OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 20, 2019

संस्कृताध्ययन-ससंरक्षणाय सर्वकारः प्रोत्साहनं दद्यात्।- प्रमीला शशिधरन्।
-राजकृष्णः श्रीकृष्णपुरम्
    पालक्काट्> सार्वजनीन-शिक्षासंरक्षण-यज्ञमिव संस्कृत-शिक्षारक्षायै  प्राधान्यं सर्वकारैः न दीयते। प्रथमकक्ष्यातः सर्वप्रथमं पाठनं समारब्धे राज्ये तेषां छात्राणां गणनानुसारं विद्यालयेषु पर्याप्तसंख्यकान् शिक्षकान् नियोजयेयुः इति पालक्काट् नगरसभाघ्यक्षा प्रमीला शशिधरन् स्वीय उद्घाटनभाषणे आदत्। केरलसर्वकारस्य सार्वजनीन-शिक्षाविभागस्य नेतृत्वे पालक्काट् वटक्कन्तरा कृष्णकृपा सभामण्डपे राज्यस्तरीय-संस्कृतदिनाचरणे उद्घाटयन्ती भाषमाणा आसीत् सा।
     छात्रेषु सच्छीलं संवर्धयितुं संस्कृतभाषाध्ययनं प्रेरयति। उपनिषदादयः संस्कृतभाषायामेव रचिताः। वरिष्ठाः भक्तिमार्गं यदा प्रविशन्ति तदा भक्तिग्रन्थानध्येतुं संस्कृताध्ययनसन्नद्धाः प्रभवन्ति। अतः संस्कृतशिक्षा-विकासाय सर्वकारैः इतोप्यधिकं प्रोत्साहनं देयमिति सा न्यगादीत्।  नगरसभा-सदस्या श्रीमती सुमति सुरेष् अध्यक्षपदमलञ्चकार। राज्य-पाठ्यपद्धतिसमिति-सदस्यः  प्रो. वि. माधवन् पिल्ला महोदयः  संस्कृतदिनसन्देशं दत्तवान्। पण्डितरत्नं डो. पी.के. माधवन् महोदयः  मुख्यप्रभाषणमकरोत्।
     अभिनयतिलकं कूटियाट्टकलाकारः पी.के.जी. नम्ब्यार्, पद्मश्री पि आर् कृष्णकुमार् , पि.एन्. नटराजः, डो. एन्.एं इन्दिरा प्रभृतयः संस्कृतपण्डिताः, कुमारि पार्वति वि जे,  हरिप्रसादः च समारोहे समादृताः। अध्यापकेभ्यः आयोजितायां साहित्य-रचनाप्रतियोगितायां विजेतृभ्यः पुरस्कारान् अदात्। श्री आर् एस्  षिबूमहोदयः, श्रीमती सुनीति महाभागा महेष्, जयप्रकाशः, पि दिवाकरः च स्वाशयान् प्राकटयत् । अपराह्ने संस्कृत-ह्रस्वचित्रप्रदर्शनं, संगीतशिल्पम्, कलाकार्यक्रमाः उपस्थापिताः ।