OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 15, 2016

"भाषा-पत्रकारितायाः वर्षावधिक-पाठ्यक्रमस्य शुभारम्भः"

नवदिल्ली > "संस्कृत-पत्रकारितायाः -शत-वर्षाणि ऐषमः जून-मासे प्रथसार्धैकम-दिनाङ्के पूर्णतां यास्यन्ति"- इति तथ्यमाधृत्य देशे नैकत्र अनेक-विधानि अभिनवानि संस्कृत-कार्याणि प्रवर्त्यन्ते इति वृत्तं नूनं हर्ष-प्रदं समेषामपि संस्कृतानुरागिणां प्राच्य-विद्या-समाराधकानां च कृते| एतेषु अभिनवकार्येषु अन्यतमं वर्तते- नवदिल्ल्यां श्रीला.ब.शा.रा.सं. विद्यापीठे "भाषा-पत्रकारितायाः वर्षावधिक-पाठ्यक्रमस्य शुभारम्भः|" अवसरेsस्मिन् विद्यापीठस्य कुलपतेः  भा.सं.प.संघस्य उपाध्यक्षस्य च प्रो.रमेशकुमार-पाण्डेयस्य आध्यक्ष्ये,  भा.सं.प.संघस्य च महासचिवस्य डॉ.बलदेवानन्द-सागरस्य  मुख्यातिथित्वे उद्घाटन-समारोहः महता समारम्भेण सम्पन्नः| 
 अस्य भाषा-पत्रकारिता-पाठ्यक्रमस्य संयोजिका प्राचार्या कमला-भारद्वाज-महाभागा असूचयत् यत् यू.जी.सी. इति विश्व-विद्यालयानुदान-आयोगेन मानितेsस्मिन् पत्रकारिता-कार्यक्रमे संस्कृत-हिन्दी-आङ्ग्ल-भाषा-माध्यमेन पञ्जीकृताः छात्राः पत्रकारिता-विशेषज्ञैः प्रशिक्षयिष्यन्ते, कक्षाश्च प्रायेण शनि-रविवासरयोः प्रचालयिष्यन्ते| 
.   मुख्यातिथि-पदाद् भाषमाणः डॉ.सागरः समुपस्थितान् विदुषः पत्रकारिता-छात्रान् च सानुरोधं साग्रहञ्च न्यवेदयत् यत् साम्प्रतं परिवर्तिते परिदृश्ये संस्कृत-समाजेन स्वीयं सामाजिकं सांस्कृतिकं राजनीतिकञ्च दायित्वं प्रपूरयितुं सक्रियेण भाव्यम् , तच्च पत्रकारिता-माध्यमेन सारल्येन साधयितुं शक्यते| अध्यक्ष-पदाद् भाषमाणः कुलपति-वर्यः प्राचार्यः श्रीपाण्डेयः अब्रवीत् यद् ऐतिहासिकोsयम् अवसरः यत् विद्यापीठेन आधुनिकतमोsयं विषयः स्वीय-पाठ्यक्रमेषु समावेश्यते| एतदर्थञ्च विद्यापीठमिदं छात्रेभ्यः सर्वविधं संसाधन-सौविध्यम् उपायनीकरिष्यति| वरिष्ठो विद्वत्-तल्लजः प्राचार्यः नागेन्द्र-झाः स्वीय-सम्बोधने छात्रान् समधिकावधानतया आधुनिक-विषयेsस्मिन् परिश्रमं विधातुं सम्प्रेरितवान्| अवसरेsस्मिन् समुपस्थितेषु विद्यापीठस्य नाना-विभागाध्यक्षेषु संस्कृत-विद्वत्षु च प्राचार्यः हरेराम-त्रिपाठी, प्राचार्यः महेश-प्रसाद-सिलोडी, प्राचार्यः शुद्धानन्द-पाठकः, प्राचार्यः जयकान्त-सिन्ह-शर्मा, प्राचार्यः रामराज-उपाध्यायः, प्राचार्यः रामानुज-उपाध्यायः, प्राचार्यः के.अनन्तः, प्राचार्यः के.एस्.सतीशः,प्राचार्यः सुन्दर-नारायण-झाः, प्राचार्यः भागीरथ-नन्दः, प्राचार्यः हरिहर-त्रिवेदी,  प्राचार्या सुजाता-महाभागा प्राचार्या सविता-महाभागा चान्यतमाः आसन्