OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 26, 2023

 मुख्यवक्तारूपेण डॉ. वीरेंद्रवर्य: कर्मयोगे एवं सन्यासविषये गीताज्ञानयज्ञसमारोहं सम्बोधितवान्

संस्कृतभारतीपंजाबप्रांतस्य संयुक्ततत्वाधाने शिवमंदिर-अर्बन-स्टेट-फेस1 इत्यस्मिन् स्थले 24 दिसम्बरत: 31 दिसम्बरपर्यन्तं गीताज्ञानयज्ञसमारोह: सञ्जायते

-वार्ताहर:-कुलदीपमैन्दोला। पंजाब्।

    संस्कृतप्रचाराय प्रसाराय च अहर्निशं संस्कृतसम्भाषणेन जनजागरणं कारयन्ती संस्कृतभारती अधुना स्थाने स्थाने सम्भाषणाय शिबिरं सञ्चालनं च विभिन्नशास्त्राध्ययनं व्याख्यानं च समायोजयति । क्रमेस्मिन् संस्कृतभारतीपंजाबप्रांतस्य संयुक्ततत्वाधाने शिवमंदिर-अर्बन-स्टेट-फेस1 इत्यस्मिन् स्थले 24 दिसम्बरत: 31 दिसम्बरपर्यन्तं आयोज्यमाने गीताज्ञानयज्ञसमारोहस्य तृतीये दिवसे डॉ.ओमानमहोदयेन (जिल्लासम्पर्कप्रमुखपटियालात:)

पंचमं एवं षष्ठमध्यायस्य वाचनं कारितम्। मुख्यवक्तृरूपेण आगत: डॉ. वीरेंद्रवर्य: संस्कृतविभागाध्यक्ष: पंजाबीविश्वविद्यालयपटियालात: कर्मयोगे एवं कर्मसन्यासविषये सम्बोधितवान् । मंचसंचालनं डॉ. रविदत्त: हिंदीविभागपंजाबीविश्वविद्यालयस्य  सहायकाचार्य: कृतवान् । अस्मिन् अवसरे संस्कृतभारत्या: पंजाबप्रांतस्य सहमंत्री अजयकुमार: आर्य:, मंदिरसमितिप्रमुख: दीपचंदगुप्त:, मक्खनलालसिंगला, मक्खजैन:, छज्जूराम: मित्तल: एते विशेषरूपेण उपस्थिता: आसन् ।