OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 31, 2017

वाट्सप् गणैः द्वारा भारतविरुद्ध कार्यक्रमेण पाकिस्थानः।
श्रीनगरम्>जम्मु काश्मीरस्थान् युवकान् आक्रमणाय प्रेरयितुं तथा सेनां विरुध्य प्रवर्तितुं पाकिस्थानः वाट्सप् सहित सामाजमाध्यमाध्यमानाम् उपयोगं  करोति। काश्मीरस्य बुल्गां जिल्लायां सैन्येन कृतं आक्रमणं प्रतिषिद्ध्यसुरक्षाकर्यकर्तॄन् प्रति युवकाः पाषाण क्षेपणं अकुर्वन्। यत्र आक्रमणादिकं भवति कदा इत्यादि सर्वमपि वृत्तान्तं सामाजिकमाध्यम द्वारा युवकान् विज्ञापयति। एवं विविध क्षेत्रवासिनः युवकान् परस्परं ज्ञातुमपि भीकराः सामाजमाध्यमान् उपयुनक्ति।

Thursday, March 30, 2017

सुवर्णविक्रयकाणामुपरि दृढनियन्त्रणम् आयाति।
नवदिल्ली>सुवर्णविक्रयणे नियन्त्रणम्। एप्रिल् एकदिनाड्कादारभ्य सुवर्ण विक्रयणे दशसहस्र रुप्यकाणि एव  रुप्यकपत्ररूपेण यच्छति। पूर्वं तत् विंशति सहस्रमासीत् । तत्सम्बन्धी नीतिः आगामिनि मासे प्रबली भवति। दशसहस्रधिकं धनं व्यक्तेः आर्थालये एव प्राप्स्यते। एवं न करोति चेत् तदनधिकृतमिति निकुति विभागः परामृशति। केन्द्रसर्वकारस्य एतत् निर्णयं मुख्यतया ग्रामीणक्षेत्रमेव बाधते। प्रायशः बहुत्र ग्रामेषु तादृशसौविध्यानि न सन्तीति तस्य हेतुः।

 सीमासुरक्षायै स्त्रीशक्तिः च। सीमासुरक्षासेनायां प्रथमवनिताकार्यकर्त्री तनुश्री।
ग्वालियार् > सीमासुरक्षासेनायां एकपञ्चाशत् वर्षाणाम् इतिहासे प्रथमवनिताकार्यकर्त्री रूपेण पञ्चविंशति आयुयुक्ता तनुश्री परीख् नियुक्ता।
 तनुश्री परीख् राजस्थान राज्यस्य बिक्कानीर स्वदेशी अस्ति।२०१३ आरभ्य सेनायां स्त्रीणः सन्ति चेदपि उन्नतपदव्यां प्रथमतया एव स्रीणां प्रवेशः।
असिस्टण्ट् कमाण्डर पदे नियुक्ता तनुश्री परीख् पञ्जाबराज्ये पाक् सीमायां सेनागणम् नेष्यति।

Wednesday, March 29, 2017

स्त्रीणां रात्रौ उद्योगे निवेश: मास्तु इति ऐ टी स्थापनानि प्रति कर्णाटकसर्वकारा:।।
 बङ्गलूरु >रात्रिकालान्तरेषु स्त्रिय:उद्योगस्था: उद्योगकार्येषु न योजयेयुरिति  ऐ टी बयोटेक्  स्थापनानि प्रति  कर्णाटकनियमसभासमित्या:निर्देश:। स्त्रीणां सुरक्षां स्वकार्यतां च संरक्षितुमेव अयं  निर्देश: इति नियमसभासमित्या सूचितम् । ऐ टी  बी टी स्थापनानि स्त्रिय:रात्रौ उद्योगेषु योजयन्ति इत्यत्र  सहमति:नास्ति तथा च ता:यावच्छीघ्रं दैनिक मध्यन्दिनकालान्तरेषु योजयेयुरिति च सभासमित्या: निर्देश: । नियमसभायां वनिताशिशुक्षेमसमित्या समर्पिते आवेदनपत्रे एव  निर्देशोयं वर्तते । एन् ए हारिसस्य नेतृत्वे वर्तमानसमित्या निर्देशोयं पुरस्कृत: सभायाम् । एतादृशसंस्थासु रात्रिकालान्तरे पुरुषोद्योगस्था: नियोजनीया:इत्यपि समित्या निर्दिश्यते । इनफोसिस्   बयोकोण्   संस्थासु सेवनरतैस्सह २०१६ सेप्टम्बर्मासे समित्या चर्चा कृता । तदाधारीकृत्यैव आवेदनपत्रं सज्जीकृतमपि । किन्तु गतवर्षे सर्वकारै:स्वीकृतचरित्रपरं  निर्णयम् उल्लङ्घ्यते अयमावेदनम् । रात्रिकालोद्योगस्थानां स्त्रीणामुपरि  विद्यमाननियन्त्रणं व्याक्षिप्तमासीत् गतवर्षे सर्वकारै: उद्योगमण्डलेषु स्त्रीपुरुषसमत्वं प्रदीयादिति उद्देश्येन एव तथा एकं पदं सर्वकारै: विन्यस्तमपि ।

मातुः सम्पत् असाधुरुप्यकपत्राणां विनिमयाय प्रधानमन्त्रिणे पुत्राणाम् आवेदनम्।
जयपुरम्>बन्धितात् गृहात् प्राप्तानि ९६,५०० रुप्यकस्य असाधुरुप्यकपत्राणां विनिमयाय साहाय्यम् अभ्यर्थ्य अनाथबालकानाम् आवेदनं प्रधानमन्त्रिणे प्रदत्तम्। कोट्टा जिल्लायां सरावाडा ग्रामे मृतायाः मातुः उपधानात् रुप्यकाणि प्राप्तानि।
 मातापित्रोः मरणानन्तरं बान्धवैः तिरस्कृतान् बालान् कोट्टायां सर्वकारस्य अनाथकेन्द्रे ग्रामीणाः अनयन्। अस्मिन् मासस्य सप्तमे दिने जेष्ठे बालके गृहस्य उद्घाटनं कृते सति रुप्यकाणि प्राप्तानि। पूर्णतया सहस्र पञ्चशतानां पत्राणि आसन्।
विनिमयाय रिसर्ववित्तकोशाय आवेदनं दत्तं चेदपि किमपि फलं नासीत्   अत एव प्रधानमन्त्रिणः साहाय्याय पत्रं प्रेषितम्।
Episode 39 - Sanskrit News
 Bhadra P Varma Class VII Kendiya Vidyalaya, AFS Akkulam, Thiruvanandapuram, Kerala.

Tuesday, March 28, 2017

 मलप्पुरम् उपनिर्वाचनव्यग्रतायाम् , स्थानाशिनः नव।
मलप्पुरम् > केरले मलप्पुरं लोकसभानियोजकक्षेत्रे उपनिर्वाचनव्यग्रता आरब्धा। ई. अहम्मदवर्यस्य निर्याणेन प्रख्यापिते उपनिर्वाचने नामनिर्देशपत्रिकाणां सूक्ष्मपरिशोधनायां समाप्तायां नवानां स्थानाशिनां पत्रिकाः  अङ्गीकृताः।
      तत्र त्रयः प्रमुखाः वर्तन्ते। यू डि एफ् दलीयः मुस्लींलीग् दलप्रतिनिधिः पी के कुञ्ञालिक्कुट्टिः , एल् डि एफ्  सख्यस्य सि पि एम् प्रतिनिधिः एम् बि फैसलः , एन् डि ए सख्यप्रतिनिधिः भाजपादलीयः एन् श्रीप्रकाशश्च परस्परं स्पर्धिष्यमाणाः प्रमुखाः।

