षिणाम् अप्सरसां च काल्पनिकं विश्वं विरचितम्, येन हि, विवेकस्य बुद्धिमत्तायाः च वृत्तानि सरलतया अवगमयितुं शक्यन्ते | अस्माकं संस्कृतौ कथानां परम्पराः प्रावर्तन्त | एषा  धार्मिककथानां कथनस्य प्राचीना पद्धतिः वर्तते | अस्यां ‘कथाकालक्षेपम्’ अपि समाविष्टम् | अस्माकं परम्परासु विभिन्नाः लोक-कथाः प्रचलिताः सन्ति | केरळतमिलनाडु-राज्ययोः कथा-श्रावणस्य बहु रोचिका पद्धतिरस्ति | एषा ‘विल्लू-पाट्’ कथ्यते | अस्यां कथायाः सङ्गीतस्य च सुबहु आकर्षकं सामञ्जस्यं भवति | भारते ‘कठपुतली’- इति काष्ठ-पुत्तलिकानां जीवन्ती परम्परा अपि वर्तते | एतेषु दिनेषु विज्ञानेन विज्ञान-कथाभिः च सम्बद्धानां कथानां कथाकथनस्य च विधा लोकप्रिया जायते | अहमवलोकयामि यत् अनेके जनाः ‘किस्सागोई’- इति कथाकथनस्य कलाम् अग्रे वर्धयितुं प्रशंसनीयान् प्राथमिकप्रयासान् आचरन्ति | अहं gaathastory.in-सदृश्याः ‘website’-अन्तर्जाल-वाहिकायाः विषयिणीं सूचनां प्राप्नवम्, याम् अमरव्यासः, अन्यजनैः सम्भूय प्रचालयति | अमरव्यासः, अहमदाबाद-स्थितात् ‘IIM- Indian Institute of Management’ – संस्थानात् ‘MBA’-पदवीं प्राप्य विदेशान् प्रयातः, ततश्च प्रत्यागतः |  साम्प्रतं सः बेंगलुरु-नगरे निवसति, सत्यवकाशे कथा-सम्बद्धम्, एवंप्रकारकं  रोचककार्यं करोति |  केचन एतादृशाः प्रयासाः अपि सन्ति ये ग्रामीणभारतस्य कथाः अतितरां प्रचालयन्ति | वैशालीव्यवहारे-देशपाण्डेसदृशाः अनेके जनाः सन्ति ये एताः कथाः मराठी-भाषायामपि लोकप्रियाः विदधति |  

              चेन्नईनगरस्य श्रीविद्या-वीरराघवन् अपि अस्माकं संस्कृत्या सम्बद्धानां कथानां प्रचारणार्थं, प्रसारणार्थं च कटिबद्धा, तत्रैव, कथालयः, The Indian story telling network चेति अन्तर्जालपुट-द्वयम् अपि क्षेत्रेsस्मिन्‌ विशिष्टं कार्यं करोति । गीतारामानुजन्वर्यया kathalaya.org इत्यस्मिन् जालपुटे कथाः केन्द्रीकृताः, तत्रैव The Indian story telling network-माध्यमेन अपि विभिन्नानां नगराणां story tellers इति कथा-वक्तॄणां शृङ्खला निर्मीयमाणा अस्ति। बेंगलुरौ एकः विक्रमश्रीधरः अस्ति, यः बापू-सम्बद्धाभ्यः कथाभ्यः उत्साहितः, अन्येsपि जनाः अस्मिन्‌ क्षेत्रे कार्यरताः स्युः । भवन्तः अवश्यं तेषां विषये प्रचारमाध्यमेषु लिखन्तु ।


              अद्य अस्माभिः सह बेंगलुरुतः Story telling society-इति समवायतः भगिनी-अपर्णा अथरे, अन्ये सदस्याः युक्ताः सन्ति | आगच्छन्तु, ताभिः सह संवादं कुर्मः, जानीमः च तासाम् अनुभवान्।

प्रधानमन्त्री :-  हरिः ॐ

अपर्णा :-  नमस्कारः आदरणीय! प्रधानमन्त्रिमहोदय, कथम् अस्ति भवान्‌ ?

प्रधानमन्त्री :- अहं कुशली । भवती कथम् अस्ति, अपर्णामहोदये ?

अपर्णा :- कुशलिनी अस्मि महोदय! प्रप्रथमम् अहं Bangalore Story Telling Society 

समवायपक्षतः धन्यवादभावं प्रकटयामि। यतोहि भवान् मादृशाः अत्र आहूय, अस्मादृशाभिः कलाकर्त्रीभिः सह सम्वादं कुर्वन्नस्ति। 

प्रधानमन्त्री :- मया श्रुतं समग्रः अपि कार्यगणः तत्रभवत्या सह समुपस्थितः अस्ति।

अपर्णा :- सत्यम्  , .........सत्यं महोदय!

प्रधानमन्त्री :- तर्हि सम्यक् भविष्यति यदि भवती स्वगणस्य परिचयं कारयिष्यति। अनेन मनोगतस्य श्रोतारः अपि परिचिताः भविष्यन्ति, यत्‌ भवतीभिः कथं बृहदभियानं प्रचाल्यमानम् अस्ति। 

अपर्णा :- महोदय! मम नाम अपर्णा-आथ्रेया । अहं बाल-द्वयस्य जननी, भारतीयवायुसेनाधिकारिणः पत्नी चास्मि, तथा चैका passionate storyteller इति भावुका कथाप्रवाचिका अस्मि। महोदय! कथा- कथनस्य आरम्भः पञ्चदशवर्षेभ्यः प्राक् आरब्धः | यदाहं सोफ्टवेयर्-उद्योगे कार्यनिरता आसम् | तदाहं CSR–योजनायां स्वैच्छिक-कार्यार्थं यदा गता तदा सहस्रशो बालेभ्यः कथामाध्यमेन शिक्षा-प्रदानस्य अवसरः प्राप्तः | तथा चैषा कथा, यामहं श्रावयन्ती आसम्, तां मम पितामहीतः श्रुतवती | परञ्च यदा कथां शृण्वन्तः बालाः यां प्रसन्नताम् अहं तेषां आननोपरि अपश्यम्, किं कथयेयं? कियन्तः ते स्मेराननाः आसन्? तस्मिन्नेव समये अहं निर्णीतवती यत् कथाकथनम् मदीय-जीवनस्य लक्ष्यमेकं भविष्यति, महोदय!    

