OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 10, 2016

केरळेषु विस्फोटकेन १०५जनाः मृताः।
प्रधानमन्त्री व्रणितान् द्रष्टुम् आगमिष्यति॥

कोल्लम् > परवूर् परिसरे विद्यमानस्य पुट्टिङ्कल्‌ देवालयस्य विस्फोटकगृहे अग्निबाधया महान् विस्फोटः अजायत। सूर्योदयात् पूर्वं त्रिवादने एव दुरन्तः। १०५ जनाः मृताः  पञ्चा शदुत्तर त्रिशतम् (३५०) जनाः व्रणिताः। समीपस्थेषु आतुरालयेषु  व्रणिताः प्रविष्टाः , केषाञ्चन अवस्था गुरुतरा च।
विस्फोटक ध्वनेः व्याप्तिः सार्धैक किलोमीट्टर परितः आसीत्। सुरक्षा प्रक्रियायाः नेतृत्वे DGP वर्यः आगतः अस्ति। प्रधानमन्त्री नरेन्द्र मोदी आगमिष्पति। तेन आर्थिकसाहाय्यं प्रख्यापितम्।

फिडल् कास्त्रो सार्वजनीनवेदिकायाम्

हवाना > क्यूबाराष्ट्रस्य परिभ्रमणनायकः फिदल् कास्त्रो नवमासानन्तरं सार्वजनीनवेदिकां प्राप्तः । गतगुरुवासरे हवानायां भूतपूर्वक्यूबाक्रान्तिनायिकायाः विल्मा एस्पिन् नामिकायाः स्मरणार्थं स्थापिते विद्यालये छात्रैः सह बहुसमयं यावत् संवादं कृतवान् ।
८९ वयस्कः फिदल् वर्यः छात्रैः सह उपवेशनस्य संवादस्य च छायाचित्राणि स्टेट् दूरदर्शनेन बहिरानीतानि । गतमासे सम्पन्ने यू एस् राष्ट्रपतेः ओबामावर्यस्य क्यूबासन्दर्शने फिदल्वर्यं द्रष्टुं ओबामा न सन्नद्धः अभवत् । ततः कस्मिंश्चित् देशीयपत्रिकायां ओबामां विमृश्य लेखनमपि कृतवान्।