     एप्रिल् मासस्य द्वादशे दिनाङ्के एव निर्वाचनं भविष्यति।
सन्तोष् ट्रोफी वंगेन प्राप्तम्।
पनजी> एकसप्ततितमः सन्तोष् ट्रोफी नामकः पादकन्दुकक्रीडाविजयस्तम्भः वंगराज्येन प्राप्तः। प्रतियोगिनं गोवादलं प्रत्युत्तररहितेन एकेनैव कन्दुकलक्ष्येन पराजित्य विजयस्तम्भे वंगदलस्य  द्वात्रिंशत्तमं चुम्बनार्पणम्! निश्चिते समये दलद्वयेनापि विना लक्ष्यकन्दुकं समस्थितौ जाते स्पर्धा अधिकसमयं समुपगता। मत्सरसमापनाय एकनिमिषे अवशिष्टे मन्वीरसिंहस्य लक्ष्यकन्दुकेन वंगराज्यं विजयतीरं संप्राप।

Kanakadharayajnam


Kanaka Dhara Sthothram is re-recited for all of us at the temple of Lakshmy Pathy, with the current successor of the blessed fortunes from family of Swarnath Mana, decorating 'Agrasthanam'.  Successors of Pazhoor Mana, the family of Sree Sankara's maternal uncles, Thalayattumpilly and Kapilly Manas the only 2 out of 10 Namboothiri families now existing at Kalady, also are participating.
A chosen group of 32 Archakas representing 32 years of life of Sankara will be reciting the Kanaka Dhara Sthothram with due 'vruthasudhi' and 'thantric nistha'.  Devotees could get the Kanaka Dhara Sthothram recited in their name and nakshatra before merciful Thrikaladyappan - Kula Deva of Adi Sankara.  The Thanthri for the Yajnam would be Brahmasree Avanaparambu Pradeep Namboothiripad.  

A talisman of Kanaka Dhara Yanthra or Elass will be delivered as prasadam marking your fortunate participation.  Those who already participated in the Yajnam of 2005 were offered a Punarpooja of their Yanthra after two years and can get it done during this time.  The Yanthra is made as per the Yanthra Vidhi instructions of Kanipayyoor Namboothiripad and as per Kerala thantric rituals.  Keeping of the Yanthra in the pooja room / place of business with dhooma (agarbathi) and neyvilakku (ghee lamp) on Fridays are considered best for the enhancing of powers of the Yanthra.        

This year Kanaka Dhara Yajnam is being concluded on the Akshaya Tridiya Day, the best time of the year to get blessed Gold.  The Crystal charged with Kanaka Dhara Sthothram chants covered with Gold is called the Golden Amalka and is available for those blessed devotees.  One could wear this as a locket in their chain or can keep in the pooja room.
Your presence and darshan of the unique holy event, hearing of the hymns and darshan of merciful Thrikaladyappan, Sri Krishna is the greatest of fortune and punyam. All are invited to have blessings of fortune of this Kanakadhara.

Monday, March 27, 2017

संस्कृताध्ययनेन वार्धाक्यं विस्मृत्य अनन्तपुरी।
अनन्तपुरी > केरळेषु अनन्तपुर्यां प्रचालिते संस्कृतभारत्याः जनपदस्तरीयवार्षिकमेलने प्रमाणपत्र वितरण सन्दर्भः आसीत् अयं मोदस्य निमेषः। संस्कृतभारत्याः पत्रालयशिक्षणे वृद्धजनाः बहवः सामोदं परीक्षां लिखितवन्तः। उत्तीर्णनां कृते केरलभाषा इन्स्टिट्यूट् संस्थायाः उप-निदेशकेन डॉ के एन् जयकृणन् महोदयेन प्रमाणपत्राणि वितीर्णानि। गृहिण्यः, कर्मकराः उद्योगिनः निवृत्ताः यून वृद्धभेदंविना बहवः जनाः इदानीं पत्रालयशिक्षणद्वारा संस्कृत-भाषाध्ययनं सम्पादयन्ति। कामपि भेदभावनां विना सर्वेषां संस्कृतपठनं  सुसाध्यं इति एतत् प्रमाणीक्रियन्ते इति आमुखभाषाणे डॉ ई एन्‌ ईश्वरन् अवदत्। संस्कृतभारत्याः शिक्षण प्रमुखः तथा सम्प्रतिवार्ता पत्रिकायाः सम्पादक-समित्यङ्गं च भवति एषः।

Sunday, March 26, 2017

सुरक्षा भीषां  प्रतिरोद्धुं भारत-अमेरिका सौहृदं दृढं जायते।
वाषिड्टण् > सुरक्षा क्षेत्रे भारत-अमेरिका सौहृदं दृढं जायते।भीकरकार्याणि तथा समुद्रेण आगताः भीषाः च प्रतिरोद्धुं द्वयोः राष्ट्रयोः मध्ये धारणा सञ्जाता। भारतस्य राष्ट्रीयसुरक्षा उपदेष्टा अजित् डोवेल् अमेरिकायाः उन्नतप्रतिरोध कार्यकर्तृभिः जातायां चर्चायाम् अस्ति निर्णयम्। चर्चां इयम् अतीव फलप्रदमासीदिति भारतस्य प्रतिनिधः अवदत्। राष्ट्रपतेः डोणाल्ट् ट्रंपस्य शासनकाले द्वतीयवारमस्ति डोवलस्य अमेरिका सन्दर्शनम्।भारतस्य आर्थिकपरिष्काराः तथा पद्धत्यः चर्चायाम् आगताः इति सूचना अस्ति। भारतस्य विकासशीलौ आर्थिकस्थितौ अमेरिकायाः रुचिः चर्चायाम् अस्यां व्यक्तीकृतम्।


छात्र आरक्षकयोजना अधिकं विद्यालयेषु आयोजयिष्यते - केरलस्य मुख्यमन्त्री ।
अनन्तपुरी> केरलेषु विद्यालयेषु आयोजिता छात्रारक्षकयोजना [Students Police Cadet project]आगामिनि संवत्सरे अधिकं विद्यालयेषु व्यापयिष्यते इति मुख्यमनत्रिणा पिणरायि विजयेन प्रोक्तम्। छात्रारक्षकाणां राज्यस्तरीयशिबिरस्य समापनसम्मेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् मुख्यमन्त्री।
     अस्याः योजनायाः गुणफलानि यावच्छक्यं छात्रेषु प्रापयितुमेव लक्ष्यः। इदानीं ५७४ विद्यालयैः ५०,००० आरक्षकावरजाः अनया योजनया परिशीलनं प्राप्तवन्तः सन्ति। देशाय स्वास्थ्यसम्पूर्णा प्रवर्तनक्षमा च परम्परा आवश्यकी, तदेव एतादृशी योजना लक्ष्यीकरोति।
 एस् एस् एल् सि -गणित परीक्षा निरस्ता , पुनः  ३०तमे दिनाङ्के। 
अनन्तपुरी > गते विंशद्दिनाङ्के संवृत्ता केरलस्य दशमकक्ष्यायाः गणितमूल्यनिर्णयः सर्वकारेण निरस्ता। न केवलं प्रश्नपत्रिकायाः प्रामाण्यराहित्यं किन्तु प्रश्नपत्रिकानिर्माणे संवृत्तः व्यतिक्रमश्च परीक्षानिरासस्य हेतुः भवति।
    प्रश्नपत्रिकानिर्माणाय उत्तरदायित्वं विहितः अध्यापकः स्वसुहृदः अध्यापकात् प्रश्नान् स्वीकृतवान्। स सुहृदपि मलबार् एज्यूक्केषन् एजन्सि इति संस्थया प्रसिद्धीकृतस्य मार्गदर्शकग्रन्थस्य कृते अपि एतान् प्रश्नान् दत्तवानासीत्। किञ्च एते प्रश्नाः कस्यांचित् वार्तापत्रिकायामपि दृष्टाः। अतः प्रश्नपरिस्रवणमभवदिति कारणेन कारिता परीक्षा निरस्ता।