प्रधानमन्त्री :- भवत्याः गणे तत्र काः काः सन्ति?

अपर्णा :- मया सह अस्ति, शैलजासम्पत्महोदया |

शैलजा :- नमस्कारः श्रीमन्‌!

प्रधानमन्त्री :- नमोनमः|

शैलजा :- अहं शैलजासम्पत् वदामि। पूर्वम् अहं शिक्षिका आसम्‌, तदनन्तरं यदा मम सन्ततयः ज्येष्ठाः अभवन्, तदा अहं नाट्यमञ्चन-कर्मणि संलग्ना अभवम्। एवम् अन्ततः कथाकथने सर्वथा सन्तुष्टा अभवम् ।

प्रधानमन्त्री :- धन्यवादः !

शैलजा :- मया सह सौम्या अस्ति ।

सौम्या :-  नमस्कारः महोदय!

प्रधानमन्त्री :- नमस्ते!

सौम्या :- अहं सौम्याश्रीनिवासन् । अहं मनोवैज्ञानिका अस्मि । यदा अहं कार्यं करोमि, बालैः, वृद्धैः सह, तत्र कथाभिः मनुष्यवर्त्तिनः नवरसान् जागरयितुं यते, चर्चाम् अपि करोमि । “Healing and Transformative Story Telling” इति उपचार-परिवर्तनयुतानां कथानां कथनं मम लक्ष्यम्  ।

अपर्णा :- महोदय! नमस्ते

प्रधानमन्त्री :- नमोनमः! 

अपर्णा :- मम नाम अपर्णा-जयशङ्करः । यद्यपि मम सौभाग्यम् अस्ति यत् अहं स्वीयैः मातामह-पितामहेत्यादिभिः सह देशेsस्मिन् पोषिता वर्धिता च अभवम्, अतः गीता-पुराण-रामायणकथाः प्रतिरात्रि न्यासरूपेण प्राप्ताः पुनः Banglore Storytelling Society-सदृशा संस्था अस्ति । अतः मया तु कथाप्रवाचिकया एव भाव्यम् आसीत् । मया सह मम सहयोगिनी लावण्याप्रसादः अस्ति ।

प्रधानमन्त्री :- लावण्ये ! नमस्ते !

लावण्या :- नमोनमः महोदय ! अहम् एका विद्युद्अभियन्त्री, या सम्प्रति कथाप्रवाचिका अजायत । महोदय ! स्वपितामह-मुखेन कथाः शृण्वन्ती अहं ज्येष्ठा अभवम् । अहं वयोवृद्धैः सह कार्यं करोमि । मम विशिष्टा “Roots” नाम्नी परियोजना अस्ति यस्यां तेषां जीवनाधारितानां कथानां निर्माणाय तेषां कुटुम्बिभ्यः सहयोगं करोमि । 

प्रधानमन्त्री :- लावण्यामहोदये! भवत्यै कोटिशः वर्धापनानि । यथा भवत्या कथितं, मया अपि एकवारं ‘मनोगतम्’-प्रसारणे निवेदितमासीत् यत् भवतां परिवारे मातामह-पितामहादयः सन्ति तर्हि तेषां तासाञ्च बाल्यकालवार्ताः कथाः च पृच्छन्तु, अथ च तस्य  छायाङ्कनं ध्वन्यङ्कनं वा कुर्वन्तु । एतत् महल्-लाभाय च भविष्यति- इति अहम् उक्तवान् । प्रमुदितः अस्मि यत् भवतीभिः सर्वाभिः स्वपरिचयः उक्तः, तत्रापि भवतीनां कला वक्तृत्वकौशलञ्च प्रशंसार्हे स्तः, अल्पशब्दैः उत्तमरीत्या च परिचयं दातुं सर्वाः अपि वर्धापयामि । 

लावण्या :- धन्यवादः, महोदय! धन्यवादः!

प्रधानमन्त्री - इदानीं ये श्रोतारः सन्ति 'मनोगतस्य', तेषामपि मनः स्यात्  कथाश्रवणस्य । किम् अहं निवेदयितुं  शक्नोमि यत् भवन्तः एकं द्वे वा कथे कथयन्तु?

