OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 14, 2024

 चतुर्थचरणे ६७. २५% मतदानम्। 

बहुषु स्थानेषु अक्रमप्रवर्तनानि। 

९६ लोकसभामण्डलेषु ह्यः सम्पन्ने निर्वाचने ६७. २५% सम्मतदायकाः स्वाभिमतं विनियुक्तवन्तः इति निर्वाचनायोगेन सूचितम्। गतं चरणत्रयमपेक्ष्य मतदानस्य शतमानं अधिकं वर्तते। 

  अधिकतरं मतदानं पश्चिमवंगे अङ्कितं - ८६. ०८%। न्यूनतमं तु श्रीनगरे - ३७%। पश्चिमवंगे तत्र तत्र संघर्षाः जाताः। बोलपुरं मण्डलस्थे केतुग्रामे कश्चन तृणमूलप्रवर्तकः बोम्बाक्रमणे हतः। आन्ध्रे गुण्डूरु मण्डलस्थे कस्मिंश्चित् मतदानस्थाने 'वै एस् आर् कोण्ग्रस् दलीयः विधानसभासदस्यः शिवकुमारनामकः मतदायकमताडयत् इत्यनेन संघर्षः जातः। 

  चरणचतुष्टये समाप्ते ७० % मण्डलेषु निर्वाचनं समाप्तम्।  दक्षिणभारतस्य सर्वेषु राज्येषु मतदानं सम्पूर्णमभवत्।