OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 23, 2023

 दिल्ल्यां बालभारती पब्लिक् स्कूल् मध्ये अन्ताराष्ट्रियायाः गीताजयन्त्यः अवसरे गीताश्लोकपाठस्पर्धा समनुष्ठिता

वार्ताहरः - पुरुषोत्तमशर्मा

     नवदिल्ली>अन्ताराष्ट्रियायाः गीताजयन्त्यवसरे नवदिल्ल्या:  सर गङ्गाराम चिकित्सालय-मार्गस्थेन बालभारती पब्लिक स्कूल इत्याख्येन प्रशासनेतरेण विद्यालयेन छात्राणां कृते श्रीमद् भगवद्गीताया: केषाञ्चन प्रचितानां श्लोकानां पाठस्य स्पर्धा  समायोजिता। अस्यां श्लोक-पाठ-स्पर्धायां सर्वेषां कक्षाणां सर्वे  रुचिमन्त: छात्रा: प्रतिभागिनश्च भागं  भजितुं  स्वतन्त्रा: अवर्तन्त। एतस्यां श्लोकपाठस्पर्धायां दिल्लीशिक्षानिदेशालयद्वारा निर्दिष्टानां भगवद्गीताया: कतिपय-प्रचितानामेव श्लोकानां पाठ: विधेय: आसीत्। अथ चास्यां श्लोक-पाठ-स्पर्धायां  षष्ठीकक्षा-त: दशमी कक्षा-पर्यन्तं  सार्ध-शता-धिकै: छात्रै: सक्रिया प्रतिभागिता विहिता।   एतस्मिन् कार्यक्रमे एकत: यत्र छात्रै: न  केवलं गीताया:  श्लोका:   कण्ठस्थीकृता:   तत्रैव विद्यालय-परिसरे सर्वै:  शिक्षकै: छात्रै: कर्मकरैश्चापि आध्यात्मिक-वातावरणस्य अनुभव:  कारितः।गीताजयन्त्युत्सव-श्लोक-पाठ-स्पर्धा कार्यक्रमस्य  सञ्चालनमपि  छात्रा: एव निरवहन्।

    एतस्मिन् गीता-श्लोक-पाठ-स्पर्धा कार्यक्रमे सर्वप्रथमम् उपप्रधानाचार्या श्रीयुता  विनीता-धवन-वर्या, मुख्याध्यापिका श्रीयुता नीतानिझारा-वर्या च विधिवद् रूपेण छात्रद्वारा विहित-वैदिक-मन्त्रोच्चारण-मध्ये  दीप-प्रज्वालनपूर्वकम् कार्यक्रमस्य उद्घाटनं कृतवत्यौ। एतदनन्तरं ताभ्यां श्रीगणेशस्य प्रतिमायां, श्रीमद्भगवद्गीताग्रन्थे  तुलसीपादपे च पुष्पाणि माल्यानि चार्पितानि। इत्थं विद्यालयीय: अन्ताराष्ट्रिय: गीता-महोत्सवस्य शुभारम्भः अभूत्। एतस्मात् पश्चात्  ताभ्यां द्वाभ्यामपि छात्राणां सामूहिक-गीता-श्लोक-पाठस्य श्रवणं कृतम्। तेषां श्लोक-पाठ-प्रस्तुति: च अवलोकिता।

     अस्मिन् श्लोक-पाठ-कार्यक्रमे औद्घाटनिकम् उद्बोधनं प्रयच्छन्ती उपप्रधानाचार्या श्रीयुता  विनीता धवन-महोदया छात्रेभ्य: प्रत्यपादयत्  यत् गीताया: सन्देश: सार्वकालिक:, सार्वभौमिक: च वर्तते।  एतद् गीताज्ञानं प्राक्तने समये यावदुपयुक्तम् आसीत् तावदेव  अद्यत्वेऽपि वर्तते। अतः: अस्माभि: गीताया:  अध्ययनम् अवश्यमेव कर्तव्यम्। अनया प्रोक्तं  यत्  साम्प्रतिके समये देशे एव नैव विदेशेषु अपि गीताया: व्यापक-रूपेण अध्ययनाध्यापनञ्च प्रचलति। अनेनैव कारणेन अस्माकं  देशस्य प्रतिष्ठितेषु प्राविधिक संस्थानेषु प्रबन्धन-संस्थानेषु चापि छात्रेभ्य: अनिवार्यरूपेण गीतायाः अध्यापनं प्रारब्धम् अस्ति। असौ उक्तवती यत् भवतां सर्वेषां छात्राणां कृते एषा श्लोक-पाठ-स्पर्धा एक: स्वर्णिम: अवसर: अस्ति  गीताज्ञानाधिगमस्य। भाषणस्य अन्ते अमुया सर्वान् प्रतिभागिन: छात्रान् प्रति  मङ्गलाशंसनं कृतम् ।  