अपर्णा-जयशङ्करः  :- अवश्यं महोदय !  इदं तु सौभाग्यम् अस्माकम् "तर्हि आयान्तु कथां शृण्मः एकस्य नृपस्य" ।  नृपस्य नाम आसीत् कृष्णदेवरायः राज्यस्य च नाम आसीत् विजयनगरम्।राजा तु अस्माकं गुणवान् आसीत् । यदि तस्य दोषः कथनीयः एव अस्ति तर्हि सः आसीत् मन्त्रिणा तेनालीरमणेन सह तस्य अगाधप्रेम द्वितीयः च, भोजनप्रीतिः । नृपः प्रतिदिनं भोजनस्य कृते व्यग्रः प्रतीक्षारतः भवति स्म यत् अद्य किमपि स्वादिष्टं निर्मितं स्यात् परं प्रतिदिनं पाचकः तस्मै अरुचिकरं शाकं यथा – तुरई, कोशातकी(लौकी), कद्दू, टिण्डा च भोजयति स्म । एवं हि एकस्मिन् दिवसे नृपः भोजनं कुर्वन् स्थालिकाम् अक्षिपत्, पाचकं च आदिष्टवान् - ‘श्वः रुचिकरं शाकं करोतु अन्यथा मृत्युदण्डं घोषयिष्यामि ।’ पाचकः भयभीतः जातः । इदानीं नूतनेभ्यः शाकेभ्यः कुत्र गच्छेत्? सः धावन् तेनालीरमणस्य पार्श्वे अगच्छत्, वृत्तं च न्यवेदयत् । श्रुत्वा तेनालीरमणः उपायम् अकथयत् । अग्रिमे दिवसे मध्याह्नभोजनाय आगतेन नृपेण पाचकः आहूतः । किम् अद्य नूतनं स्वादिष्टं च निर्मितम् अथ वा मृत्युदण्डं घोषयेयम्? भीतेन पाचकेन शीघ्रं स्थालिका सज्जीकृता, उष्णं भोजनं च परिवेषितम् । स्थालिकायां नूतनं शाकम् आसीत् । उत्साहितः नृपः किञ्चित् शाकम् आस्वादितवान् । अहो! बाढम्! कीदृशं शाकम्! न तुरई-इति शाकम् इव स्वादरहितम्, न च कूष्माण्डवत् मिष्टम् । पाचकेन याः सामग्र्यः स्थापिताः, ताः सम्यक्तया जाताः । अङ्गुलीः लिह्यमानेन नृपेण पाचकः आहूतः, पृष्टः च -  किं शाकम् इदम्? अस्य नाम किम्? यथा शिक्षितः आसीत्, तथैव उत्तरितवान् पाचकः । महाराज! अयं मुकुटधारी बैंगन्-इति किरीटवृन्ताकः अस्ति । प्रभो! भवादृशः एषः अपि शाकानां नृपः अस्ति, अतः अन्यैः शाकैः एतस्मै किरीटः प्रदत्तः । नृपः प्रसन्नः अभवत्, घोषणां च कृतवान् यत् अद्यारभ्य अहं किरीटवृन्ताकस्य एव शाकं खादिष्यामि । अथ न केवलं अहम्, अपि तु अस्माकं राज्ये सर्वत्र वृन्ताकस्य एव शाकं भविष्यति, अन्यशाकं नैव । नृपः प्रजाः च प्रसन्नाः । अर्थात् आदौ तु सर्वे प्रसन्नाः परं काले गते सति प्रसन्नतायाः विषयः अपगतः । एकस्मिन् गृहे वृन्ताकस्य पिष्टं तु अन्यस्मिन् वृन्ताकस्य भर्जितशाकम् । एकस्य गृहे कत्ते-इत्यस्य साम्भरः तु अन्यस्य गृहे वांगी-भात-इति । एकः एव वृन्ताकः कति रूपाणि धरेत्? शनैः शनैः नृपः अपि श्रान्तः जातः । प्रतिदिनं वृन्ताकः । एवं एकस्मिन् दिवसे पुनः पाचकम् आहूय उक्तवान् तर्जितवान् च । कः भवन्तम् अकथयत् यत् वृन्ताकस्य शिरसि किरीटः अस्ति? इतः परं राज्येsस्मिन् कोsपि वृन्ताकं न भक्षयिष्यति । श्वः आरभ्यः वृन्ताकम् अतिरिच्य यं कम् अपि शाकं करोतु, परम् अवधीयताम्, वृन्ताकः न भवेत् । यथा आज्ञापयति महाराज! इति उक्त्वा पाचकः साक्षात् तेनालीरमणस्य पार्श्वे आगच्छत् । तस्य पादयोः प्रणिपत्य उक्तवान् । महोदय!  धन्यवाद:। भवान् मम प्राणान् रक्षितवान्। भवत: युक्त्या इदानीं नृपाय यं  कमपि शाकं भोजयितुं शक्नोमि। तेनालीरमण: हसन् अकथयत् - य: नृपं तोषयितुं न शक्नुयात्, स: कीदृश: मन्त्री इति। एवं प्रकारेण नृपस्य कृष्णदेवरायस्य मन्त्रिण: तेनालीरमणस्य च कथा: निरन्तरं प्रवर्तमाना: सन्ति, जना: अपि शृण्वन्त: भवन्ति। धन्यवाद:।                                            प्रधानमन्त्री :-  भवत्या: कथने तथा स्पष्टता आसीत्, सूक्ष्मेक्षिका आसीत्। चिन्तयामि बाल: वृद्ध: वा य: कोऽपि श्रोष्यति, सर्वदा स्मरिष्यति। सम्यक्तया प्रतिपादितम्। संयोगात् देशे पोषणमास: चलति, अथ भवत्या श्राविता कथा अपि भोजनसम्बद्धा वर्तते। 

प्रधानमन्त्री :- निश्चयेन। भवत्य: कथाप्रवाचिका: अन्येऽपि ये कथाकथयितार: सन्ति, वयं कथं देशस्य युवजनान् महापुरुषाणां मातॄणां भगिनीनां च जीवनगाथाभि: सह योक्तुं शक्नुम:? कथाशास्त्रं कथं प्रचारयितुं शक्नुम:? प्रतिगृहम् उत्तमकथाकथनम्, उत्तमकथा: बालेभ्य: श्रावणम्, उक्तम् एतत् जनजीवनाय सम्पत् भवतु‌। कथम् एतत् वातावरणनिर्माणं स्यात्? अस्यां दिशि मिलित्वा कार्यं करणीयम्। परम् अहं भवतीभि: सह सम्वादं कुर्वन् प्रसन्न: अस्मि। अहं भवतीभ्य: नैका: शुभकामना: प्रयच्छामि। धन्यवाद:।

समूहस्वर: :- धन्यवादाः ।  महोदय!  

