OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 5, 2016

केरले कोण्ग्रस् दलस्य नामसूची प्रख्यापिता ।

नवदिल्ली - केरलविधानसभानिर्वाचने स्पर्धयतां कोण्ग्रस् दलीय प्रत्याशिनां नामसूची नवदिल्ल्यां प्रख्यापिता। मुख्यमन्त्री उम्मन् चाण्टी , गृहमन्त्री रमेश् चेन्नित्तला प्रभृतयः ८३ नेतारः जनमतम् अभिलषन्तः निर्वाचनाङ्कणे वर्तन्ते।
  स्थानार्थिनिर्णये अभिजाताः तर्कवितर्काः दलस्य देशीयनेतृत्वस्य कठिनप्रयत्नेन यावच्छक्यं परिहृताः ।

बंगाल् असम निर्वाचने उत्साहभरितं भागभागित्वम्।

नवदिल्ली >पश्चिमबंगाल् असम् राज्ययोः ह्यः सम्पन्नं प्रथमचरणनिर्वाचनम् आवेशोज्वलं तथा शान्तियुक्तं च परिसमाप्तम्।
बंगराज्यस्य १८ मण्डलेषु प्रतिशतं८० मतदातारः स्वमतं दत्तवन्तः। १३ विधानसभामण्डलानि मावोवादिभीषणयुक्तानि सन्त्यपि भीषणिम् अवगणय्य एव जनाः मतदानाधिकारं प्रयुक्तवन्तः ।
  असमे ६५ विधानसभामण्डलेषु प्रतिशतं७० जनाः मताधिकारं विनियुक्तवन्तः।