     अपरत्र च  श्लोक-पाठ-स्पर्धाया:  समापन-वक्तव्ये मुख्याध्यापिका श्रीमती नीता निझारा   प्रोक्तवती यत्  अद्य विद्यालये अन्ताराष्ट्रिय-गीता-जयन्ती महोत्सवानुष्ठानस्य ऐतिहासिक: अवसर: अस्ति। पारसहस्रं वर्षाणां पूर्वं धर्मक्षेत्रस्य कुरुक्षेत्रस्य भूमौ भगवता श्रीकृष्णेन धनुर्धराय पार्थाय गीताया: ज्ञानं प्रदत्तम् आसीत्।  एतद् गीता-ज्ञानमद्यापि  मानवजीवनस्य प्रत्येकमपि क्षेत्रे नितान्तम् उपयुक्तम्  अनुकरणीयं चास्ति। अतः छात्रै: गीताया: अध्ययनमवश्यमेव विधेयम्। श्रीमती निझारा  बाल-भारती   विद्यालयस्य एव   फ्रेंच भाषाया:  पूर्वच्छात्र: य: वर्तमाने विश्वस्य प्रतिष्ठिते ऑक्सफोर्ड विश्वविद्यालये संस्कृत-शोधार्थित्वेन   निरता अस्ति, तस्य  उदाहरण-पुरस्सरं छात्रा: संस्कृते निहित-ज्ञानस्य अध्ययनम्प्रति अभिप्रेरिता:।  अमुया श्लोक-पाठ-स्पर्धायां समधिकानां छात्राणां प्रतिभागितां वीक्ष्य  सन्तोष: अपि  प्रकटित:। साकमेव छात्राणाम् उज्ज्वल भविष्यकृते शुभकामना: अपि वितरिता:। 


     एतस्य श्लोक-पाठ-स्पर्धा-कार्यक्रमस्य आयोजनं  दिल्ली शिक्षानिदेशालयस्य निर्देशानुसारेण प्रधानाचार्यस्य श्रीयुतलक्षवीरसहगलस्य, उपप्राचार्याया: श्रीयुतविनीताधवनस्य, मुख्याध्यापिकाया: श्रीयुतनीतानिझारामहोदयाया: च  नेतृत्वे दिङ्निर्देशे च  सञ्जातम्।  कार्यक्रमस्य आयोजनस्य समग्रतया समन्वयन-कार्यस्य निर्वहणं साहित्याकादम्या: युव-पुरस्कारेण सभाजित: समर्हणीय: संस्कृतशिक्षक: डॉ. युवराजभट्टराईवर्य: विद्या-विनयोपेतस्य हिन्दीशिक्षकस्य श्रीयुत उमेशभारद्वाजस्य सहयोगेन कृतवान्। 

   कार्यक्रमस्य प्रमुखसमन्वयिका, विद्यालयस्त  वरिष्ठसंस्कृतशिक्षिका डॉ. ज्योत्स्ना श्रीवास्तव: मुख्यनिर्णायकस्य भूमिकायाम् अपि  उपातिष्ठत,    डॉ. वीरेन्द्रशर्मा  द्वितीय-निर्णायकत्वेन उपस्थित: आसीत्।

स्पर्धाया: समापने  दशम्या: कक्षाया: छात्रै: वैदिक: शान्ति-पाठ: अपि विहित:।