       कथा-माध्यमेन, संस्कारसरित् अग्रे वर्धयन्तीनाम् आसां भगिनीनां वक्तव्यानि अस्माभिः श्रुतानि | अहं, यदा ताभिः साकं दूरभाषेण सम्भाषमाणः आसं, एतावद् दीर्घं सम्भाषणम्  आसीत्, तदा मयानुभूतं यत् ‘मन की बात’-इत्यत्र समयसीमा वर्तते, अतः ताभिः साकं मया यद् भाषितम्, तानि सर्वाणि वृत्तानि, NarendraModiApp-इत्यत्र स्थापयिष्यामि – पूर्णाः कथाः अवश्यं तत्र श्रूयन्ताम् | साम्प्रतं प्रसारणे अस्मिन् केवलं लघ्वंशः एव भवतां समक्षं प्रस्तुतः |  अहं साग्रहं कथयिष्यामि यत्  कुटुम्बे प्रतिसप्ताहम्, भवन्तः कथानां कृते किञ्चित् कालं निष्कासयन्तु, आहोस्वित् एवमपि कर्तुं शक्यते यत् परिवारस्य प्रतिसदस्यं प्रतिसप्ताहं  विषयमेकं निर्धारयन्तु, यथा करुणास्ति, सम्वेदनशीलतास्ति, पराक्रमः वा  त्यागः वा  शौर्यम् -  कञ्चन एकं भावं, परिवारस्य सर्वेऽपि सदस्याः, तस्मिन् सप्ताहे, एकमेव विषयोपरि, सर्वेऽपि कथां मृगयिष्यन्ति, तथा च, परिवारस्य सर्वे जनाः सम्भूय एकैकां कथां कथयिष्यन्ति |

         भवन्तः वीक्षिष्यन्ते यत् परिवारे अनुसन्धानस्य कियान् बृहत् निधिः भविष्यति? अनुसन्धानस्य कियत् सुचारु कार्यं भविष्यति? प्रत्येकमपि कियन्तं महान्तम् आनन्दमनुभविष्यति? तथा च, कुटुम्बे नूतनः प्राणसञ्चारः, नवीना चोर्जा आगमिष्यतः, एवमेव वयम् अपरमेकं कार्यं कर्तुं शक्नुमः | अहं कथाश्रावकान् सर्वान् साग्रहं कथयिष्यामि यत् वयं स्वाधीनतायाः पञ्च-सप्तति-वर्ष-पूर्तिम् आयोजयिष्यामः, किं वयम् अस्मदीयासु कथासु पूर्णायाः दासतायाः कालखण्डस्य यावत्यः प्रेरकघटनाः सन्ति, ताः कथासु प्रचारयितुं शक्नुमः! विशेषेण, सप्त-पञ्चाशत्-उत्तर-अष्टादश-शततम-वर्षतः सप्तचत्वारिंशत्-उत्तरोनविंश-शततम-वर्षपर्यन्तं, प्रत्येकमपि लघु-बृहत्-घटनाभिः सम्प्रति अस्मदीयां नूतन-सन्ततिं, कथामाध्यमेन परिचितां कर्तुं शक्नुमः | विश्वसिमि यत् भवन्तः अवश्यं कार्यमिदं करिष्यन्ति | कथाकथनस्य एषा कला,  देशे समधिका सुदृढा भवेत्, अधिकतरं  प्रचारिता स्यात्, सहजा च तिष्ठेत्, अतः आयान्तु वयं सम्भूय सर्वे प्रयतामहि!


    मम प्रियाः देशवासिनः, आगच्छन्तु, कथानां संसारात्, सम्प्रति वयं सप्त-समुद्राणां पारे चलाम, स्वरमिमं शृण्वन्तु! - 

                    “नमस्ते, भ्रातरः भगिन्यश्च, मम नाम सेदू-देमबेले अस्ति | अहं ‘West Africa’-पश्चिम-अफ़्रिका’-द्वीपस्य ‘माली’-ति अन्यतम-देशवासी अस्मि | अहं फेब्रुआरिमासे भारतयात्रावसरे बृहत्तमे कुम्भ्मेलेति धार्मिकोत्सवे सहभागित्वं निर्वोढुं अवसरं लब्धवान् | मह्यम् इदं अतितरां गर्वविषयः | मह्यम् अवसर-प्रदानार्थं, श्रीनरेन्द्रमोदि-महोदयाय भूरिशो धन्यवादः| कुम्भमेलके सहभागीभूय अतितरां सुखम् अनुभूतवान्, भारतस्य संस्कृतिं दृष्ट्वा सुबहु शिक्षणीयं प्राप्तवान् | अहं निवेदयामि यद् अस्मभ्यं पुनः भारतयात्रायाः अवसरः प्रदेयः स्यात्, येन वयम्  इतः परमपि भारतविषये अवगन्तुं पारयिष्यामः | नमस्ते |”    

