OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 29, 2023

उज्जयिन्यां  देवीपूजनपाठविधान प्रशिक्षणस्य समारोप:।

- डॉ.दिनेश चौबे 

   उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिक-विश्वविद्यालयस्य  संस्कृतशिक्षणप्रशिक्षणज्ञान विज्ञानसंवर्धनकेंद्रस्य तत्त्वावधाने  आभाषीयपटलमाध्यमेन (आनलाईन्) आयोज्यमानस्यदेवीपूजनपाठविधानप्रशिक्षणस्य  समारोप: वैक्रमाब्द: २०८०वैशाखशुक्लनवम्यां शनिवासरे तदनु  २९/४/२०२३ तमेदिनाङ्के, शनिवासरे सञ्जात:। प्रशिक्षणमिदम् एकदिनाङ्कादारभ्य  ऊनत्रिंशत् दिनाङ्कपर्यन्तं 

प्राचलत्।  अत्रप्रशिक्षणे 

देवीपूजन-पाठविधान-मंत्रस्त्रोत्रादि -विषये सरलतया प्रशिक्षणं प्रदत्तम्।

देशस्य विदेशस्य च् नैका: धर्मजिज्ञासव: सोत्साहेन अस्मिन्प्रशिक्षणे  भागं गृहीतवन्तः। विश्वविद्यालयस्य माननीयकुलपति: आचार्य-विजयकुमार-सीजी -वर्यस्य कुशलनिर्देशने  

विश्वविद्यालयस्य केन्द्रेण अस्य प्रशिक्षणस्यामायोजनम् अकारि। सम्पूर्तिकार्यक्रमे  मुख्यवक्तृरुपेण वेदव्याकरणविभागाध्यक्ष:, प्रभारिनिदेशकः संस्कृतसंवर्धनकेन्द्रम् डॉ.  अखिलेशकुमार-द्विवेदिमहोदय: उपस्थितः आसीत्। महोदयेन  स्ववक्तव्ये श्रीमद्देवीभागवते देवीपूजनस्य नैकान्  प्रयोगिकानपक्षान्  वैज्ञानिकं महत्त्वञ्च  प्रतिपादितं सारगर्भितं व्याख्यानश्च अकरोत् 

कार्यक्रमस्य शुभारम्भः वैदिकमङ्गलाचरणेन जातः। तदनु अतिथीनां जिज्ञासूनाञ्च स्वागतं  कार्यक्रमस्य प्रतिवेदनं च प्रस्तुतम्। अस्मिन् प्रशिक्षणकार्यक्रमे वेदविभागस्याध्यापकेन श्री प्रणवकश्यपमहोदयेन प्रशिक्षकरूपेण  प्रशिक्षणं दत्तम्।डॉ.अखिलेशकुमारपाण्डेय:, श्री अनुरुद्धकुमारत्रिपाठी,

श्रीशिवानन्दमिश्र:, डॉ.अखिलेशकुमारद्विवेदि महोदयानाम्  अस्मिन्प्रशिक्षणे 

विशिष्टव्याख्यानानि जातानि। समारोहस्य सञ्चालनम् कार्यक्रमसंयोजकेन डॉ.दिनेश चौबेमहोदयेन, आभारप्रदर्शनं डॉ अङ्कितशाण्डिल्यवर्येण च कृतम्। कार्यक्रमे अनेके  जिज्ञासव: समुपस्थिताः आसन्।कल्याणमन्त्रेण सह कार्यक्रमस्य समापनं जातम्।