OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 1, 2019

भारतस्य रूप्यकपत्रस्य २००० इत्यस्य निलीनप्रवेश: - प्रभवकेन्द्रं पाकिस्थानः। 
    नवदिल्ली> भारतस्य २००० इति रूप्यकपत्रस्य   व्याजपत्राणि पाकिस्थानीयेन भीकरदलेन निर्मितानि। सुरक्षानुबन्धतया कृतान्वेषणे विशेषान्वेणसंघेन पाकिस्थानस्य बन्धः प्रत्यभिज्ञातः। डि सि पि प्रमोद सिंह कुश्वन्तस्य नेतृत्वे विद्यमानेन अन्वेणसंघेन  पाकिस्थानीय चारसंघस्य ऐ एस् ऐ इत्यस्य प्रधानप्रतिनिधिः दिल्लीस्थ नेहृपालस् इत्यस्य समीपतः  गृहीतः। अज्ञावासिनः अधोलोकप्रवर्तकस्य महापातकिनः च दावूद् इब्राहिमस्य 'D' इति उद्योगसंस्थायाः प्रतिनिधिः भवति अस्लम् अन्सारिः। अस्य पार्श्वतः ५.०५ लक्षं रूप्यकाणां मूल्यभूतं २००० रूप्यकस्य व्याज रूप्यकपत्राणि बलेन गृहीतानि। भारतात् पलायितः दावूद् इब्राहिमः तस्य 'D' इति संस्था च भवतः व्याज रूप्‌यकपत्र-वितरणे ऐ एस् ऐ इत्यस्य प्रधानमध्यवर्तितिनौ।  'D' इत्यस्य केन्द्रकार्यालयः पाकिस्थाने कराची नगरे एव वर्तते।