सन्तोष् ट्रोफी - वंग-गोवा अन्तिमस्पर्धा अद्य। 
पनजी >एकसप्ततितमायाः सन्तोष् ट्रोफि पादकन्दुकक्रीडायाः अन्तिमचरणस्पर्धायाम् अद्य वंगराज्यं गोवाराज्येन सह स्पर्धिष्यते। पनजिसमीपे जि एम् जि बोम्बालिन् क्रीडाङ्कणे सायं षड्वादने स्पर्धा भविष्यति।
      वंगः इतःपर्यन्तम् एकत्रिंशद्वारं विजेता अभवत्। द्वादशसु अन्तिमस्पर्धासु पराजितश्च। पञ्चवारं प्राप्तकिरीटं गोवादलं सप्तवारं द्वितीयस्थानम् अलङ्कृतवत्।

Saturday, March 25, 2017

सर्वकारकार्यकर्तॄणां समाजमाध्यमेषु हस्ताक्षेपे तीव्रं नियन्त्रणम्।
तिरुवनन्तपुरम्>समाजमाध्यमेषु हस्ताक्षेपे सर्वकारकार्यकरतॄणां नियन्त्रणम्। सर्वकार नीतिषु अनुमतिं विना अभिप्रायप्रकटनं न कुर्यात्। निर्देशस्सास्य लंघने वर्य कार्यकर्तारः दण्डनादिकं स्वीकुर्युः। नो चेत् तत् गुरुतरः प्रमादः भवेदिति शासनपरिष्करणविभागेन विज्ञापितम्।
 यु डी एफ् सर्वकारस्य शासनकाले अपि समाजमाध्यमेषु मतिप्रकटनाय रोधनं कृतमासीत्। साहित्यकृतयः अपि न कुर्यादिति निर्देशे बहु विमर्शाः आगताः आसन्।


लघुजीवन-व्ययेन भारते चत्वारि नगराणि।
नवदिल्यां सुप्रभातम्।
नव दिल्ली > विश्वस्य नगरेषु लघु जीविका व्ययेन चिनुतेषु नगर दशमेषु भारतरत् चत्वारि नगराणि। बंगलूरु (तृतीय स्थाने) चेन्नै (षष्ट) मुंबै(सप्तम) नव दिल्ली (दशम) इति पट्टिकायां प्रकाशितम्। 'इक्कणोमिक् इन्ट लिजन्स् यूणिट्ट् (ElU) नाम समित्या एव पट्टिका प्रकाशिता । कसख्-स्थानराष्ट्रस्य अल्माट्टी एव प्रथम स्थाने विराजते। नैजीरियाः लोगोस् द्वितीय स्थानमावहति सिंगपूर् एव अधिक -जीवनव्यय-युक्तं नगरम् । होङ्कोङ् सुरिकि च द्वितीयतृतीय स्थानयोः तिष्ठतः ।

Friday, March 24, 2017

ब्रिट्टीष पारलमेण्ड् मन्दिरं प्रति भीकराक्रमणम्। चत्वारः मृताः। भीकरः अग्निगोलेन हतः।
लण्डन्> ह्यः सायं ब्रिट्टन् राष्ट्रं प्रकम्बयन् पारलमेण्ड् मन्दिरं प्रति शक्तं भीकराक्रमणम् अभवत्। आक्रमणे तस्मिन् भीकरेण सह चत्वारः हताः। त्रय आरक्षजनैः सह विंशतिजनाः व्रणबाधिताः अभवन्।
 ह्यः सायं चत्वारिशत् निमेषाधिक द्विवादने आसीत् भीकराक्रमणस्य प्रारंभम्। अतिशीघ्रम् आगतं एकं कारयानं पारलमेण्ड् मन्दिरस्य पार्श्वे वर्तमाने वेस्ट् मिनिस्टर सेतौ चलतः जनान् ताडयित्वा पारलमेण्ड् मन्दिरस्य कवाटम् अताडयत्।पुनः यानमवरुह्य मन्दरं धावितं भीकरं आरक्षकाः अरोधयन्। सः आरक्षकं कुठारेण अपातयत्।तदा अन्यः आरक्षकः तं अग्निगोलेन अपातयत्। पारलमेण्ड् मन्दिरे तदानीं सभाद्वययोः सम्मेलनं चलद् आसीत् ।

प्रपञ्चरहस्यमधिकृत्य केरलीयशास्त्रज्ञस्य नूतनं भारतीयदर्शनम्। 
कोच्ची > प्रपञ्चस्य आधारनिगूढताः अधिकृत्य भारतीयं दार्शनिकपारम्पर्यम् उपपाद्य केनचन केरलीयशास्त्रज्ञेन उपस्थापितं नूतनं दर्शनं शास्त्रलोके चर्च्यते। प्रसिद्धः कैरलीसाहित्यकारः तथा विख्यातशास्त्रज्ञः सि. राधाकृष्णः भवति अस्य नूतनदर्शनस्य उपज्ञाता।
    एतदधिकृत्य प्री स्पेस् टैम् जेर्णल् (pre- space time journal) नामकमासिकीद्वारा राधाकृष्णेन तस्य पुत्रेण के आर् गोपालेन च प्रसिद्धीकृतं अव्यक्तः दि फाब्रिक् ओफ् स्पेस् (Avyaktah the fabrics of space) नामकं लेखनं पठनार्हमिति केरला शास्त्र-साङ्केतिक सङ्घस्य(Kerala Science And Technology society) धुरन्धरैः उक्तम्।
     द्रव्यम् आधारीकृत्य प्रपञ्चं व्याख्यायमानं साधारणं भौतिकशास्त्रदर्शनात् व्यतिरिच्य स्पेस् अथवा स्थानम् इति सङ्कल्पनम् आश्रित्य एव सि राधाकृष्णः स्वदर्शनमवतारयति। स्थल-काल-द्रव्य-ऊर्जादीन् आश्रियमानानि इदानीन्तनतत्वशास्त्राणि एतद्दर्शनं परिवर्तयति।
  अव्यक्तादीनि भूतानि
   व्यक्तमध्यानि भारत।
   अव्यक्तनिधनान्येव
   तत्र का परिदेवना।। इति भगवद्गीताश्लोक एव आत्मानम् एतादृशीं चिन्ताधारामनयदिति तेनोक्तम्।

क्रूरकृत्येषु दण्ड्यमानानाम् आजीवनान्तरोध: भवेत् ।
नवदिल्ली > क्रूरकृत्येषु  अत्याचारेषु वा दण्डितानां नेतृणां निर्वाचनेभ्य:आजीवनान्तनिरोध: कल्पनीय: इति निर्वाचनसमित्या  परमोन्नतनीतिपीठस्य पुरत:केस्  समर्पितम् । एतस्मिन् विषये भी जे पी नेत्रा अश्विनी उपाध्यायेन दत्तायां सामान्यतात्पर्यहरजी मध्ये एव समित्यापि स्वीयाभिमतं व्यक्तीकृत्य सत्यवाड्मूलं दत्तम् । 

Thursday, March 23, 2017

सि बि एस् सि परीक्षासंविधानेषु  एकीकृता व्यवस्था भविष्यति।
नवदिल्ली > नूतन संवत्सरादारभ्य (२०१७-१८) केन्द्रीय माध्यमिक शिक्षा आयोगास्य (CBSE) परीक्षा संविधानेषु परिष्कारः भविष्यति। षष्टकक्ष्यातः आरभ्य नवम कक्ष्या पर्यन्तं एकीकृत-मूल्यनिर्णयरीतिः आयोक्ष्यते। अध्ययन संवत्सरं द्विधा विभज्य अर्धवार्षिक वार्षिक परीक्षा इति रूपेण प्रचाल्यते । दशम कक्ष्यायाः परीक्षायाम् आत्मविश्वासेन अभिमुखीकर्तुमुद्दिश्य भवति अयं परिवर्तनम्  इति आयोगस्य अध्यक्षेण आर् के चतुर्वेदिना उक्तम्। इतःपर्यन्तं सी बी एस् ई प्रणाली उपयुज्यते चेदपि विद्यालयाधिकारिणः स्वेच्छाया परीक्षां कुर्वन्तः आसन् । दशाङ्कानां समयबन्धितया परीक्षा (Terminal Evaluation)  अपि स्यात्। A1स्थानात् (91-100) E (35तः अधः) ग्रेड् पर्यन्तं भवति मूल्याङ्कन-सूची। २०१८ तमस्य परीक्षायां नूतन संविधानस्य प्रकाशात्मक फलानि द्रष्टुं शक्यते इति च चतुर्वेदीमहोदयेन उक्तम्।

