OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 1, 2016

 चन्दिरमातुलः भूमातुः सोदरः!  

लोसाञ्चल्स् > चन्द्रस्य जननमधिकृत्य नूतनसिद्धान्तः कालिफोर्णियायाः लोसाञ्चल्स् विश्वविद्यालयस्य (UCLA) गवेषकाः। भूमेः जननात्परं दशकोटि वर्षानन्तरं भूमिः- तेया नाम ग्रहयोः परस्परसंघट्टनेनैव जातः चन्द्रः इति जानीमःI किन्तु (४५Digree) पार्श्वतः  आसीत् तत् आघातम् इत्यासीत् विश्वासः। किन्तु सक्षात् पुरतः जायमानसङ्घट्टनेनैव एतादृशः परिणतिरभवत् इति गवेषकाः विवदन्ति। ४५० कोटि वर्षात्‌ पूर्वं जातेषु चन्द्रशिलोच्छयेषु विद्यमानेषु प्राणवायोः रासघटना भूमेः शिलाेच्छयघटनायाम्  यथा तथा समाना एव। भूरिः भूमेः भागः एव भवति चन्द्रः  इति वैज्ञानिकाः वदन्ति।

पाकिस्थानस्य ISI - IS भीकरदलेन सह वर्तते।
नवदिल्ली >भारतान् विरुध्य आक्रमणाय पाकिस्थानीय गुप्तदलः इस्लामिक स्टेट्‌ भकरेण सह संयुक्तप्रवर्तनाय निश्चितःI तदर्थम् ऐ.एस् भीकरः अबूबक्कर् अल् बाग्दादिना सह आक्रमणाय सज्जीकृताः सन्ति।
लष्कर ई तोयिब, जय्षे मुहम्मद्, सिमि, इन्ट्यन् मुजाहिद्, जमा अत्ते, उद्‌ -दाव एतेभ्यः भीकरदलेभ्यः भारतं प्रवेष्टुं साहाय्यः  ऐ.एस्.ऐ दलेन ४० वर्षकालं यावत् क्रियते। अधुना इराक् राष्ट्रस्थान्  ऐ. एस् दलान् सीमानमुल्लंख्य प्रेषयितुं प्रयतते च।
 राष्ट्रान्तरसम्मर्देन भीकरदलान् विरुध्य निशितप्रतिकाराय पाकिस्थानः निर्बन्धितः इत्यनेन एव ऐ.एस्‌ दलेन साकम्  एतादृशः सख्यः।

स्टार्ट् अप् - कर्मदानानां शुभारम्भः

न्यूदिल्ली >   स्टार्टप् न केवलं ऐ टि मण्डलस्य कृते  । स्टार्टप् द्वारा  बहवः अवसराः उपलभ्यन्ते इति प्रधानमन्त्री नरेन्द्रमोदिवर्यः अवदत्। आकाशवाण्याः मासिकीय 'मन की बात' कार्यक्रमे भाषमाणः आसीत् मोदिवर्यः। 
भारतस्य स्वातन्त्र्यं खादिना एव भवतीति सरदार पट्टेलः । खादी अस्माकं प्रतीकः इति च सः अवदत् ।अनेककोटिः जनानां कृते कर्मदानस्य अवकाशः, पुनः खादी अस्माकं स्वदेशीयतायाः प्रतीकः इति मोदिवर्यः अवदत्। यः महात्मागान्धिनः रक्तसाक्षित्वम् आचरति तस्य कपाटिकायां खादिवस्त्रमपि भवितव्यमिति सः अवदत्। भारतस्य शाक्तीकरणाय खादीवस्त्राणां  महत् स्थानमस्ति। अतः खादीवस्त्रस्य उत्पादनस्य वर्धनं करणीयमिति सः अवदत्। 
अस्माकं भारते बालिकायाः स्थानं वर्धितः। इदानीन्तकाले गुर्जरदेशे हरियानदेशे च बालिकायाः स्थानं वर्धितं भवति। 'बेटी बचावो बेटी पठावो' इत्यादि कार्यक्रमः एतस्य उत्तमोदाहरणं भवतीति मोदिवर्यः। 
अस्माकं रयिल् निस्थानकशुचीकरणाय स्वमेधया भागभागित्वं करणीयं , पुनः तस्य निस्थानस्य चित्राण्यपि प्रेषयतु इति च मोदिवर्येण अभ्यर्थितः। प्रतिवर्षं जनुवरिमासस्य त्रिंशत् दिनाड़्के प्रभाते एकादशवादने  भारतस्य रक्तसाक्षित्व दिने वरेण्यानां कृते निमिषद्वयं मौनमवलंबनीयः इति सः अवदत् ।
मन् की बात कार्यक्रमे भागभागित्वकरणाय जड़्कमदूरवाण्यां अलब्धाह्वानं (Missed Call) करोतु इति प्रधानमन्त्रिणा अवदत्। जङ्गमदूरवाण्यायाः सड़्ख्या 8190881908 भवति