OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 25, 2016

विजयमल्यस्य पारपत्रं निरस्तम्।

नवदिल्ली> वित्तकोशानां कोटिशः रूप्यकाणां ऋणबाध्यतां कृत्वा स्वदेशात् पलायितस्य मद्यराजस्य विजयमल्यस्य राजदूतिकं पारपत्रं विदेशकार्यमन्त्रालयेन निरस्तम्। विशदीकरणम् अभियाच्य मल्याय दत्तस्य लेखस्य प्रतिलेखः न तृप्तिकरः इति लक्षीकृत्य एव रविवासरे पारपत्रस्य निरसनं कृतम्। राज्यसभासदस्य इति रूपेण लब्धं डिप्लोमाटिक् (राजदूतिकं) पारपत्रमेव निरस्तम्।
माच् द्वितीयदिनादारभ्य लण्टने वासं कुर्वन्तं विजयमल्यं प्रतिप्रापयितुं क्रियाविधयः विदेशकार्यमन्त्रालयेन स्वीकृताः।

अनावृष्टिः - मराठवाडातः सहस्रशः जनाःग्रामं त्यजन्ति।

लात्तूर्> नित्यजीवनाय जललेशे अलभ्यमाने महाराष्ट्रायां मराठवाडा प्रदेशात् सहस्रशः जनाः पलायनं कुर्वन्ति। मासत्रयेण अत्रत्याः जनाः रूक्षं जलदौर्लभ्यमनुभवन्ति। समीपप्रदेशेषु नालिकाकूपाः अपि प्रयोजनरहिताः अभवन्। टाङ्कर् लोरियानेभ्यः पानजलवितरणमपि स्थगितम्। अस्याम् अवस्थायां ग्रामत्यागं विना मार्गान्तरं नासीत्।