Wednesday, March 22, 2017

शास्त्रगणित-स्पर्धायां भारतवंशजा सम्मानिता ।
वाषिङ्टण्> अमेरिक्कायां सम्पन्नायां शास्त्रगणित स्पर्धायां भारतवंशजा बालिका सार्द्ध द्विलक्षं डोलर्धनेन [पञ्चषष्टिलक्षाधिकैककोटि रूप्यकैः ] पुरस्कृता। मस्तिष्काघातेन रोगबाधया वा न्यूरोण् इत्यस्य संभूतं मरणं निवारयितुं कृताय गवेषणाय एव न्यूजेष़्सीस्था  इन्द्राणी दास्[१७ ] उन्नतपुरस्कारं प्राप्तवती ।  शास्त्रप्रतिभाणां चयनाय आयोजितेषु वार्षिकशास्त्रकौशलान्वेषणपरस्कारेषु आदिमेषु दशपुरस्कारेषु चतुरः पुरस्कारान् भारतीयवंशजा : छात्रा: एव स्वायत्तीकृतवन्त: I सङ्गणकयन्त्रप्रक्रमसम्बन्धिनः गणितग्राफ्सिद्धान्तस्य विकासाय एव इन्त्यानादेशस्थ: अर्जुन् रमणिः [१८] तृतीयस्थानेन सार्धलक्षडोलरमितेन पुरस्कारधनेन पुरस्कृतः । न्यूयोर्क् देशस्था अर्चना वर्मा [१७ ] सौरोर्जगवेषणविषये पञ्चमस्थानेन नवतिसहस्रं डोलर्मितेन धनेन पुरस्कृता। प्रतीक् नायिडुः [१७ ] अर्बुदं पारम्पर्यगुणघटकं च अधिकृत्य पठनसहायिने तंत्राम्शाय सप्तमस्थानेन सप्ततिसहस्रं डोलर्मितेन धनेन पुरस्कृतः । मलेरिया चिकित्सामधिकृत्य कृतपठना वृन्दा मदन् [१७ ] नवमस्थानेन पञ्चाशत् सहस्रं  डोलर्मितेन धनेन पुरस्कृता। अमेरिक्कायां सप्तशताधिकसहस्रं वरिष्ठविद्यालयीयछात्रा: एव अस्यां स्पर्धायां भागभाञ्जः आसन् ।

निर्माणे स्थितः सेतुः पतितश्च। हन्त! कर्मकराः रक्षां प्राप्तवन्तः I
रणाकुलं जिल्लायां मुलवुकाट् प्रदेशे निर्माणे स्थितः सेतुः भग्न : अधः पतितश्च। पिष़ल - मूलंपिल्लिसम्बन्धिसेतुरयं । सायं पञ्चवादने एव निर्माणे स्थितस्य सेतोः एकः स्तंभ : अधः पतितः । सेतुनिर्मातृषु  कर्मकरेषु चायपानार्थं गतेषु एव इयं दुर्घटना सम्पन्ना इत्यतः महती विपत्तिः न जाता। अस्मिन् समये सेतुस्थः वैद्युतिक: नद्यां कूर्दित्वा  स्वयं रक्षति स्म। एतस्याः दुर्घटनायाः कारणं अव्यक्तमेव। निर्माणसभायाः आश्रयत्वेन षडशीतिकोटि रूप्यकाणां निर्णयेन च समाप्तप्रायः सेतु: एव पतितः आसीत् । कटमक्कटि द्वीपवासिनां चिरकालस्वप्नः आसीत् एषः सेतुः।

रुप्यकपत्राणां विनिमयम्- सर्वकाराय रिसर्ववित्तकोशाय च उच्चतरन्यायालयस्यस्य पत्रिका।
नवदेहली- असाधूनां रुप्यकपत्राणां विनिमयाय डिसंबर त्रिंशत् दिनाड्कात् परं अनुमतिनिषेधाय केन्द्रसर्वकारः तथा रिसर्ववित्तकोशश्च विशदीकरणं दातव्यमिति उच्चतरन्यायालयः।
असाधूनां सहस्र पञ्चशत रुप्यकपत्राणां विनिमयाय डिसंबर त्रिंशत् दिनाड्कात् परं केन्द्रसर्वकारः अनुमतिः न अदात्। रुप्यकपत्राणां विनिमयाय  मार्च् ३१ दिनाड्कपर्यन्तम् अवकाशः अस्तीति प्रधानसचिवेन पूर्वम् उक्तमासीत्।प्रधानसचिवेन उद्घोषिते प्रस्तावे ईदृशं व्यतिचलनं न समीचीनमिति न्यायालयः अवदत्।
 मुख्यन्यायाधिपः जे एस् खेहार निवेदनोपरि निर्देशः अयच्छत्।

मेघालये अध्ययनविघ्निताः एकलक्षं बालकाः
 षिल्लोङ् - मेघालयराज्ये अध्ययनविघ्निताः विद्यालयाप्रविष्टाश्च एकलक्षं बालकाः सन्तीति राज्य शिक्षामन्त्री डबोरा सि मनाक् उक्तवान्। गते संवत्सरचतुष्टये राज्यस्य एकादशेषु जनपदेषु बालकाः बालिकाश्च सहिताः ९७,०८९ छात्राः स्तम्भिताध्येताः वर्तन्ते। गार्हिकसम्पद्समस्याः सर्वकारविद्यालयेषु भौतिकसुविधाभावश्च अस्य कारणमिति सूच्यते।

वार्तामुक्तकानि
राञ्ची - भारत-आस्त्रेलिययोः तृतीया निकषस्पर्धा समस्थितिं प्राप्ता। भारताय युगतशतकप्राप्तः चेतेश्वरपूजारा वरिष्ठक्रीडकः अभवत्।

 गोवा - सन्तोष् ट्रोफी पादकन्दुकस्पर्धायाः गुरुवासरे प्रवर्तमाने  द्वितीये उपान्त्यचक्रे  केरलं गोवया सह स्पर्धिष्यते।

 चेन्नै - तमिल्नाट् राज्ये कटलूर् प्रदेशे  पुरुषरन्ध्रशुचीकरणाय.  उद्युक्ताः  त्रयः मलिनकुल्याशुचीकरणकर्मकराः मृताः। पञ्चदशपादपरिमिते गर्ते अवतीर्णाः एते त्रयः विषवायुश्वसनेन एव यमपुरिं प्राप्ताः ।


Episode 38- Sanskrit News
V Vyshnav, Std.7, St. Francis U P School, Amballooor, Ernakulam, Kerala.
>

Tuesday, March 21, 2017

कणिका परीक्षणशालायै अनुज्ञा निरस्ता। 
चेनै >केरलसीमासमीपे तमिल् नाट् राज्ये तेनिप्रदेशे सिद्धतां प्राप्यमाणायाः कणिकापरीक्षणशालायाः कृते केन्द्रपरिस्थितिमन्त्रालयेन दत्ता प्रवर्तनानुमतिः राष्ट्रिय हरितन्यायासनस्य  चेन्नैपीठेन निरस्ता।
      परीक्षणाय पारिस्थितिकान्वीक्षणं कृतवतः नियोजितसंस्थायाः आवेदनानि न्यायासनेन नाङ्गीकृतानि। अङ्गीकारयुक्तया नूतनसंस्थया  अन्वीक्षणं कारयितव्यमिति न्याया.  पि ज्योतिमणि वर्यस्य अध्यक्षत्वेन नीतिपीठेन निर्दिष्टम्।


