OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, February 6, 2018

मालद्वीपे आपत्कालघोषणा। 
         माले> राजनैतिक-सन्निग्धता अनुवर्तमाने सति मालद्वीपे राष्ट्रपतिना अब्दुल्लायमीन् इत्याख्येन आपत्कालघोषणा ख्यापिता। पञ्चदश दिनपर्यन्तमेव घोषणाकालः। सन्दर्भेस्मिन् भारतीयैः जाग्रता पालनीया इति विदेशकार्य मन्त्रालयेन उक्तम्I मालद्वीप सन्दर्शनम् इदानीं मास्तु इति मन्त्रालयेन उपदिष्टाः।