OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 3, 2016

वेगेन गन्तुं 'गतिमान्'

आग्र> भारतीय रेल् यानेषु त्वरितवेगवत् जवराजः इव गतिमान् एक्स्-प्रस् मङ्गलवारादारभ्य धावति।
रेल्वे मन्त्रिणा सुरेष्प्रभुणा उद्‌घाटनं क्रियते च। दिल्लीतः आग्रापर्यन्तं भवति प्रथमयात्रा इति प्रान्तीय-प्रबन्धकस्य कार्यालयात्‌ ज्ञापितम्। मन्त्रिवर्यः
स्वस्य कार्यालये उपविश्य रिमोट्‌ कण्ट्रोल् उपयुज्य यात्रायाः उद्घाटनं करिष्यति।
सविशेषतया निर्मितेन यानपेटिका (बोगी)मध्ये निशुल्कं वैफै, स्वयं नियन्त्रितानि वातायनानि सहायतायै होस्टस् नार्यः च सन्ति। द्वादश यात्रापेटिकाः च अस्मिन् विद्यन्ते ।
चिटिकायाः मूल्यम् शताब्द्याः अपि अधिकम्। शुक्रवासरे यात्रा नास्ति। यात्रायाः १०० निमेषाणां दैर्घ्यामस्ति। षष्ट्यधिकशतं १६०  कि.मी वेगेन धावमानं भारतस्य प्रथमं रेल् यानं भवति गतिमान्।


विधानसभानिर्वाचनं - असमे बंगाले च  शब्दायमानं प्रचारणं समाप्तम् ।

नवदिल्ली - असमराज्ये आहत्य ६५ विधानसभामण्डलेषु सोमवासरे  निर्वाचनं भविष्यति ।  पश्चिमबंगालराज्ये १८ मण्डलेषु च प्रथमसोपानं निर्वाचनं तस्मिन् दिने एव प्रचलति । शब्दायमानं प्रचारणम्  समाप्तम् ।


 मन्त्रिसभासंघटनाय मेहबूबायै आमन्त्रणम् ।

श्रीनगरं - जम्मु काश्मीरे मन्त्रिसभां रूपवत्कर्तुं पि डि पि दलनेत्रीं मेहबूबा मुफ्तिं राज्यपालः एन् एन्  वोरावर्यः आमन्त्रयत्। राज्यस्य प्रथमवनितामुख्यमन्त्रिरूपेण सा श्वः सत्यप्रतिज्ञां करिष्यति।


कोण्ग्रस् मध्ये समस्याः रूक्षाः। अर्धरात्रौ अपि स्थानार्थिनिर्णयः न जातः। 

अनन्तपुरी > नियमसभास्थानार्थिनां विषये कोण्ग्रस्    मध्ये क्रियमाणाः चर्चाः पराजिताः।षट् दिनानि यावत् चर्चां कृत्वापि के.बाबु, अडूर् प्रकाशयोः विषये निर्णयः न जातः। मुख्यमन्त्री उम्मन्चाण्डि  केरला कोण्ग्रस् अध्यक्षः वी.एं.सुधीरश्च ह्यः रात्रौ यावत् हैक्कमान्ड् जनैः सह चर्चां अकुरुताम् तथापि चर्चायां पुरोगमनाभावात् मुख्यमन्त्री, सुधीरश्च  केरलं प्रत्यागतः। को.बाबु,अडूर् प्रकाश्च यदि मत्सरे न भवतिश्चेत् अहमपि मत्सरे न भविष्यामि इति मुख्यमन्त्रिणा सूचितम्।