भारतीयमहिलाबैङ्कस्य विलयः
    महिलाभ्यः सरलसुलभबैंक सौविध्यमुद्दिश्य प्रशासनेन भारतीयमहिलाबैंकस्य स्टेटबैंकआफइंडिया इत्यस्मिन् समावेशः अनुमतः । अनुमीयते यदनेन महिलाभ्यः बैंकसौविध्य प्रदानाय साहाय्यं भविष्यति।

मणिपुरे भाजपादलेन बहुमतं प्रामाणीकृतम्
   मणिपुरविधानसभायां मुख्यमंत्रिणा बिरेनसिंहेन बहुमतं प्रामाणीकृतम् । भाजपासंयुत्या कांग्रेसदलस्येकं विधायकं समेत्य द्वात्रिंशत् विधायकानां समर्थनमधिगतम् । प्रधानमन्त्रिणः आर्थिकगतिरोधस्य समापनोद्देश्यं पूर्णतां गतम् । अपि च राज्यस्य  विकासपथि नूतन पदक्षेपः समुत्थापितः |


उत्तरप्रदेशे सम्पत्तेः विवरणप्रकरणे योगिनः वक्तव्यम् 
   उत्तरप्रदेशस्य नूतनमुख्यमंत्रिणः योगी-आदित्यनाथस्य निर्देशानुसारेण मंत्रिभिः सह अधिकारिभिः अपि संपत्तेः विवरणं प्रदातव्यमस्ति । अधिकारिभिः सह संजातोपवेशने मुख्यमन्त्रिणा विधिव्यवस्थायाः सुदृढीकरणं प्राशासनिकनियुक्तिषु पारदर्शिता आरक्षि-प्रशासने राजनीतिकव्यवधानस्य समापनं शीर्ष-प्राथमिकतारूपेण प्रतिपादितम् |


उत्तराखण्डस्य मुख्यमन्त्रिणः प्राथमिकताः 
   उत्तराखण्डस्य मुख्यमन्त्रिणा त्रिवेन्द्ररावतेन भणितं यत् पर्वतेभ्यः पलायनमवरोधयितुं  पिहितोद्योगानाम् प्रारम्भः विधातव्यः| कुमाऊँगढ़वालयोर्मिथः सुदृढसम्पर्कस्यावश्यकता विद्यते तदर्थं च  पूर्वस्थापितायां  विधिव्यवस्थायाम् परिवर्तनमपि करणीयम्  ।


महाराष्‍ट्रे चिकित्सकानां सामूहिकावकाशः
  मुंबईं समेत्य महाराष्ट्रस्य विविधक्षेत्रेषु  सोमवारे प्राशासनिकचिकित्सालयानां चिकित्सकैः स्वीय सहकर्मिणामुपरि दुराचारं विरुद्ध्य सामूहिकावकाशः कृतः, येन राज्‍ये रोगिणां समस्‍यायाः संवर्धिताः |
आभारतं अप्राप्तकार्यरताः अभियान्त्रिकज्ञाः षष्ठि प्रतिशतम्।
 नवदेहली> राष्ट्रे प्रतिसंवत्सरं अभियान्त्रिक स्नातकोत्तीर्णेषु षष्टि प्रतिशतं अप्राप्तकर्यरताः सन्ति इति प्राविधिकशिक्षाविभागस्य सूचना। प्रति संवत्सरं अष्ट लक्षं छात्राः विविधेभ्यः प्राविधिकमहाविद्यालयेभ्यः बहिरागच्छन्ति। तेषु पञ्च लक्षं छात्राणां कार्यमेव न लभ्यते। एवं प्रति संवत्सरं विंशति लक्षं कर्यदिनानि राष्ट्रस्य नष्टं भवति।
प्राविधिकमहाविद्यालयानां मूल्यच्युतिः परिहर्तुं केन्द्रसर्वकारः प्रयत्नम् आरभत।तानि-
*२००८ जनवरि आरभ्य आराष्ट्रम् एक एव प्रवेशनपरीक्षा।
* शिक्षकाणां कृते वार्षिकप्रशिक्षणम्। न करोति चेत् संस्थायाः अड्गीकारः नष्टः भविष्यति।
*प्रतिसंवत्सरं पाठ्यक्रमस्य नवीकरणम्।
*छात्राणाम् अनिवार्यप्रशिक्षणम्।
*राष्ट्रीय परीक्षा सेवा द्वारा प्रवेशनपरीक्षा स्यात्। परीक्षायाः नाम स्यात् एन इ इ टी ऐ। नीट् परीक्षा अपि एषा संस्था एव करोति।
* प्रथमा परीक्षा २०१७ डिसंबर मासे अथवा २०१८ जनवरि मासे वा।
२०२२ तमेन प्राविधिकमहाविद्यालयेषु अर्धानां कृते राष्ट्रीय अड्गीकारपरिषदा अड्गीकारः दास्यति।
* छात्राणाम् स्तरोन्नतिः न भविष्यति चेत् संस्थायाः अड्गीकारः नष्टः भविष्यति।

भारते विद्यमाना: २३ विश्वविद्यालयाः व्याजा:, अधिकाश्च प्रवर्तते देहल्याम् ।।
नवदेहली> भारते प्रवर्तमानासु तन्त्रयन्त्रसाड्केतिककलाशालासु अधिका: अपि व्याजा: । देहल्यामेव ६६ कलालयानाम् अनुमति: नास्ति । साड्केतिककलालयेषु २७९अपि व्याजा:। बिरुददानाय एतेषाम् अधिकार: न भवति । इत: स्वीक्रियमाणबिरुदस्यापि मूल्यं केवलं पत्रमात्रं स्यात् । इतोपि २३ व्याज-विश्वविद्यालयेषु  ७ देहल्यामेव प्रवर्तते। गतमासे यु जी सी तथा ए ऐ सी टी च तासां व्याजानां  तेषाम् नामानि अन्तर्जालशृड्खलासु  प्रसिद्धीकृतवन्त:। तेषां विशदांशानि  तत्तद्राज्याणि च सूचितानि इति अधिकारिभि: व्यक्तीकृतम् । तेलड्काना पश्चियबड्गाल: उत्तरप्रदेश: महाराष्ट्रा एतेष्वपि व्याजविश्वविद्यालयाः न विरला:। आगामिनी संवत्सरे एतेषु प्रवेशनं न दीयादिति एतेभ्य: ए ऐ सी टी ना निर्देशोपि दत्त:। प्रवेशनं एतेषु  निषिद्धमिति संसूच्य पत्रमाध्यमेषु  च वार्ता: दत्ता:। व्याजविश्वविद्यालयानां प्रवर्तनानि आधारीकृत्य अन्वेषणं कृत्वा विधिनिर्णयाय  राज्याणां कृते निर्देश: दत्त: इति मानवशेषिविकसनमन्त्रालयेन राज्यसभायां व्यक्तीकृतम् ।

