OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 18, 2018

पि एन् बि धनापहरणं - त्रयः निगृहीताः। 
          मुम्बई > पञ्चाब् नाषणल् वित्तकोशं वञ्चयित्वा वज्रव्यापारिणा नीरव् मोदिना एकादशसहस्राधिकं कोटिरूप्यकाणि अपहृतानीति विषये वित्तकोशस्य पूर्वाधिकारिणम् अभिव्याप्य त्रयः जनाः निगृहीताः। वित्तकोशस्य भूतपूर्वः उपप्रबन्धकः गोकुल नाथषेट्टी, एकजालकस्य नियन्ता मनोज् खाराट्, नीरव् मोदिनः कार्यकर्ता हेमन्त भट्टश्च निगृहीताः वर्तन्ते। नीरव मोदिने प्रमाणानि विना 'बयेर्स् क्रडिट्' नामकस्य  ऋणानुकूलपत्रदानस्य मुख्यसूत्रधारो भवति गोकुलनाथःइति सि बि ऐ संस्थया निगदितम्।