OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 13, 2016

लातूरे प्रथमं जलसंभृतं पट्टिकाशकटम् आगतम्।

मुम्बै> महाराष्ट्रेषु जलदौर्लभ्येन पीडितनां जनानां आश्वासदानाय पानीयजलेन संभृतं पट्टिकाशकटम्  आगतम् । तस्मिन् पञ्चलक्षम् लिट्टर् मितं पानीयं जलम् अस्ति। जलपात्रेण सह सूर्योदयात्‌ पूर्वं जनाः तिष्टन्तः आसन्। तैः अत्याह्लादारवेण यानं स्वीकृतम्। पश्चिम महाराष्ट्रस्य मीरजतः सञ्चितं जलं ३५० किलोमीट्टर् दूरं रेल् द्वारा आनीतम् ।