Monday, March 20, 2017

 उत्तरप्रदेशमन्त्रिमण्डलस्य शपथग्रहणसमारोहः
भाजपादलस्य योगी आदित्‍यनाथ: लखनऊ नगरे  कांशीरामस्‍मृत्युवने समायोजिते शपथग्रहणसमारोहे  उत्‍तरप्रदेशस्य मुख्‍यमंत्री पदस्य गोपनीयतायै प्रतिज्ञापितः । राज्‍यपालेन रामनाईकेन तस्मै पदगोपनीयतायाः शपथं प्रतिज्ञापितम् । दलस्य प्रदेशाध्‍यक्षः केशवप्रसादमौर्यः राष्‍ट्रीयोपाध्‍यक्षः दिनेशशर्मा च उपमुख्‍यमन्त्रित्वेन शपथवचनं स्वीकृतवन्तौ । स्रोतोभिः विज्ञापितं यत् अनेन सहैव द्वाविंशतिः मन्त्रिमण्डलस्तरीय नवस्वतन्त्र त्रयोदशराज्यमन्त्रिभिश्च शपथवचनमभिस्वीकृतम् ।
पञ्चाबे सर्वकारवृत्तिषु महिलाभ्यः आरक्षणम्।
चण्डिगड्>  पञ्चाबराज्ये अमरीन्दर् सिंहस्य नूतनसर्वकारस्य प्रथममन्त्रिमण्डलोपवेशने परिवर्तनात्मकाः निर्णयाः कृताः। तदनुसृत्य राज्ये सर्वकारवृत्तिषु महिलानां कृते प्रतिशतं त्रयस्त्रिंशत् आरक्षणम् आयोज्यते। तद्देशस्थापनेषु अपि वनिताप्रातिनिध्यम् इदानींतमात् प्रतिशतं त्रयस्त्रिंशत् इत्यस्मात् प्रतिशतं पञ्चाशत् करिष्यति। स्वातन्त्र्यान्दोलनसेनानिनां कृते एकैकं गृहं तथा त्रिशतं यूणिट् परिमितं विद्युदपि दास्यति। उद्घाटनं, शिलास्थापनम् इत्यादिषु कार्यक्रमेषु मन्त्रिणां भागभागित्वं न भविष्यति। अपि च योजनासु स्थाप्यमानासु शिलासु मुख्यमन्त्रिणः इतरमन्त्रिणां वा नामानि न योक्ष्यन्ते , प्रत्युत शुल्कधनमुपयुज्य आयोजिता योजना इति अङ्कनीयमस्ति।

 मेधा यात्राम् आरभते !
मुम्बै> परिपूर्णरूपेण भारतेन निर्म्मितं मेधा नामिका रेल्  यानं प्रथमतया यात्रार्धां सिद्धं जातम् मेक् इन् इण्डिया पद्धथिद्वारा निर्म्मितं यानं मुम्बय्याम् सबर्बन् पथे चर्च रेल् निस्थानतः यात्रां आरभत।  रेल् मन्त्री सुरेश् प्रभुना उद्घाटनमकरोत्
 हैदराबाद्तः "मेधा सेर्वो डैव्'' इतिसंस्थया एव यानं निर्मितम्।

अस्मिन् बहवः विशेषणानि अपि विद्यते। यानस्य परिपूर्ण नियन्त्रणं रिमोट् मोणिट्टर् द्वारा भवति। यात्रावसरे एव अनेन समस्यायाः समाधानं कर्तुं शक्यते। पूर्ण समये निरीक्षणे एव वर्तते अयम्। मैक्रोफोण् उपयुज्य आशयविनिमयं चालकाय सरलतां प्रददाति। यानेsस्मिन् ११६८ आसन्तानि सज्जीकृतानि सन्ति। ६०३० जनेभ्यः यात्रां कर्तुं शक्यते। उच्चतर शीघ्रता ११० किलोमीट्टर् अस्ति। अस्मिन् १२ कक्षाः सन्ति। निर्माण व्ययं तु ४३.१३ कोटि रुप्यकाणि भवन्ति।

मासत्रयं यावत् सौदी अरेबियायां  सार्वजनीनक्षमापणम् ।
श्यामपट्टिकायां नामपतनं विना रक्षामार्ग:।
रियाद:> सौदी अरेबियायां मासत्रयं यावत् सार्वजनीनक्षमापणं प्रख्यापितम् । मार्च् २९ एतत्  प्राबल्ये आगच्छति । हज्ज् उंरा विदेशचिटिकासु सन्दर्शकचिटिकासु वा सौदीं प्राप्य चिटिकाकालावधेरनन्तरं अनधिकृततया तत्रैव वासं कुर्वतां विमानपत्तनेषु महानौकास्थानेषु  स्थलसीमाकवाटेषु वा जवासात्  (तरणपत्रं  पास्पोर्ट्)  केन्द्रेभ्य:अन्तिममुक्ति: लभेत् । किरीटावकाशिन: आभ्यन्तरमन्त्रिण:बिन साइफ राजकुमारस्य निर्देशानुसरणमेव एतत् प्रख्यापितम् । इक्कामा  उद्योगनियमलड्घका: उंरा  चिटिकावन्त: दायित्वमध्यस्था:हुरूबाकिन: एतेषामनेन नियमेन आनुकूल्यं लभते ।दण्डनं  शुल्कं  कारागारवासादिकं विहाय  एते स्वदेशं प्रतिगन्तुं शक्नुवन्ति ।प्रख्यापनात् ९० दिनाभ्यन्तरे  स्वमेधया राष्ट्रं त्यक्त्वा ये गच्छन्ति तानेव दण्डनेभ्य: मुक्तान् कुर्वन्ति ।

Sunday, March 19, 2017

रेल् यानेषु वनितायात्रिकाणां सुरक्षा दृढीकरिष्यति- केन्द्रसर्वकारः।
नवदिल्ली> रेल् यानेषु वनितायात्रिकाणां सुरक्षां दृढीकर्तुं क्रियासोपानानि स्वीकृतानीति केन्द्र रेल् यानसहमन्त्री राज्यसभायाम् उक्तवान्। यात्रिकक्लेशानां परिहाराय १८२ इति सुरक्षासाहाय्यसंख्या प्रवर्तनमारब्धा। रेल्याननिस्थानेषु सि सि टि वि व्यवस्था, महिलानां कृते वर्तमानेषु यानेषु रेल्वे सुरक्षाबलस्य [आर् पि एफ्] वनिताभटानां नियुक्तिः, मार्गसुरक्षायै श्वानसङ्घ इत्यादयः आयोजिताः।

सर्वशिक्षा अभियानस्य जनपदस्तरीय श्रेष्ठतामहोत्सवस्य परिसमाप्तिः।

अङ्कमाली> केरलेषु सर्वशिक्षा अभियानस्य जनपदस्तरीय श्रेष्ठता महोत्सवः सम्पूर्णः अभवत्। एरणाकुलं जनपदस्य महोत्सवः अङ्कमाली मण्डलस्य नियमसभा सामाजिकः रोजी एम्. जोण् उद्घाटितवान्। सर्व-शिक्षा अभियानस्य एरणाकुलं जनपदस्य अध्यक्षा श्रीमती श्रीकला आर् महोदया पद्धति-विशादीकरणम् अकरोत्। योजनायाः कार्यदर्शी जोस् पेट्ट् जेक्कब् , दीपा जी एस्  प्रभृतयः मञ्चम् अलङ्कृतवन्तः। राज्यस्तरीय-महोत्सवः मार्च मासस्य २६, २७, २८ दिनेषु अनन्तपुर्यां  बी एस् एन् एल् संस्थायाः कैमनम् परिशीलन केन्द्रे प्रचलिष्यते ।
लोके इदंप्रथमतया फ्लूरसेन्ट् मण्डूकः आमसोण् देशे दृष्टः। 
अन्धकारेsपि प्रकाशमानानि फ्लूरसेन्ट्  वर्ण- फलकानि वयम् अपश्याम खलु! फ्लूरसेन्द् दीपानामपि उपयोगं वयं कुर्मः। एवं प्रकाशमानाः मण्डूकाः इदंप्रथमतया गवेषकैः दृष्टाः। अर्जन्टीनायाम् आमसोण्  वर्षकानने  एव बर्णाडिनो रिवाडविय नाचुरल् सयन्स् संस्थायाः गवेषकैः एते मण्डूका: दृष्टाः। अस्मिन् प्रदेशे सामान्यभूतानां पृषन्मण्डूकानां विशेषवर्णघटकमधिकृत्य कृते गवेषणे यादृच्छिकतया एव अन्धकारे राजमानस्य विशेषतामपश्यन्। प्रकाशं वा अन्यवैद्युतकान्तिकतरंगान् वा आगीर्य अधिकतरंगदैर्घ्यप्रकाशस्य बहिर्निस्सरणप्रतिभासः एव फ्लूरसेन्स् इत्युच्यते। स्थल जीविषु एषा विशेषता विरलातया एव दृश्यते। सामान्यप्रकाशे अभास्वरकपिशवर्णेन  रक्तपृषदा च युक्तत्वचः एते मण्डूकाः अल्ट्रावयलट् प्रकाशे भास्वरहरितवर्णैः दृश्यन्ते। एतेषां मण्डूकानां बहिर्निस्सरितस्रवाः एव फ्लूरसेन्ट् प्रतिभासकारणमिति गवेषकै: दृष्टम्। Proceeding of Natural national academy of science इति मासिक्याः नूतनपुटे एव एतद्विषयपठनं  प्रसिद्धीकृतं दृश्यते।

