OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 29, 2016

गतिः भारतेन निर्णीयते
       श्रीहरिक्कोट्टा> सप्तमम्  उपग्रहमपि भ्रमणपथं नीत्वा गतिनिर्णयसंविधाने भारतस्य सोपानारोहणम् । अमेरिका, चीना, जपान्, रष्या इत्यादिभिः विकसितराष्ट्रैः सह उपग्रहगतिनिर्णयकार्ये भारतस्यापि स्थानं लब्धम् । भारतस्य सप्तमं गतिनिर्णयोपग्रहम्  ऐ आर् एन् एस् एस् १ जि  श्रीहरिक्कोट्टायाः सतीष्धवान् विक्षेपणकेन्द्रात् अद्य १२.५५ वादने पि एस् एल् वि सि ३३ आकाशबाणः विक्षेपणमकरोत्। एवं च भारतस्य सर्वे गतिनिर्णयोपग्रहाः भ्रमणपथं संप्राप्ताः। एतेषां उपग्रहाणां युगपत्प्रवर्तनेन भूतल -जल - वायु मार्गेण सञ्चाराय अन्येषां राष्ट्राणाम् आश्रयणं न आवश्यकम्।

भारतं विरुद्ध्य एफ्-१६ युद्धविमानानि उपयोक्तुं पाकिस्थानः।

वाषिङ्टण्‌ > पाकिस्थानेन एफ् १६ युद्ध विमानानि भारतं विरुद्ध्य उपयोक्तुं साध्यता अस्ति इति यू एस् नियम विदग्धाः। अमेरिकया विमानानि पाकिस्थानय दातुं निश्चितः इति ज्ञात्वा ओबामायाः पुरतः राष्ट्रकार्य-विदग्धाः तेषां शङ्का न्यवेदयन्। पाकिस्थानाय एतादृशानां विमानानां प्रदानं नोचितमिति भारतेन  पूर्वं निवेदितमासीत् ।
   

 चरित्रम् चरित्रकारसृष्टम् किम्?.

   नवदेल्ली> स्वस्वभावनानुसारं  चरित्रयाथातथ्यानां विपरीतं  कृत्वा प्रकाशनम् इतः पूर्वमेव बहुधा दृष्टं वर्तते। एतस्य नूतनम् उदाहरणं भवति 'इन्द्यास् स्ट्रगल् फोर् इन्डिपेन्डन्स्' इति नामकं पुस्तकम्। पुस्तकमेतत् देल्ली विश्ववविद्यालयस्य छात्रैः उपयुज्यमानम् अनुबन्धपुस्तकं भवति। पुस्तकमेतत् चरित-प्रसिद्धाय भगत् सिंहाय आतङ्गवादिनः मुखं ददाति। भारतस्य 'यथार्थ: विप्लवनायकः' इति आङ्गलकारै: अपि प्रकीर्तितं भगत्सिंहम् आतङ्गवादिनम् इव चित्रीकुरुतः चरित्रकारौ मृदुला मुखर्जी, बिपिन्चन्द्रः च। न केवलं भगत्सिंहः अपि च चन्द्रशेखर् आसाद:, सूर्यासेन्  इत्यादयः स्वातन्त्र्यसमरनायकाः च पुस्तकेऽस्मिन् आतङ्गवादिरूपेण परामृष्टाः सन्ति। विवादात्‍मकेऽस्मिन् विषये भगत् सिंहस्य बान्धवाः देल्ली विश्वविद्यालयस्य अधिकृतेभ्यः तथा मानव-विभवशेषि-मन्त्रालयाय च निवेदनं समर्पिताः आसन्। तेषाम् अभ्यर्थनां परिगण्य पुस्तकमेतत् पाठ्यपद्धतेः निष्कासयितुं मानवविभवशेषिमन्त्रालय: विश्वविद्यालयं न्यवेदयत्।

शोधविषयैः साकं गुर्जर सर्वकारः

 अहम्मदाबाद् >  राज्ये छात्रा: शोधकार्यं यथेच्छं कुर्वन्तु, विषयान् वयं दद्मः इति गुजरातसर्वकारः। सर्वकारस्य जनक्षेमपद्धतीनां विषये शोधकार्यं भवतु। तच्च पद्धतीनां पुरोगतये कार्यक्षमरीत्या निर्वहणाय च महान् उपकारः स्यादिति सर्वकारस्य अभिप्रायः। किन्तु विषयेऽस्मिन् काण्ग्रसदलेन आक्षेपः उन्नीतः वर्तते।

आतपाघातं प्रतिरोद्धुं पाकनिरोधः


पट्ना >अतितापेन कष्टमनुभूयमाने बीहारे प्रभाते ९ वादनतः सायं ६ वादनपर्यन्तं पाकनिरोधः प्रख्यापितः सर्वकारेण। गतदिने बीहारे बगुसरायां प्रभातकाले पाकसमये तापस्य वाय्वोः च काठिन्येन त्रिशतं भवनानि अग्निबाधया दग्धानि। पाकवेलासु अग्निबाधायाः साध्यता अधिका इति विचिन्त्य एव सर्वकारेण नूतनं परिष्करणं कृतम्। किन्तु निरोधममुं प्रायोगिकं कर्तुं क्लेशः अस्ति चेदपि नियमव्यवहारभीत्या जनाः अनुसरेयुः इत्येव सर्वकारस्य विश्वासः।