वर्षः अक्रीडत् ; भारत - दक्षिणाफ्रिक्का २० - २०स्पर्धा परित्यक्ता।
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEj7CB10-Fgr-K82kqGwgMyI0XqPau21o7fDDT6ppQupqJ2P-fmI5UkeQIbRnCDTfO30SgIGnEBkdC7YyQXbnUkvUqw8dKNYO-1ueX-t-OwTeRZnXdFy5Wghlu8e4zZG9nMZiJWS4gOoqLMd/s320/IMG-20190916-WA0002.jpg) |
धर्मशालाक्रीडाङ्कणं समावृतं वर्तते। |
धर्मशाला [हिमाचल प्रदेशः] > तीव्रवर्षाहेतुतः भारत-दक्षिणाफ्रिक्कयोर्मध्ये निश्चिता प्रथमा विंशति - विंशति प्रतियोगिता परित्यक्ता। अत्र 'हिमाचलप्रदेश क्रिक्कट् असोसियेषन्' क्रीडाङ्कणे आसीत् स्पर्धा निश्चिता। किन्तु प्रभाते एव आरब्धेन वर्षेण 'टोस्' अपि कर्तुं न शक्यते स्म। अतः स्पर्धां त्यक्तुं निश्चिता॥