Saturday, March 18, 2017

मधुमेहरोगिभ्यः छात्रेभ्यः परीक्षामण्डपे भोज्यानुमतिः।
नवदिल्ली> वार्षिकमूल्यनिर्णयार्थं प्रविष्टमानेभ्यः प्रथमप्रकारमधुमेहरोगिभ्यः छात्रेभ्यः [टैप् १] दशमी तथा द्वादशीकक्ष्या छात्रेभ्यः परीक्षामण्डपं लघुभोज्यवस्तूनि जलं च आनेतुम् अनुज्ञा दीयते। राज्यसभायां गतदिने मानवविभवसहमन्त्रिणा उपेन्द्रकुश् वाहेन विज्ञापितमेतत्।
    मधुमेहौषधम् चाकलेहउत्पन्नानि फलानि अर्धलिटर् परिमितं जलञ्च प्रवेशयितुं शक्यते। मधुमेहचिकित्साविदग्दस्य भिषग्वरस्य प्रमाणपत्रं रोगमधिकृत्य विशदीकरणं च प्रथमाध्यापकाय समर्पयितव्यम्।

उत्तराखण्डे त्रिवेन्द्र सिंहः।
नवदिल्ली> उत्तराखण्डराज्यस्य भाजपा सर्वकारस्य नेता त्रिवेन्द्रसिंहरावत्तः भविष्यति। शनिवासरे तस्य नेतृत्वे मन्त्रिमण्डलं शपथग्रहणं करिष्यति। राजनगर्यां दरादूण् मध्ये आयोज्यमाने शपथग्रहणसमारोहे प्रधानमन्त्रिणः नरेन्द्रमोदिनः सान्निध्यं भविष्यति।

सुख-भोगवस्तूनां मूल्यवर्धनम्।
नवदिल्ली>सुख-भोगवस्तूनां शीतलपानीयानां च १५/सेस् योजनाय जी एस् टी समितियोगे निर्णयः। करस्योपरि भवति सेस् । अनेन सुख-भोगवस्तूनि उन्मादकवस्तूनि, सोडा, कोला आदीनां मूल्यवर्धनस्य निर्णयः अभवत्। धूमपान 'बीडी' विषये केरलस्य अवगणनाम्  अधिकृत्य धारणा न कृता। सेस्वाह्यमानेषु वस्तुषु बीडी त्याज्या यत: अनेकेषां कर्मकराणां जीवनोपाधि: सा इति धनमन्त्रिणा तोमस् ऐसकेन केन्द्रधनमन्त्रिण: अरुणजयट्ले: कृते पत्रं प्रेषितवान्। गुरुवारे प्रवृत्तसम्मेलने कर-विभाग-कार्यदर्शिना पी मारापाण्ड्येन केरलस्य अभिप्राया: विशदीकृता:। सुख-भोगवस्तूनां सेस् अधिकतया निश्चिता  चेदपि एकैकस्य कियदिति न निश्चितम्। जी एस् टी प्रावर्त्यमाने राष्ट्राणाम् आयनष्टं परिहर्तुं सेस् द्वारा धनार्जनमेव निर्णय: ।

कोच्चि विमाननिलयस्य सुरक्षाबलं वर्धयते।
कोच्ची>कोच्चि अन्ताराष्ट्रविमाननिलयस्य टि-३ इति कार्यनिर्वहणालयस्य प्रवर्तनक्षमतां पुरस्कृत्य केन्द्र उद्योग संरक्षणसेनायाः [सिऐएस्एफ्] अङ्गबलं वर्धयितुमुद्दिश्यते। विमाननिलयस्य सुरक्षायै सि .ऐ .एस् .एफ् .संस्था एव नियुक्ता अस्ति।
     एतदनुसृत्य ३६० सैनिकानपि नियोक्तुं केन्द्रगृहमन्त्रालयेन आदेशः कृतः। अनेन कोच्ची विमाननिलयस्य सि ऐ एस् एफ् सैनिकसंख्या आहत्य ८५४ भविष्यति।

Friday, March 17, 2017

परीक्करः अङ्गीकारः प्राप्तः। 
पनजी> मनोहरपरीक्कर् सर्वकारः गोवा विधानसभायां मतदानाङ्गीकारः प्राप्तः। चत्वारिंशदङ्गयुक्तायां सभायां  द्वाविंशति सामाजिकाः परीक्कर् सर्वकाराय सहयोगं कृतवन्तः। विपक्षदलाय कोण्ग्रस् दलाय केवलं षोडश सामाजिकानां सहयोगः प्राप्तः। केन्द्रसर्वकारस्य राष्ट्रक्षामन्त्रिस्थानं त्यक्त्वा परीक्करः मुख्यमन्त्रिरूपेण सत्यशपथं कृतवान्।

ताज्महल् लक्ष्यीकृत्य ऐ एस् अनुकूल संघटना।
नवदेहली>भीकरसंघटना इस्लामिक स्टेट् भारतस्य ऐतिहासिकस्थानान् लक्ष्यीकरोतीति रहस्यान्वेषणविभागस्य सूचना। ऐ एस् अनुकूल संघटना अहवाल् उम्मत्त मीडिया सेण्टर ताज्महलं लक्ष्यीकरोतीति वार्ता। वार्तावलम्बीनिः चित्राणि तथा अन्यानि अभिज्ञानानि च प्राप्तानि। प्राप्ते चित्रे कृष्णवस्त्रं धृत्वा सायुधः एकः ताज्महलं प्रति तिष्ठति , एवं तस्य अधः नवीनं लक्ष्यमिति लिखितं वर्तते।
 सप्तत्यधिक भारतीयाः ऐ एस् मध्ये भागं स्वीचक्रुः इति सुरक्षा कर्मकराणां मतम्। केरलम् कर्णाटका महाराष्ट्रा इत्येभ्यः राज्येभ्यः अधिकाः ऐ एस् भागं स्वीकृतवन्तः। अन्तर्जालद्वारा टेलिग्राम द्वारा च जनैः सह ते संपर्कं कुर्वन्ति।
एप्रिल् 1दिनाङ्गत: वाहनानां बी एस् ४
नवदिल्ली>मलिनीकरणमानदण्डस्य निर्बन्धतया वाहनानां बी एस् ४ पद्धति: इति आशयस्य प्रबलीकरणवेलायां आशड्का: अव्यक्तताश्च  शिष्टा:। भारतस्टेज् बी एस् पाल्यमानानि वाहनानि एव आगामिमासादारभ्य निर्मातुं शक्यानि। निर्मातृणाम् एतेन सहमतिश्च वर्तते। किन्तु निर्मितपूर्वाणि  बी एस् ३ यानानां का गति: इत्यत्रैव आशड्का: शिष्टा:।

 जियोः जेतुं बि एस् एन् एल् - प्रतिदिनं जीबीद्वयस्य निश्शुल्कवाग्दत्तम्।
कोच्चि> प्रतिदिनं जीबीद्वयस्य निश्शुल्कवाग्दत्तेन सह बी एस् एन् एल्।३३९ रुप्यकाणां पुनः पूरणेन अष्टविंशति दिनानां कृते सेवनमिदं लभ्यते। एवं एप्रिल् मासे आगतस्य रिलयन्स् संस्थायाः जियोः ३०१ रुप्यकाणां  एकं जीबी इति वाग्दत्तं प्रति शक्तं पेरतिरोधं करोति बी एस् एन् एल्।एतदतिरिच्य आभारते बी एस् एन् एल् जालक्षेत्रेषु निश्शुल्कतया भाषणं कर्तुं शक्यते। अनेषु जालक्षेत्रेषु पञ्चविंशति निमेषाः निश्शुल्कतया वक्तुं शक्यते।अष्टादशदिनाड्कादारभ्य नवमिदं वाग्दत्तं प्रवृत्तिपथे आगच्छति।

