OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 15, 2024

   केरलकलारूपाणां वैशिष्ट्यविषये पञ्चदिवसात्मिका राष्ट्रियकार्यशाला प्रचलन्ति ।

   केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवायूर्-परिसरस्य पावरट्टीकेन्द्रे पञ्चदिवसात्मिका केरलकलारूपाणां राष्ट्रियकार्यशाला 12-02-2024 दिनाङ्कतः 16-02-2024 दिनाङ्कपर्यन्तं प्रचालयिष्यते । 12-02-2024 दिनाङ्के प्रातः 10-00 वादने पावरट्टीकेन्द्रस्य सभागारे नवदेहलीस्थ World Sanskrit Media Council इत्यस्याः संस्थायाः राष्ट्रियनिदेशकः राष्ट्रपतिपुरस्कृतः च डा बलदेवानन्दसागरः केरलकलारूपाणां राष्ट्रियकार्यशालायाः उद्घाटनम् अकरोत् । उद्घाटनभाषणे तेन उक्तं यत् भारतीयकलाः विभिन्नप्रकारिकाः सन्ति तत्रापि विशिष्य केरलीयकलाः अत्यन्तं विशिष्टाः सन्ति तेषु प्रसिद्धाः कूटियाट्टम्, कथक्कलि, मोहिनीयाट्टम् इत्यादयः। एताभिः कलाभिः भारतीयसंस्कृतिः संस्कृतभाषायाः विकासः च भवेत् । 

      केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवायूर्-परिसरस्य वेदान्तविभागाध्यक्षा प्रभारी-निदेशिका च आचार्या आर्. प्रतिभामहोदया कार्यशालायाः उद्घाटनकार्यक्रमे आध्यक्ष्यं निरवहत् । केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवायूर्-परिसरस्य पावरट्टीकेन्द्रस्य विशेषाधिकारी केन्द्राधीक्षकः च आचार्यः के. विश्वनाथन् स्वागतभाषणमकरोत्। केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवायूर्-परिसरस्य पावरट्टीकेन्द्रस्य संयोजकः शिक्षाशास्त्रविद्याशाखायाः सहायकाचार्यः डा के. गिरिधररावः धन्यवादसमर्पणं कार्यक्रमसञ्चालनञ्च अकरोत्। अस्मिन् कार्यक्रमे 37 प्रतिभागिनः वर्तन्ते।