प्रधानमन्त्री : किमु अस्ति वा आनन्द-प्रदं वृत्तम्? तर्हि अयमासीत् – माली-देशस्य सेदू-देमबेले | मालीदेशः भारताद् सुदूरम्, पश्चिम-अफ्रिकाद्वीपस्य अन्यतमः बृहत्-भूमिबद्धः देश अस्ति | सेदू- देमबेले, माली-देशस्य, Kita-नामकस्य नगरस्य सार्वजनिकविद्यालये शिक्षक अस्ति, सः बालकान् आङ्ग्लभाषां सङ्गीतं चित्राकलादिविषयान् पाठयति शिक्षयति च | परञ्च तस्यापरमेकं अभिज्ञानमस्ति  -  जनाः तं मालीदेशस्य ‘हिन्दुस्तान का बाबू’ इति कथयन्ति, तथा च, एवंविधे सम्बोधने सः अतिशयं गर्वमनुभवति | प्रत्येकं रविवारे अपराह्णानन्तरं सः मालीदेशे होरावधिकं रेडियोकार्यक्रमं प्रस्तौति, कार्यक्रमस्य नामास्ति- Indian frequency on Bollywood songs |  विगतेभ्यः त्रयोविंशवर्षेभ्यः सः कार्यक्रममेनं प्रसारयति | अस्य कार्यक्रमस्य अवसरे सः फ्रान्स्-भाषया सहैव मालीदेशस्य  ‘बमबारा’इति लोकभाषयापि स्वीयां प्रसार्यां टिप्पणीं करोति, तथा च अतितरां नाटकीयरीत्या करोति |  भारतं प्रति तस्य मनसि प्रगाढं प्रेमास्ति | भारतेन साकं तस्य गहन-संयुतेः अपरमेकं कारणं,यत् तस्य जन्म अपि ऑगस्ट्मासे पञ्चदशदिने अभवत् I सेदू-वर्यः द्विहोरात्मकम्  अपरमेकं कार्यक्रमं सम्प्रति प्रतिरविवारं रात्रौ नववादने आरभत, यस्मिन् बॉलीवुड्-इत्यस्य पूर्ण-चलचित्रस्य कथां फ्रान्स्-भाषया बमबारा-इत्यनया च श्रावयति | कदाचित् कस्यचित् भावात्मक-दृश्यस्य विषये भाषमाणः सः स्वयमपि, तस्य श्रोतारश्चापि युगपदेव रुदन्ति | सेदू-वर्यस्य जनकः एव भारतीयसंस्कृतेः विषये तं प्राबोधयत् | तस्य जनकः, चलचित्र-प्रेक्षागृहे कार्यनिरतः आसीत् यत्र भारतीयानि चलचित्राणि प्रदर्श्यन्ते स्म | ऐषमः ऑगस्ट्मासे पञ्चदशदिने सः हिन्दीभाषायां दृश्याङ्कनं विधाय भारतीयानां कृते स्वतन्त्रतादिवसस्य शुभकामनाः व्याहरत् | अद्य, तस्य बालाः भारतस्य राष्ट्रगानम् सरलतया गायन्ति | भवन्तः एतद्-दृश्याङ्कनपटलद्वयम् अवश्यम् अवलोकयन्तु, तथा च तस्य भारतप्रेमाणम् अवश्यम् अनुभवन्तु | सेदू-वर्यः यदा कुम्भमेलकं आगच्छत्, तस्मिन् समये तत्-प्रतिनिधिमण्डलस्य सदस्यत्वेन आसीत्तदा तमहम् अमिलम्,   भारतस्य कृते तस्य एवंप्रकारिका संसक्तिः, स्नेहः, प्रेमा च वस्तुतस्तु अस्माकं सर्वेषां कृते गर्वविषयः अस्ति |

          मम प्रियाः देशवासिनः अस्माकं देशे प्रोच्यते यत् यो भूम्याः यावत् सम्पृक्तो विद्यते, सः प्रबलेsपि चक्रवाते तावत् दार्ढ्येन स्थास्यति। कोरोना-महामार्याः अस्मिन् कठिने समये अपि अस्माकं कृषिक्षेत्रम् अस्माकं कृषकाश्च अस्योदारहणरूपाः विद्यन्ते। सङ्कटस्य अस्मिन् काले अस्माकं देशस्य कृषिक्षेत्रेण पुनरपि निजशक्तिः प्रदर्शिता। 

           सखायः, देशस्य कृषिक्षेत्रम्, अस्माकं कृषकाः, अस्माकं ग्रामाश्च आत्मनिर्भर-भारतस्य आधाररूपाः । एते प्रबलाः भविष्यन्ति चेत् आत्मनिर्भरभारतस्य आधारसंरचना सबला भविष्यति। विगते समये एतैः आत्मानं नैकेभ्यो बन्धनेभ्यो मुक्तिः प्रदत्ता, विविधाः भ्रान्त-धारणाः त्रोटयितुं प्रयासाः विहिताः। मया नैकेषां कृषकाणां पत्राणि प्राप्यन्ते, कृषक-सङ्घटनैः साकं संवादो विधीयते, ये कथयन्ति यत् कृषिक्षेत्रे नूतनायामाः उपयुज्यन्ते। कथं कृषिकर्मणि परिवर्तनानि जायन्ते? मया तेभ्यः श्रुतं यच्च अनेकेभ्यः श्रुतम्, तद् भवद्भयः श्रावयितुमिच्छामि । अद्य ‘मन की बात’- मनोगतमिति प्रसारणे तेषां कृषकाणां कान्श्चन विचारान् विज्ञापयामि। हरियाणायाः सोनीपत-जनपदे अस्माकं कृषकभ्राता श्रीकंवर-चौहाणो निवसति। अमुना प्रतिपादितं यत् कथम् एकस्मिन् समये तस्मै भण्डारण-स्थानात् बहिः शाकानि फलानि च विक्रेतुं काठिन्यं भवति स्म। यदि सः भण्डारण-स्थलाद्बहिः शाक-फलानि विक्रीणाति स्म, तदा कदाचित् शाक-फलानि समेत्य तदीय-वाहनमपि जडीक्रियते स्म । परं चतुर्दशोत्तर-द्विसहस्रतमे वर्षे शाकं फलानि च APMC- Act इति विधेः पृथक्कृतानि, अनेन तस्मै अन्येभ्यः कृषकेभ्यः च बहुलाभः अभवत् । चतुःवर्षपूर्वं तेन ग्रामस्य कृषकमित्रेण साकं कृषकोत्पादक-समूहः स्थापितः। अद्य ग्रामस्य कृषकाः मधु-स्तोमस्य लघु-स्तोमस्य च कृषिं कुर्वन्ति। तेषाम् उत्पादनं दिल्ल्याः आज़ादपुरमंडी-इत्यत्र बृहत्व्यापार-शृङ्खलायां साक्षात् पञ्च-तारक-भोजनावासालयेभ्यः वसतिगृहेभ्यश्च प्रेष्यते । ग्रामस्य कृषकाः अनया रीत्या प्रति-प्रहेलभूमौ प्रतिवर्षं त्रिलक्षरूप्याधिक-लाभमवाप्स्यन्ति। न केवलमिदमेव अपितु अस्य ग्रामस्य षष्ट्यधिक-कृषकैः net house इति जालगृहं, Poly House इति च निर्मीय शाकानां विविध-प्रकारकोत्पादनं विधाय प्रति-प्रहेलभूमौ प्रतिवर्षं दशलक्षतो द्वादश-लक्षरूप्याकाणां लाभावाप्तिः विधीयते। भवन्तः जानन्ति यदेतेषां पार्श्वे किमस्ति पृथक्, निजशाकफलानि कुत्रचिदपि कमपि विक्रेतुं ते शक्नुवन्ति | इयमेव शक्तिः तेषाम् प्रगतेः आधाररूपा वर्तते। इदानीम् इयमेव शक्तिः देशस्य अन्यैरपि कृषकैः अवाप्ता।  न केवलं फल-शाकेभ्यः एव निज-कृषिक्षेत्रे यत्किमपि धान्यम् उत्पादयिष्यन्ति तद्धान्यं स्वेच्छया यत्राधिक-लाभावाप्तिः स्यात्, तत्र विक्रेतुं स्वतन्त्रता अधिगतास्ति।  

