OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 26, 2016

 जलसंरक्षणाय प्रचारणं करिष्यति - प्रधानमन्त्री।
          
नवदिल्ली> राष्ट्रेण सम्मुखीक्रियमाणायाः अनावृष्ट्याः पश्चात्तले जलसंरक्षणाय विपुलं बोधवत्करणं शक्तिमन्तः प्रचारणकार्यक्रमाश्च आरप्स्यन्ते इति प्रधानमन्त्री नरेन्द्रमोदी अवदत्। मन् कि बात् प्रभाषणपरम्परायां भाषमाणः आसीत् सः। अनावृष्टिं जलदौर्लभ्यं च परिहर्तुं सर्वकारैः क्रियासोपानानि स्वीकरिष्यन्ते। किन्तु जनैरपि स्वकीयानि कर्तव्यानि अपि पालनीयानीति प्रधानमन्त्रिणा उक्तम्। वृष्टिजलं सञ्चितव्यम्। गंगा यमुना नद्योः शुचीकरणं प्राधान्येन करणीयम्। जनानां भागभागित्वं तदर्थमावश्यकमिति तेनोक्तम्।

अतितापेन ओडीषा ; ८८ मृतिः।

भुवनेश्वरम् > भारतेषु  अत्युष्णेन् ज्वलितः देशः तितिलागड्  ओड़ीषायामस्ति। ४८.५° सेल्स्यस् एव अत्रत्याः तपमानम् ह्यः चत्वारः मनुष्याः मृताः, आहत्य इदानीं मृतानां संख्या अष्टाशीतिः (88) अभवत्। तितिलागड् बोलांगीर्  जनपथे एव भवति। 2003 तमे वर्षे जूण् मासे 50.1° सेल्स्यस् आसीत् तापमानम् ।
 
विजयप्रभायां सौरोर्जविमानम्।

           न्युयोर्क> सम्पूर्णतया सौरोर्जेन चाल्यमानं विमानं 'सोलार् इम्पलस् २' पसाफिक् समुद्रस्य उपरिमार्गण यात्रामकरोत् । बेरट्रेन्ट् पिकाट् आसीत् विमानचालकः । चालकम् अभिवादनेन अभिवन्द्य ऐक्यराष्ट्रसभाध्यक्ष: बान् कि मुण् दाैत्यमेतत् प्रचोदनात्मकं तथा चरित्रपरं च इति अभिप्रेतम्।


विद्युदुपभोगे सर्व कालिक रिकार्ट् 
  अनन्तपुरी> केरळे  अतितापः परिवर्तनं विना स्थितः भवति। अस्यामवस्थायां जनानां विद्युदुपभोगः सर्वकालाधिकोन्नतिं प्राप्य अग्रे गच्छन् वर्तते। गतशुक्रवारस्य विद्युदुपभोग: ७.८ कोटि यूणिट् आसीत् ।

मणिप्पूरे महती वृष्टिः ; जलोपप्लवः।
 इम्फाल्>भारते सर्वत्र अनावृष्टिदुरिते सञ्जाते  मणिप्पूर् राज्ये अतिवृष्ट्या  जनाः दुरितमनुभवन्ति। वृष्ट्यां जलोपप्लवे च बहूनि गृहाणि विशीर्णानि। देशीयवीथ्यां भूच्छेदकारणेन गतागतः स्थगितः। बिष्णापूर् जनपदे ३०० एकर् परिमितं व्रीहीक्षेत्रं जलोपप्लवे व्यनाशयत्।
l शुद्धजलस्य दुर्विनियोग: , धोणिः विवादे ...            
राञ्ची> झार्खण्डे जलदौर्लभ्यस्य रूक्षावस्थायामपि भारतीय क्रिकट् सङ्घनेतुः धोणेः गृहे तरणजलाशयाय प्रतिदिनं सहस्राधिकं लिटर् जलं दुर्विनियुज्यते इति आक्षेप:। तरणजलाशये जलपूरणेन समीपप्रदेशेषु जलदौर्लभ्यं रूक्षं जातमिति समीपवासिनः मन्त्रिवर्यम् अमर् बारिं साक्षादेव आक्षेपम् उन्नीतवन्तः।

स्वहस्तलिखितं पुस्तकम् : विश्व-रेकोर्ट लक्ष्यीकृत्य आरक्षकः

                कोचि> सप्तशतपुटात्मकं पुस्तकं स्वहस्तलिखितेन निर्माय लिंका बुक् ओफ् रेकोर्टस् मध्ये स्थानमावहतुं देल्ही आरक्षकवृन्दस्य उद्योगस्थ: जोर्ज नेटुम्पारा। तस्य "वेलिच्चमे नयिच्चालुम्" कैरळीभाषया विरचितं पुस्तकं प्रकाशनाय सज्जम्। एषः अक्षरप्रेमी स्वहस्तलिखितेन रचितेन त्र्यशीत्यधिक पञ्च शतपुटात्मकेन "जीवितवीक्षणम्" इति नामकेन पुस्तकेन २००४ तमे वर्षे एव लिंका बुक् ओफ्‌ रेकोर्टस् मध्ये स्थान मारूढः भवति।