OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 21, 2016

जाट्ट् प्रक्षोभाग्निः - हरियानायां ५ हताः।
नवदिल्ली - आरक्षणविषये जाट्समुदायगतैः क्रियमाणः प्रक्षोभः अनियन्त्रितरीत्या अक्रमासक्तः अभवत्। सुरक्षाकार्यकर्तृभिः ५ प्रक्षोभकाः हताः। प्रक्षोभरूक्षितेषु ९ जनपदेषु स्थितिनियन्त्रणाय सैन्यस्य साहाय्यम् अपेक्षितम्। रोथक्, भिवानि जनपदयोः सैनिकाः पथसञ्चलनं कृतवन्तः। प्रक्षोभकैः सर्वकारस्थापनानि अग्निसात्कृतानि। रेल्यानसहितं सर्वाणि गतागतानि स्थगितानि। जनजीवनं दुस्सह अभवत्। जट्समुदायगतान् सर्वान् ओ बि सि विभागे अन्तर्भावयितुमेव प्रक्षोभः कल्पितः।

संगणकीय-भाषाविज्ञान-क्षेत्रे संस्कृतम्।
  1. नवदिल्ली >"दिल्ली-विश्वविद्यालयस्य दक्षिण-परिसरस्थस्य श्रीमोतीलाल-नेहरू-महाविद्यालयस्य संस्कृत-विभागेन आयोजिते एकस्मिन् संस्कृत-कार्यक्रमे बहुविधाः प्रकल्पाः समुपकल्पिताः|कार्यक्रमारम्भे जवाहरलाल-नेहरुविश्वविद्यालयस्य संस्कृताध्ययन-विशिष्ट-केन्द्रस्य अध्यक्षेण प्राचार्येण गिरीशनाथ-झा-वर्येण पी-पी-टी-माध्यमेन संगणकीय-भाषाविज्ञान-क्षेत्रे संस्कृतमाधृत्य विधीयमानानि कार्याणि विशदीकृतानि | अवसरेsस्मिन् तेन एतदपि प्रदर्शितं यत् न केवलं भारतीय-भाषाणाम् , अपि च, कासाञ्चन योरोपीय-भाषाणामपि पोषिकास्ति पाणिनीया संस्कृत-भाषा | आधुनिकं संगणकीय-भाषाविज्ञानं साम्प्रतं सन्दर्भेsस्मिन् अनेकाः शोध-परियोजनाः अङ्गीकृत्य सुबहूनि कार्याणि विदधाति | एतदनु स्पर्धा-द्वयं [श्लोकोच्चारणं प्रश्नमन्चेति] सम्पन्नम्, ययोः विभिन्न-महाविद्यालयीयच्छात्रैः छात्रीभिश्च सोत्साहं सहभागित्वं निर्व्यूढम् | निर्णायक-त्रयेण [बलदेवानन्द-सागर-पंकजमिश्र-विकासेति] स्पर्धाद्वयस्य निर्णायक-भूमिका अनुष्ठिता | समग्रमपि कार्यक्रम-संयोजनं डो.कौशल्या-महाभागया सुष्ठुतया सम्पादितम् |"