OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 12, 2017

 अन्तरिक्षमलिनीकरणम्-सम-विषम-संख्या सम्प्रदायं कारयितुं देहली-सर्वकाराय विशेषानुमतिः।
नवदिल्ली> अन्तरिक्षमलिनीकरणम् अत्यधिकं बाधमाने देहलीनगरे स्वीयवाहनानां उपयोग विषये सम-विषम-संख्या सम्प्रदायं कारयितुं देहली-सर्वकारस्य कृते देशीय-हरित- ट्रिब्यूणल् विशेषानुमतिम् अदात्। नवंबर् मासस्य त्रयोदश दिनादारभ्य  सप्तदशदिनाङ्क पर्यन्तमेव नियमः अयं पाल्यते। प्रातः अष्टवादनादारभ्य सायम् अष्टवादन-पर्यन्तमेव यानानि नियन्त्रितानि। वाहनानां संख्यासु विद्यमानानां अन्तिम संख्यामाधारीकृत्यैव सम-विषम-संख्या सम्प्रदायः भविष्यति। दिन-व्यवहित-दिनेषु एव सम-विषम-संख्यायुतानि यानानि पथि प्रवेश्यन्ति।
             सि- एन् - जि इत्यनेन प्रर्वर्तमानानि वाहनानि,  रुग्णवाहनानि,(आम्बुलन्स्) अग्नि शामकसेना-वाहनानि च नियमादस्मात् बाहीकानि भविष्यन्ति। इतः प्रागपि देहल्यां नियन्त्रणमिदमागतमासीत् । तदानीं द्विचक्रिकारूढान् सर्वकार्योद्योगिनः, स्त्रीजनान् च परित्यजन्‌ । किन्तु इदानीं एतेषामपि  नियमः अयं अनुवर्तते एव। नगर्यां वायो: गुणाः अत्यन्तं नष्टा: चेदपि कुतः नियन्त्रणमिदं कारयितुं विलम्बो जातः इति विषये, नियन्त्रणात् किमर्थं बहून् यात्रिकान् परित्यजन्ति इति विषये च देशीय-हरित-ट्रिब्यूणल् सर्वकारं प्रति प्रश्नयन्ति।
        देहली नगरस्य समीपस्थ प्रवेशानाञ्च वायु मलिनीकरणस्य न्यूनीकरणाय सम-विषम-संख्या संप्रदायः पर्याप्तो वा इति विषयमधिकृत्य चर्चाकरणाय आहूतात्   विशेषसमावेशात् पश्चादेव विषयो-यं तैः प्रकटीकृतः ।       नियन्तणविषये पुनः चर्चाकरणाय अद्यापि सायं त्रिवादने विशिष्टसमावेशः आयोजितः अस्ति।