          सखायः, त्रि-चतुर्वर्ष-पूर्वमेव महाराष्ट्रे शाक-फलानि APMC- इत्यतो बहिः कृतानि । अनेन परिवर्तनेन कथं महाराष्ट्रस्य शाकफलोत्पादकानां कृषकाणां स्थितिः परिवर्तिता, अस्योदाह- रणमस्ति Sri Swami Samarth Farmer’s producer company limited – इति |  अयं कृषकाणां समवायो विद्यते । पुणेनगरे मुम्बय्यां च कृषकाः साप्ताहिकविपणीं स्वमेव चालयन्ति। अत्र विपणिषु सप्ततेः ग्रामाणां सार्धचतुस्सहस्रं कृषकाणामुत्पादनानि साक्षात् विक्रेष्यन्ते। कोsपि मध्यस्थो नैव वर्तते । ग्रामीण-युवानः साक्षात् विपणौ कृषिकर्मणि विक्रयप्रक्रियायां च सम्मिलिताः भवन्ति । अस्य साक्षात्लाभः कृषकेभ्यो भवति । ग्रामीणयुवभ्यः आजीविकायां लाभावाप्तिः भवति।  

          एकमन्यमुदाहरणं तमिलनाडोः थेनि-जनपदस्य वर्तते । अत्र तमिलनाडुकदली- कृषकोत्पाद-समवायो विद्यते। सामान्यतया तु अयं कृषकोत्पादसमवायः परं वास्तविकरूपेण कृषकैः सम्भूय स्वस्य समूहो निर्मितः। विशेषसरला व्यवस्थास्ति, समूहस्य केवलं पञ्च वा षड्वर्षपूर्वं निर्मितः समूहः। अनेन कृषक-समूहेन lockdown इति सञ्चाररोध-समये परिपार्श्ववर्तिभ्यः ग्रामेभ्यः बृहन्मात्रायां शाक-फलानि च विक्रीणीतानि, अथ च, चेन्नईनगरे शाकफलसंयोजनं प्रदत्तम्। भवन्तो विचारयन्तु, कति-युवभ्यः तैः आजीविकावसरः प्रदत्तः? रुचिकरमिदमस्ति यत् कोsपि मध्यस्थः अस्यां प्रक्रियायां नासीत्। कृषकेभ्यो लाभः, उपभोक्तृभ्यश्चापि लाभः। एवमेव लखनऊनगरस्य विपण्यामपि मध्यस्थजनमुक्त-व्यापारं विधाय कृषकैः यथेष्टलाभावाप्तिर्विहिता। 

         सखायः,  गुजराते बनासकांठाजनपदस्य रामपुराग्रामे इस्माइल-भ्राता कृषकः अस्ति। तदीया कथा अपि चित्ताह्लादिकास्ति। इस्माइल-भ्राता कृषिं कर्तुमिच्छति स्म। परं यथा इदानीं चिन्त्यते तथैव इस्माइल-भ्रातुः कुटुम्बिनः अपि कथयन्ति स्म यदसौ कीदृशं वाचं वदति? इस्माइल-भ्रातुः पिता कृषकः आसीत्। परं कृषिकर्मणि तस्मै सर्वाधिकहानिरेव भवति स्म। अतः पित्रा अपि असौ न्यक्कृतः। परं कुटुम्बिनाम् अनिच्छयापि अमुना निर्धारितं यदसौ कृषिम् एव करिष्यति। इस्माल-भ्रात्रा विचारितमासीत् यत् कृषिकर्म हानिपरमेवास्ति इति धारणाम् परिवर्तयिष्यति। तेन कृषिः आरब्धा परं नूतनविधिना। तेन drip-इति विशेषसेचनप्रक्रियया आलुकानि उत्पादितानि । अद्य इस्माइल-भ्रातुः आलुकानि सविशेषं विज्ञायन्ते। सः विशेषालुकानि उत्पादयति। इस्माइल-भ्राता इमानि आलुकानि साक्षात् बृहत्समवायेभ्यो विक्रीणाति। मध्यस्थानां  नामैव नास्ति। परिणामः - भूरि लाभावाप्तिः । इदानीं तु तेन पितुः सर्वम् ऋर्णं प्रत्यावर्तितं परिशोधितञ्च । सर्वाधिक-हर्षस्य विषयोsयं यदिदानीम् इस्माइल-भ्राता क्षेत्रस्य शताधिकानां कृषकाणां साहाय्यमपि विदधाति। तेषां जीवनपि परिवर्तयति ।  

             वयस्याः,  अधुना वयं कृषिकर्मणे यावत् आधुनिकविकल्पं दास्यामः तावत् कृषिः समेधिष्यते। कृषिकर्मणि  नूतनविधयः नूतनाविष्काराश्च समावेश्यन्ते। मणिपुरवास्तव्या विजयशान्तिः अभिनवप्रयोगबलेन चर्चापथमागता। तया कमलनालेन तन्तुनिर्माणस्य कार्यमारब्धम्। अद्य तस्याः अभिनवप्रयोगेण कमलोत्पादने तन्तूद्योगे च नूतनपथनिर्माणमभवत्। 

