OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 8, 2016

विक्रमसंवत्सरं 2073

 अद्य विश्वस्वास्थ्यदिनम् ।

कोच्ची > जीवनशैल्यां हितकरं परिवर्तनम् उद्घोषयत् अद्य लोके सर्वत्र स्वास्थ्यदिनम् आचरति । मधुमेहरोगस्य दूरीकरणम् इति अस्य स्वास्थ्यदिनस्य कर्तव्यबोधनम्।
अद्य लोकेषु सर्वत्र बलिका बालकाः अपि अनेन रोगेण क्लेशमनुभवन्ति। अन्नदोषः बहूनां रोगाणां कारणं भवति।



व्यायामो हि सदा पथ्यो बालानां स्निग्धभोजिनाम्।
स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः॥    (महाभारतम्)

शरीरस्य आकारं न्यूनीकर्तुं औषधं भुङ्‌त्वा युवकः मृतः।


इटुक्की- केरळम् > शरीरस्य अमितंभारं दुरीकर्तुं सस्यजन्यम् औषधं भुङत्वा मधुमेहरोगस्य आधिक्येन मनु नायर् नामकः युवकः मृतः। अस्वाभाविक मरणम् इत्यनेन आरक्षकः अपराधं स्वीकृतः। एषः किम् औषधं स्वीकृम् कुतः तत् औषधं लब्धम् इति आरक्षकाः न जानन्ति।

विजयमल्ल्यस्य व्यवस्थाः बेङ्कैः निरस्ताः ।

नवदिल्ली >ऋणं प्रत्यर्पयितुं किङ् फिषर् स्वामिना विजयमल्ल्येन निर्दिष्टाः व्यवस्थाः बाङ्कानां समित्या निरस्ताः ।६००० कोटि रूप्यकाणि तथा  पञ्चवर्षाणां वृद्धिश्च  प्रत्यर्पणीयानीति समित्या निर्दिष्टम् ।
  भारतस्य विविधबेङ्केभ्यः कोटिशः रूप्यकाणि ऋणं स्वीकृत्य प्रत्यर्पणम् अकृत्वा पलायितः सः इदानीं लण्टन् देशम् अधिवसति ।

चैनया उपग्रहः विक्षिप्तः।

बीजिंग् >शास्त्रगवेषणार्थम् उपकारकः उपग्रहः - एस् जे १० - चीनादेशेन विक्षिप्तः। प्रत्यवतारणक्षमं २५ तममेनमुपग्रहं २ - डि नामिका क्षेपिणी भ्रमणपथमनयत्।
  लघुतमभूगुरुत्वबलं (micro gravity), बहिराकाशजीवनशास्त्रम्(space life science) इत्यादीनां पठनाय उपकारकः भविष्यति । बहिराकाशे प्रवर्तमाने काले १९ प्रकाराणि परीक्षणानि उपग्रहे भविष्यन्ति इति चीनाशास्त्रकारैः विज्ञापितम् ।