OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 21, 2024

 उत्तराखण्डे ६ नवीनाः संस्कृतविद्यालयाः उद्घाटिताः

उत्तराखण्डसंस्कृतशिक्षापरिषद्द्वारा  मान्यता प्रदत्ता।

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डः।

        देवभूमौ उत्तराखण्डे पुनः संस्कृतगङ्गा प्रवाहमाना अभवत्, यत्र उत्तरप्रदेशराज्यस्य अन्तर्गतं उत्तराखण्डे बहवः संस्कृतविद्यालयाः उद्घाटिताः आसन्, ये वर्तमानकाले आगताः तावत् स्वयमेव जर्जरावस्थायाम् समाप्तिप्राया: आसन् । उत्तराखण्डस्य द्वितीयराजभाषायाः विकासाय प्रवर्धनाय च सर्वकारेण प्रशंसनीयानि पदानि कृतानि, येषां कृते उत्तराखण्डसंस्कृतशिक्षापरिषद्द्वारा पुरातननवविद्यालयेभ्यः च नवविद्यालयेभ्य:  मान्यता प्रदत्ता। ज्ञातव्यं यत् उत्तराखण्डस्य विभिन्नजनपदेषु बहवः संस्कृतविद्यालयाः महाविद्यालयाः च छात्रसङ्ख्यायाः कारणात् संसाधनानाम् अभावात् समाप्तिमार्गे आसन्। तेषाम् उन्नयनार्थं संस्कृतशिक्षापरिषदा नूतनजीवनं प्रदत्तं।  अनेन सहैव नूतनरूपस्य सर्वा: संस्कृतविद्यालया:  आधुनिकसंस्कृतनियमाधारितानि भविष्यन्ति।  एतावता संस्कृतविद्यालयाः महाविद्यालयाः च मानकानुसारं विधानं प्रतीक्षन्ते स्म, ये इदानीं विधानानाम् अन्तर्गतम् आगताः। 

     उत्तराखण्डसंस्कृतशिक्षापरिषदः सचिवः डॉ. वाजश्रवा आर्यः अवदत् यत् राज्ये ६ कक्षात: १२ कक्षापर्यन्तं ६ नूतनानां संस्कृतविद्यालयानाम् मान्यता प्राप्ता अस्ति, येन कारणेन नूतनाः संस्कृतविद्यालयाः पूर्णतया उद्घाटिताः भविष्यन्ति।  उद्घाटिताः मुख्याः विद्यालयाः सन्ति  अमलानन्दजुयाल- संस्कृतविद्यालय:, किष्किन्धा बलोडी,पौडी। द्रोणस्थली आर्षकन्या गुरुकुलविद्यालय:, देहरादूनं। श्री कृष्णदेशिक- संस्कृतविद्यालय:, ऋषिकेश: । आदर्शसंस्कृतविद्यापीठ:, सल्डमहादेव:, पौड़ी । श्री परशुरामसंस्कृतविद्यालय:, देहरादूनम्। श्रीमद्दयानंद: आर्षज्योतिर्ममठगुरुकुलं, पौंधा, देहरादूनं ।