OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 27, 2016

  विकसनं ग्रामेभ्य: आरम्भणीयः
 
राष्ट्राभिवृद्धये विकसनप्रवर्तनानि ग्रामेभ्यः आरम्भणीयानि इति मन्त्री  किरण् रिज्जु:। तदर्थं राष्ट्रे पञ्चायत्तीराज् संविधानस्य विनियोगः शक्तः भवतु इति सः उक्तवान्। केन्द्रसर्वकारः ग्रामविकसनाय सर्वदा प्रतिज्ञाबद्ध: एव इति तेन अभिप्रेतम्। अतः केन्द्रपद्धतीनां फलप्रदरीत्या विनियोगाय सर्वेषां श्रद्धा आवश्यकी। गांन्धीमहोदय: ग्रामप्रदेशानां प्रतिनिधिः आसीत्। समूहे अध:कृतवर्गाणाम् उन्नमनाय अहोरात्रं  प्रयत्न: कृतवान् आसीत् अम्बेदकर: इत्यपि तेन उक्तम्।


 ऐ ऐ टि मध्ये संस्कृतं पाठ्यविषयः-मन्त्रिणी स्मृती इरानी।

 नव देहली > ऐ ऐ टि कलालयेषु संस्कृतपाठनाय निर्देशः दत्तः इति मानवविभवशेषी विभागाध्यक्षा स्मृती इरानी। साङ्‌केतिकविद्या तथा शास्त्रञ्च संस्कृतभाषायां सम्यगेव प्रतिफलितम् इति महोदयया अभिप्रेतम्।

शिरोवस्त्रधारिण्यः न प्रतिरुन्ध्यात्

 कोच्चि>अखिलभारतीय-वैद्यसम्बन्ध-प्रवेशनपरीक्षार्थं आगम्यमानानां इस्लां धर्मानुयायिनां बालिकानां प्रतिरोधः मा भवतु इति केरला उच्चन्यायालयेन निर्देशित:।

विजयमल्या निष्कास्यते 
 नव देहली> मधु व्यापारधनिकं राज्यसभाङ्गं विजयमल्यां सभायाः निष्कासितुं राज्यसभा सदाचारसमितेः निर्देशः। स्वपक्षं विशदीकर्तुं तस्मै सप्तदिनात्मकः कालसीमा दत्ता।
------


 परन्तु ता: विद्यार्थिनःपरीक्षाया:अर्ध खण्डात् पूर्वमेव परीक्षकेन्द्रमागत्य नियमानुसृतपरिशोधनायै विधेया: भवेयु: इत्यपि न्यायाधिपेन महमद् मुष्ताखेन निर्देश: दत्तः ।



सि.वि. चन्द्रशेखराय  केन्द्रसड्गीतनाटकअकादमी विशिष्टाङ्गत्वम्
 नव देल्ही> प्रमुख: भरतनाट्यनर्तक: सि.वि. चन्द्रशेखर: केन्द्रसड्गीतनाटकअकादमी विशिष्टाङ्गत्वेन नियमितः। गतदिने   त्रिपुरायां सम्पन्न: योग: 'अकादमी रत्‍ना ' इति नाम्ना प्रशस्तं विशिष्टाङ्गत्वस्थानं चन्द्रशेखरं समर्पयितुं निश्चयः स्वीकृतः। स्थानप्राप्तिदानं राष्ट्रपतिना करिष्यति।



केरळस्थ पि एस् सि परीक्षायै कैरळी भाषा मुख्या
 अनन्तपुरी>केरळस्थ पि एस् सि परीक्षासु कैरलीभाषायाः प्रामुख्यं दातुं समितेः निश्चयः। सर्वासु परीक्षासु दशाङ्कानां प्रश्नावलीम् अन्तर्भावयितुं समित्या निश्चयः स्वीकृतः अस्ति।

पानम रेखा अमिताभ् बच्चं नूतन प्रश्नावल्या सह आयकारविभागः
 नव देहली> पानमरेखासु प्रतिपाद्यमानैः विदेशव्यापार सङ्‌घै: सह कोऽपि बान्धवः नास्तीति अभिप्रेतम् अमिताभ् बच्चं स्व आदायकार्याणि अधिकृत्य नूतना प्रश्नावली प्रेषिता आयकरविभागेन।


 
l
'आधार् ' - अटोर्णी जनरलस्य (ए जि) अभिप्रायाय उच्चतरन्यायालयः
 नव देल्ही > २०१६-१७ वर्षस्य बजट् सम्मेलने आधार् विक्रयपत्रम् धनविक्रयपत्रमिव. स्वीकर्तुम् दत्ताम् अनुमतिम् उपरि उन्नीतम् आक्षेपं परिहर्तुम् उच्चतरन्यायलयेन अटोर्णीजनरलस्य साहाय्यम् अन्विष्टम्।

विधानसभासोपानेषु नमस्कृत्य सुरेष् गोपि

नवदेहली> प्रधानमन्त्रिणं नरेन्द्र मोदिनं अनुस्मृत्य सुरेष् गोपि सभासोपानेषु नमस्कृत्य एव सभां प्रविष्ट:। ओ.राजगापाल: तथा के. करुणाकरः च स्व आदर्शपुरुषौ भवतः इति तेन उक्तम्।


पूट्टिङ्ङल् स्फोटकापघातः राज्यदुरन्तरूपेण प्रख्यापितः।

अनन्तपुरी> केरळे  गतसप्ताहे पूट्टिङ्ङल् देवीमन्दिरे  दुरापन्नः स्फोटकापघातः राज्यस्य दुरन्तनिवारणाधिकारिभिः राज्यदुरन्तमिति प्रख्यापितः। अपघातबलिभ्यः राज्यदुरन्तनिवारणनिधेः साहाय्यदानार्थमेवायं निश्चयः।
   सामान्यतया स्फोटकापघाताः प्रकृतिदुरन्तरूपेण न गण्यन्ते। किन्तु पूट्टिङ्ङल् दुरन्ते १०९ जनाः मृत्युमुपगताः। अनेके व्रणिताः। बहूनि गृहाणि भवनानि च भग्नानि। अस्मिन् सविशेषसन्धौ एव राज्यदुरन्तः इति प्रख्यापितः।

केन्द्रसर्वकारः बृहन्मानकनियुक्त्यर्थं सिद्धतामाप्नोति।

नवदिल्ली> सर्वकारवृत्तिं प्रतीक्षमाणेभ्यः काचन सन्तोषवार्ता। नियुक्तिनिरोधननियन्त्रणादीनि अपनीय विविधविभागेषु द्वीलक्षाधिकेषु पदेषु नियुक्त्यर्थं केन्द्रसर्वकारेण क्रियासोपानानि आरब्धानि।
  २०१६-१७ आयव्ययपत्रके २.१८ लक्षं वृत्तिस्थानानि सृष्यन्तीति सूचितमासीत्। गृहमन्त्रालयः रक्षामन्त्रालयः आरक्षकविभागः इत्यादीनां मन्त्रालयानाम् अधीने भविष्यमाणप्रवर्तनानि उद्दिश्य  बृहत् मानकयुक्तां नियुक्तिं कर्तुं सर्वकारेण लक्ष्यते।