OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 5, 2023

 कूपं पतितं सोदरं  नलिका द्वारा अवतीर्य रक्षितवती दिया। चाकलेहं सम्मानरूपेण दत्तवती स्वास्थ्यमन्त्रिणी।

-रेवती के. एम्  

     आलप्पुष़ा> आलप्पुष़ा जनपदे मावेलिक्करा नामनगरे कूपं पतितं द्विवयस्कं बालकं वीरतया रक्षितवत्यै अष्टवयस्कीयायै बालिकायै स्वास्थ्यमन्त्रिणी श्रीमती वीणा जोर्ज्  महाभागा, सम्मानरूपेण चाकलेहं दत्तवती।

    माङ्कुष़ी देशे कलित्तुण्डवासिनः सनलस्य षाजिलायाश्च पुत्रम् इवानमेव अग्रजा दिया कूपात् रक्षितवती। इमां वार्तां ज्ञात्वा दियायै मधुरं दातुं निश्चित्य स्वास्थ्यमन्त्रिणी मावेलिक्करा- जनपदीयचिकित्सालयाधिकारिणं निर्दिष्टवती। एवं चिकित्सालयाधिकारिणः दियायाः गृहमागत्य मधुरं दत्तवन्तः। दियायाः सोदरस्नेहः हृदयार्द्रकः इत्यपि स्वास्थ्यमन्त्रिण्या उक्तम्।