OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 17, 2023

परमाणुविद्युन्निलयाः पिहिताः। जर्मनी परमाणुयुगात् विरमति।

                                  -रणिमोल् एन् एस्

जर्मनी> जर्मनीदेशः परमाणुयुगात् दूरं याति। जर्मनीदेशः स्वस्य अन्तिमेषु परिचालनात्मकेषु परमाणुविद्युन्निलयेषु त्रीणि एम्स्लैण्ड्, इसार २, नेकारवेस्तीम् च पिधानीकृत्व परमाणुयुगात् दूरं गतवान्। बहवः यूरोपीयदेशाः परमाणुसंबन्धगवेषणे निरताः सन्ति। अस्मिन् सन्दर्भे भवति जर्मनीदेशस्य ईदृशः प्रक्रमः। १९७० तमात् वर्षात् देशे आरब्धैः परमाणुविरुद्ध आन्दोलनैः एव परमाणुविद्युद्संस्थाः पिहिताः।

१९७९ तमे वर्षे पेन्सिल्वेनिया-देशे त्री माइल द्वीपस्य परमाणुविद्युन्निलयस्य विस्रवणं (leakage), १९८६ तमे वर्षे चेर्णोबिल्-अपघातः च एतान् विरोधान् तीव्रताम् अयच्छन्।

      २००० तमे वर्षे जर्मनीदेशः क्रमानुगतरीत्या परमाणुमुक्तः भविष्यति इति घोषितम्। ततः एकैकानां परमाणुविद्युन्निलयानां पिधानीकरणम् आरब्धम्। २०११ तमे वर्षे फुकुशिमा-अपघातस्य कारणात् कार्यमिदं सुदृढं जातम्। जर्मनीदेशे त्रिंशदधिकानि परमाणुविद्युन्निलयानि आसन्।