OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 11, 2016


परवूर् स्फोटकापघातः - मरणानि ११० अतीतानि ; देशीयनेतारः दुरन्तस्थानं प्राप्तवन्तः।

 कोल्लम् > परवूर् पुट्टिङ्ङल् देवीमन्दिरे सञ्जाते महति ध्वनकस्फोटनदुरन्ते
मृतानां संख्या ११० अभवत् । व्रणिताः ३०० परं च। मृतेषु केवलं  ५८ एव अभिज्ञाताः । मृतेषु शिष्टान् व्रणितेषु कांश्चन च अभिज्ञातुं डि एन् ए शोधनापि करणीयेति अभिज्ञवृत्तैः उक्तम् ।
  तथा देशीयनेतारः अपि दुरन्तस्थानं प्राप्तवन्तः । प्रधानमन्त्री नरेन्द्रमोदी दुरन्तस्थानं सन्दर्शितवान् ।अनन्तरं कोल्लं जिल्ला जनरल् चिकित्सालयं प्राप्य व्रणितान् समाश्वासयत् । स्वास्थ्यमन्त्री जे पि नड्डा कोल्लम् अधिवसन् दुरिताश्वासप्रवर्तनानाम् नियमनं वहति ।
कोण्ग्रस् दलस्य उपाध्यक्षः राहुल् गान्धी , ए के आन्टणी इत्यादयः अपि दुरन्तबाधितान् समाश्वासयन्ति स्म ।
राष्ट्रपतिः प्रणब् कुमार् मुखर्जी राज्यपालः पि सदाशिवम् इत्यादयः दुरन्ते अनुशोचनं प्रकाशितवन्तः।

पाक् सन्दर्शनम् अपाकरणीयम् इति यू एस् जाग्रतासूचना।

वाषिङ्टण् > अननिवार्यं चेत् पाकिस्तानराष्ट्रं प्रति सन्दर्शनम् अपाकरणीयमिति स्वकीयपौरेभ्यः अमेरिक्का जाग्रतानिर्देशम् अदात् । भीकराक्रमणानि , वर्धिताः वंशीययुद्धाः इत्यादय एव अपाकरणकारणत्वेन प्रस्तुताः ।
  पाकिस्ताने विदेशसंबन्धसहिताः रहिताश्च भीकरसंघटनाः सजीवाः वर्तन्ते ।यू एस् पौरजनाः एतेषां लक्ष्यं भूयात् - यू एस् राज्यविभागेन बहिरानीता सूचना आह ।