OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 4, 2018

गुजरातसर्वकारेण संस्कृतसाहित्य-ज्ञानवर्धकं जीवन्त-प्रश्नोत्तरी प्रतियोगिता  आयोजिता ।
          G.C.E.R.T - गांधीनगस्य, ESSAR OIL - जामनगरस्य च उपलक्ष्ये जनपद-शिक्षण-प्रशिक्षण-भवन-जूनागढपक्षत: (DIET) आयोजितं जूनागढ-गीर सोमनाथजनपदस्तरीय शिक्षणक्षेत्रे शैक्षणिक: नवीकरण-प्रदर्शनं (educational innovation fair-2018) गीर सोमनाथजनपदस्य वेरावलप्रान्तस्य इणाजग्रामे गुजरातसर्वकारेण संचालित: 'इणाज मॉडल स्कूल' इति विद्यालये गतदिने समायोजित: । सर्वप्रथमं कार्यक्रमस्य आरम्भ: अभवत् । अनन्तं मञ्चोपरि नवीकरणस्य लघु-चलचित्राणां प्रदर्शनम्। अस्यां नवीकरण-प्रदर्शने संस्कृतभाषाया: प्रचार-प्रसारार्थं (innovation fair-2018) गीर सोमनाथजनपदस्य वेरावलप्रान्तस्य सर्वकारीय श्रीकाजली प्राथमिक-शालाया: शिक्षक: श्री जगदीश: डाभीमहोदयेन जनसञ्चारमाध्यमोपरि संस्कतसाहित्यज्ञानवर्धकं जीवंत-प्रश्नोत्तरी प्रतियोगिता (सोशल मिडिया फेसबुक) पर लाइव प्रश्नोत्तरी प्रतियोगिता द्वारा संस्कृत शिक्षण) प्रतिरूप-परियोजना स्वरुपे प्रस्तुता जाता । अस्मिन् जनपदस्तरीय प्रदर्शने गीर सोमनाथजनपदस्य ३३ नानाविध-प्रतिरूप-परियोजना: प्रस्तुता: जाता:। इत्यस्मिन् समारोहे आयोजकपक्षत: जगदीश: डाभीमहोदयेन सह परियोजना प्रस्तुतं कृतवता: ३३ शिक्षकान् प्रमाणपत्रं दत्त्वा सम्मानितं कृतवान्। अस्मिन्  समारोहस्य सुव्यवस्थितम् आयोजनं जूनागढजनपद-शिक्षण-प्रशिक्षण-भवनस्य प्राचार्य: श्री वि.एम. पंपाणियामहोदय: प्राचार्य: मुकेश: धारैयामहोदयश्च  कृतौ । जगदीश: डाभीमहोदयेन प्रस्तुता परियोजना संस्कृतसाहित्य-ज्ञानवर्धकं जीवंत-प्रश्नोत्तरी प्रतियोगिता प्रत्येक-रविवासरे रात्रौ नववादनत: दशवादन-पर्यन्तम् आमुखपटलस्य (फेसबुक) संस्कृतं जनभाषा भवेत् इति समूहोपरि प्रचलन् अस्ति । 
   अस्या: प्रतियोगिताया: आयोजक: गुजरातत: जगदीश: डाभी अस्ति । सहायका: पण्डितः दीपकशास्त्री (राजस्थानम्), अमित: ओली (उत्तराखंड:), मञ्जु भट्टाचार्य: (महाराष्ट्र:), डॉ. सन्ध्याठाकुर: (उत्तरप्रदेश:), डॉ. योगेशव्यास: (राजस्थानम्), शिवांगी शर्मा (देहली), प्रकाश रंजन मिश्र: (बिहार:) च सन्ति ।
       अस्या: प्रतियोगिताया: पुरस्कारस्य प्रायोजकाः सुरतत: (गुजरातम्) दैनिक-संस्कृतसमाचारपत्रं 'विश्वस्य वृत्तान्तम्', हरिद्वारत: भुवनेश्वरी बालकुमारी ट्रस्ट, जयपुरत: भारती संस्कृत-मासपत्रिका च सन्ति ।