              मम प्रियाः देशवासिनः, अहं भवद्भ्यः ऐतिह्यभागे नेतुमिच्छामि। शतवर्षप्राचीना घटनास्ति। नवदशोत्तरैकोनविंश-शततमे वर्षे आङ्ग्लशासकैः जलियांवालाबाग-स्थले निर्दोषजनानां नृशंसहत्या कृतासीत्। नरसंहारस्य अनन्तरं द्वादशवर्षीयो बालकः घटनास्थलमुपगतः। असौ प्रसन्नचित्तः चञ्चलश्च बालः परं जलियांवाला-बाग-स्थले तेन यद्दृष्टं तत् तदीयचिन्तनात्परमासीत्। सः इदं विचार्य स्तब्धः आसीत् यत्कोsपि एवं निर्दयी कथं भवितुं शक्नोति? असौ सरलो बालकः क्रोधाग्नौ दहति स्म। तस्मिन् एव जलियांवालाबाग-स्थले अमुना आङ्ग-शासकान् विरुध्य युद्ध-प्रतिज्ञा कृता। किं भवन्तो जानन्ति अहं कस्योल्लेखं करोमि? आम् अहं वीरविक्रमस्य भगतसिंहस्य चर्चां करोमि। श्वः सेप्टेम्बरस्य अष्टाविंशे दिने वयं वीरव्रतिनो भगतसिंहस्य जयन्तीम् आमानयिष्यामः। अहं सर्वैः देशवासिभिः साकं शौर्यस्य वीरतायाश्च प्रतिमूर्तिं वीरव्रतिनं भगतसिंहं नौमि। किं भवन्तः कल्पयितुं पारयन्ति यत् एकं शासकदलं यस्य शासनं जगतः अधिसङ्ख्यस्थलेषु आसीत्, यस्य विषये प्रोच्यते स्म यत् तेषां शासनस्य सूर्य अस्तन्न गच्छति स्म, एतावत् शक्तिसम्पन्नं शासनं वयसा त्रयोविंशवर्षीय-युवकात् भयभीतङ्गतम्? वीरो भगतसिंहः पराक्रमेण साकं विद्यासम्पन्नः चिन्तनशीलश्चासीत्। निजजीवनचिन्तां विहाय भगतसिंहेन तदीयक्रान्तिवीर-सहयोगिभिश्च एतावन्ति शौर्यसम्पन्नानि कार्याणि सम्पादितानि येषां देशस्य स्वातन्त्र्ये महत्त्वपूर्णं योगदानमवर्तत। वीरस्य भगतसिंहस्य जीवनस्य अनन्यतमा कथास्ति यदसौ समूहकार्ये विश्वसिति स्म। लाला-लाजपतरायं प्रति तदीयसमर्पणं भवतु, उत वा  चन्द्रशेखर-आज़ाद-सुखदेव-राजगुरुभिः समेत्य क्रान्तिकारिभिः सह तस्य आत्मीयता,  तेभ्यः कदापि वैयक्तिक-गौरवस्य महत्त्वं नासीत् । ते यावत् जीवितवन्तः केवलम् एकाभियानाय तदर्थमेव बलिदानं कृतम्। तदभियानमासीत् भारताय अन्यायात् आङ्ग्लशासनाच्च मुक्तिप्रदानम्। मया ‘नमोएप्’ – इत्यस्मिन् तन्त्रे हैदराबादस्य अजय- एस्.जी.वर्यस्य एका टिप्पणी पठिता । अजय-वर्यः लिखति - साम्प्रतं युवानः कथं भगतसिंहसदृशं भवितुं न शक्नुवन्ति?  पश्यन्तु! वयं भगतिसिंहाः भविष्यामो न वा परं भगतसिंहसदृशं देशप्रेम, देशाय किमपि कर्तुं दृढेच्छाशक्तिस्तु अवश्यम् अस्माकं हृदये स्यात्। वीराय भगतसिॆहाय अयमेव वास्तविक-श्रद्धाञ्जलिः भविष्यति। वर्षचतुष्टयपूर्वम् अयमेव समयः अवर्तत, यदा surgical strike-इति लक्ष्य-केन्द्रिताक्रमणस्य समये जगता अस्माकं वीराणां पराक्रमशौर्यनिर्भीकताः दृष्टाः। अस्माकं वीरभटानां एकमेव लक्ष्यमासीत् यत् येन केनापि प्रकारेण मातुः भारत्याः गौरवसम्मानरक्षा भवेत् । तैः कदाचिदपि निजजीवनचिन्ता नैव कृता। ते कर्तव्यपथि दार्ढ्येन स्थिताः अस्माभिश्च दृष्टं यत् ते विजयमवाप्य प्रत्यावर्तिताः। भारतमातुः गौरवं समेधितम्। 

                    मम प्रियाः देशवासिनः, आगामि-दिनेषु वयं देशवासिनः महतः  जनान् स्मरिष्यामः, येषां भारतस्य निर्माणे अभूतपूर्वं योगदानमस्ति। ओक्टोबर-मासस्य द्वितीये दिने अस्माकं पवित्रं प्रेरणादायकं च दिनं भवति। अयं दिवसः भारतमातुः पुत्रद्वयस्य महात्मगान्धिनः लालबहादुरशास्त्रिणः च स्मरणदिवसो विद्यते। 

