OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 15, 2016

कर्म प्रवेशनानुमतिपत्रस्य ( VISA) मूल्यः यु.एस् . राष्ट्रेण द्विगुणितं कृतम्၊

 वाषिङ्टण् > एच् -१ बि, एल्-१ प्रवेशानुमतिपत्रस्य वर्धितं मूल्यं विवेचनात्मकम् इति केन्द्र धनमन्त्रिणा अरुण् जयिटिलि महाभागेन उक्तम्। भारतस्य विज्ञान विनिमय संस्थां प्रतिकूलतया ऎषमः बाधते इति च अनेन उक्तम्। लक्षत्रयं रुप्यकाणि अनया अवर्धयत्।
यु एस् सन्दर्शनं कुर्वता  जयिटिलिमहोदयेन यु.एस् वाणिज्य प्रतिनिधिना मैकल फोर्मानेन सह कृते मिथसन्दर्शने भारतस्य विप्रतिपत्तिः विज्ञापितः।

दक्षिणचीनासमुद्रविषयः - जि  ७ राष्ट्रान् विरुद्ध्य चीना ।

बीजिंग् > तर्कप्रदेशं दक्षिणचीनासमुद्रभागमधिकृत्य जि ७ राष्ट्रैः कृते प्रस्तावे तेषां नयतन्त्रप्रतिनिधीन् आहूय चीना स्वकीयं प्रतिषेधं व्यजिज्ञपत् ।
 गतदिने हिरोषिमायां सम्पन्ने जि ७ राष्ट्राणामुपवेशने कृतः प्रस्तावः भवति चीनायाः अतृप्तेः कारणम् ।
 चीनासागरस्य अधीशत्वं भावयति चीना इत्येतत् जापान् फिलिप्पैन्स् , वियट्नाम् , मलेष्या , ब्रूणाय् ताय्वान् इत्यादीनां राष्ट्राणां विरोधं सम्पादयति स्म , तर्कविषयरूपेण अवर्धत च ।अस्मिन् विषये अमेरिक्का अपि एतेषां राष्ट्राणां कृते अनुकूलभावं प्रकाशयति ।
  अस्मिन् प्रसंगे एव जि ७ राष्ट्राणां सम्मेलने दक्षिणचीनासमुद्रस्थितिः आशङ्कजनकः , तर्कस्य़ शान्तिरूपः परिहारः आवश्यकः इति नामसूचनां विना चीनां विमर्शितवन्तः ।