                   पूज्यबापूवर्यस्य विचारादर्शाश्च पूर्वापेक्षया अद्य अधिकप्रासङ्गिकाः विद्यन्ते। महात्मगान्धिनो यदार्थिकचिन्तनमासीत्। यदि तत्भावं स्वीकृतमवर्तत, तत्पथम् अचलत् चेत् अद्य आत्मनिर्भरभारताभियानस्यावश्यकता नाविद्यत। गान्धिनः आर्थिकचिन्तने भारतस्य प्रतिरोम समाहितमासीत्। भारतस्य सुगन्धिरासीत्। बापू-वर्यस्य जीवनम् अस्मान् स्मारयति यत् अस्माभिः सुनिश्चेतव्यम् यदस्माकं कार्यम् ईदृशं भवेत् येन निर्धनजनस्य लाभः स्यात्। तत्रैव शास्त्रिवर्यस्य जीवनमस्मान् विनम्रतां सरलतां च शिक्षयति। ओक्टोबर-मासस्य एकादशदिनमपि अस्मभ्यं विशेषं भवति। अस्मिन् दिने वयं भारतरत्नविभूषितस्य लोकनायकजयप्रकाशवर्यस्य जयन्त्यवसरे तं स्मरामः। अमुना लोकतान्त्रिक-मूल्यानां रक्षणाय महत्त्वपूर्णा भूमिका निर्व्यूढा। वयं भारतरत्नसम्मानितस्य नानाजी देशमुखस्य जयन्त्यवसरे ओक्टोबर-एकादशे तस्मै स्मरणाञ्जलिं यच्छामः। नानाजीदेशमुखः जयप्रकाशनारायणस्य निकटस्थः आसीत्। यदा जे०पी०वर्यः भ्रष्टाचारं विरुद्ध्य युध्यति स्म, तदा पटनानगर्यां तस्योपरि प्राणघातकप्रहारः अभवत्, तदा नानाजीदेशमुखः सम्मुखमागतः प्रहारं च स्वीकृतवान्, अनेन नानाजी भृशं व्रणितः परमसौ जे.पी.वर्यस्य प्राणरक्षणे सफलो जातः। अस्मिन् ओक्टोबरमासस्य द्वादशे दिने राजमातुः विजयाराजे सिन्धियावर्यायाः अपि जयन्ती अस्ति। तया निजं सम्पूर्णमपि जीवनं जनसेवायै समर्पितम्। सा राजपरिवारादासीत्, तस्याः पार्श्वे सम्पत्तिः, शक्तिः, अन्यसंसाधनानि च पूर्णमात्रायामासन्। तथापि, तया निजजीवनं मातृवत्- वात्सल्यभावेन जनसैवायै समर्पितम्। तस्याः हृदयम् औदार्यपूर्णमवर्तत। अस्मिन् वर्षे तस्याः जन्मशताब्द-वर्षसमारोहस्य समापनदिवसः भविष्यति। यदाहं राजमातुः विषये वच्मि तदाहं भावपूर्णामेकां घटनां स्मरामि। एवं तु तेन साकं बहुकालं यावत् कार्यावसरो लब्धः, नैकाः घटनाः सन्ति। परमहमिच्छामि यदेकां घटनाम् अत्र अवश्यं प्रकटयेम। कन्याकुमार्याः काश्मीरं यावत् वयं  एकतायात्राम् आरभ्य प्रस्थिताः। डॉ.मुरलीमनोहरजोशिवर्यस्य नेतृत्वे यात्रा आरब्धा। डिसेम्बर-जान्युअरिमासयोः शैत्यमवर्तत। वयं मध्यरात्रौ द्वादशवादने एकवादने वा मध्यप्रदेशस्य ग्वालियरनगरं निकषा शिवपुरीं सम्प्राप्ताः। निवासस्थानमुपेत्य स्नानादिकं विधाय अग्रिमदिनस्य सज्जा क्रियते स्म यतोहि आदिवसं परिश्रान्ताः वयम्। रात्रौ द्विवादने अहं स्नानादिकं विधाय निद्रायै सज्जः आसम्। केनापि द्वारि ताडनं कृतम्। मया द्वारमुद्घाटितम्। दृष्टं च यद्-द्वारि  राजमाता उपस्थितास्ति। शीतकालीना रात्रिः, राजमातरं सम्मुखं दृष्ट्वा अहं विस्मितः । मया प्रणामं विधाय पृष्टं, मातः! अर्धरात्रौ!, तयोक्तं पुत्र! मोदिन्! दुग्धं पिब,  इदम् ऊष्णमस्ति, पीत्वा शयनं करोतु। हरिद्रायुक्तं दुग्धं माता स्वमेव आनीतवती। अस्तु, परम् अग्रिमे दिने मया ज्ञातं - सा न केवलं मह्यम् अपितु अस्माकं यात्राव्यवस्थायां ये त्रिंशत् चत्वारिंशज्जनाः, येषु चालकाः अपि आसन्, कार्यकर्तारश्चासन्, समेभ्यः दुग्धं दत्तवती । इदमस्ति मातुः वात्सल्यम्! वात्सल्यं किं भवति? अहं तां घटनां कदापि विस्मर्तुं नैव क्षमः। इदमस्माकं सौभाग्यमस्ति यदेताभिः महद्-विभूतिभिः अस्माकं भारतधरा त्यागतपस्यादिभिः सिञ्चितास्ति। आगच्छन्तु, वयं मिलित्वा एतादृश-भारतनिर्माणं करवाम, यस्मिन् महापुरुषाः गौरवमनुभवेयुः । तेषां स्वप्नानि वयं सङ्कल्पयाम ।

            मम प्रियाः देशवासिनः, कोरोना-कालखण्डेsस्मिन्, अहं पुनरेकवारं भवतः स्मारयिष्यामि, मुखावरणं नूनं धारयन्तु, मुखाच्छादकं विना बहिः नैव गच्छन्तु | ‘दो गज़् की दूरी’- इत्येष नियमः,  भवन्तमपि भवतां कुटुम्बानि चापि संरक्षितुं शक्नोति | एते केचन नियमाः सन्ति, कोरोना-सङ्क्रमणं विरुद्ध्य, युद्धस्य आयुधानि सन्ति, प्रत्येकमपि नागरिकस्य जीवनं रक्षितुं दृढ-साधनानि वर्तन्ते | तथा च, वयं नैव विस्मराम, यावत्पर्यन्तम् औषधं नैव, तावत्पर्यन्तं शैथिल्यं नैव | भवन्तः स्वस्थाः तिष्ठन्तु, भवतां कुटुम्बानि स्वस्थानि भवन्तु, एताभिः शुभकामनाभिः साकं भूयान्सः धन्यवादाः | नमस्कारः |  

                   [भाषान्तरं – सर्वश्री-पुरुषोत्तमशर्म-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]

                                    Email- baldevanand.sagar@gmail.com