Thursday, March 16, 2017

 विश्वे उत्तमानां नगराणां सूच्यां वियन्ना प्रथमा।
वियन्न >विश्वे उत्तमानां नगरमिति अष्टमे अपि संवत्सरे ओष्ट्रिया राष्ट्रस्य आस्थाननगरं वियन्नां चिनुते। विश्वे २३१ नगरेषु मेरसर् इति संस्थया कृतेन पर्यवेक्षणेन वियन्नायाः अयं स्थानलब्धिः।
 स्विट्सर्लण्ड् राष्ट्रस्य सूरिच्, न्यूसिलाण्ड् राष्ट्रस्य ओक्लण्ड्,जरमनी राष्ट्रस्य म्यूणिक्,कानडा राष्ट्रस्य वानकूर  इत्यादि नगराः यथाक्रमं द्वितीयादारभ्य पञ्चमपर्यन्तं स्थानानि स्वीचक्रुः। राजनैतिक स्थिरता, स्वास्थ्यपरिपालनं,शिक्षा,क्रमसमाधानं,विनोदं,गतागतं इत्यादि विभिन्नानां क्षेत्राणां सामर्थ्यं संशोध्य नगराणां सूची निर्माति।सूच्यां तस्यां पञ्चविंशत्यां स्थाने आगतः सिंगपूर नगरः ऐषिया भूखण्डस्थः उत्तमनगरः।तदैव विश्वस्य बृहत्तराः नगराः लण्डन्,पारीस्,डोकियो,न्यूयोरक् सिट्टि इत्यादयः प्रथम त्रिंशत्यामपि न आगताः।अमेरिकायाः प्रथमः सान्फ्रान्सिस्को नगरस्य एकोनत्रिंशत् स्थानं प्राप्तम्। युद्धेन विध्वंसितः बाग्दाद नगरः अधमनगरत्वेन अपरिगणयत्।


ब्रेक्सिट् देयकाय ब्रिटन् प्रतिनिधिसभायाः अङ्गीकारः।
लण्टन् - यूरोप्यन् संहतिं त्यक्तुमुद्दिष्टं ब्रिटन् राष्ट्रस्य निर्णयं प्रवृत्तिपथमानेतुम् समर्पिताय ब्रक्सिट् विधेयकाय प्रतिनिधिसभायाः अङ्गीकारः लब्धः। १३५ - विरुध्य २७४ मतदानानि प्राप्य एव विधेयकं ब्रिट्टनस्य प्रभुसभया उत्तीर्णमभवत्।
     अनेनाङ्गीकारेण यूरोप्यन् समवायात् बहिर्गन्तुं प्रधानमन्त्रिण्याः तेरेसा मे वर्यायाः मार्गः सुगमः जातः। राज्ञ्याः अङ्गीकार एव अवशिष्यते।

सन्तोष् ट्रॉफी - केरलस्य विजयः।
मड्गाव्>एकसप्ततितमायां सन्तोष् ट्रोफी पादकन्दुकस्पर्धायां रेल्वेस् दलं विरुध्य चत्वारि-द्वे [४-२] लक्ष्यकन्दुकक्रमेण केरलसंघस्य उज्वलविजयः। केरलस्य जोबि अगस्टिन् नामकेन त्रयः लक्ष्यकन्दुकाः , नायकेन उस्मानेन एकः लक्ष्यकन्दुकश्च प्राप्ताः। तत्र जोबि अगस्टिनस्य लक्ष्यकन्दुकाः अनुस्यूतत्रयम् [hattrick] आसीत्।
    रेल्वेस् दलाय च केरलीयेन एस् राजेषेन लक्ष्यकन्दुकद्वयं प्राप्तम्। प्रथमविजयेन केरलाय त्रयः अङ्काः लब्धाः। स्पर्धिते द्वये अपि पराजिताय रेल्वेस् दलं शून्याङ्कं संस्थितमस्ति।
   ह्यः सञ्चालिते स्पर्धान्तरे पञ्चाब- मिसोरामयोः लक्ष्यकन्दुकरहिता समस्थितिः अभवत्। अद्य गोवा×  वंगः तथा सर्वीसस् × चण्डीगढ् स्पर्धाद्वयं भविष्यति।

सैनिकाभ्यासः - यू एस् प्रति जाग्रतानिर्देशेन सह उत्तरकोरिया।
सोल् > दक्षिणकोरियया सह सैनिकाभ्यासाय सन्नद्धस्य यू एस् प्रति उत्तरकोरियायाः जाग्रतानिर्देशः । सैनिकाभ्यासे भागभागिन्याः यू एस् विमानवाहिनीनौकायाः कस्यापि प्रकोपनपरप्रवर्तनानि राष्ट्राखण्डतायाःप्रौढतायाः वा उपरि दृष्टिपथमागतानि चेत् निर्दाक्षिण्यम् आक्रमणं भवेदिति उत्तरकोरियायाः भीषणिः।                      
उत्तरकोरियायाः प्रकोपनपराणवायुधपरीक्षणानां पश्चात्तले निश्चालकविमानानाम्  आधुनिकव्यूहमेव सुसज्जं वर्तते कोरियायाम् इति पेन्टगण् वृत्तानि। दक्षिणकोरियाव्योमसेनायाः सहकारेण यू एस् व्योमसेनया कोरियायां कुनसानव्योमपत्तने ड्रोण्व्यूहः सज्जीक्रियते इति पेन्टगण् वक्ता जेफ् डेविडः सूचितवान् ।

चेरुवटूर मड़्गलूर् रयिल मार्गेण यानपरीक्षणम्।
 चेरुवटूर मड़्गलूर् रयिल मार्गेण विद्युत् रयिल् यानस्य परीक्षणधावनं विजयप्रदम् अभवत् । एतेन  षोरणूर् मड़्गलूर् रयिलमार्गेण विद्युत् यानानां धावनाय सज्जः अभवत् । कासरगोट् मण्डले निर्माणसमापनघट्टे  प्राप्तम् उप्पला वैद्युति उपकेन्द्रस्य अनुमति प्राप्ति विद्युन्मार्गेण मासद्वयाभ्यन्तरे सर्वाणि रयिल् यानानि धाविष्यन्ति।       
              
 " लोकः मानविकता प्रतिसन्धौ "
यु एन् - 1945 अनन्तरं लोकः अधुना  महती मानविकताप्रतिसन्धौ इति ऐक्यराष्ट्रसभा। अस्मिन्  14 लक्षं शिशवः दुर्भिक्षेण मृतेयुः, तस्य साध्यता अधिका इति ऐक्यराष्ट्रसभा। चरित्रे एव अतीव आपत्करः कालघट्टः एषः इति  प्रस्रौति सभा। लोकराष्ट्राणा ऐक्यभावः दुर्भिक्षः निवारणाय भवतु इति आह्वानपि सभया कृतम्।

Wednesday, March 15, 2017

पठान् कोट् व्योमसेनाक्षेत्रे जाग्रता निर्देशः- सूक्ष्मनिरीक्षणं प्रचलति।
पठान्कोट्ट् > गतसंवत्सरे भीकराक्रमणजाते पञ्जाबराज्यस्य पठान्कोट् व्योमसेनाक्षेत्रे अतीव जाग्रता निर्देशः। अज्ञातस्य एकस्य सान्निध्यमस्तीति रहस्यान्वेषणविभागस्य निर्देशानुगुणमेव निरीक्षणम्। पञ्जाब आरक्षकाः, सेना,व्योमसेना,हिमाचल प्रदेश आरक्षकाः च मिलित्वैव नीरीक्षणं कुर्वन्ति। पञ्चशताधिकाः कर्मकारिणः निरीक्षणेस्मिन् भागभाजः भवन्तीति पठान् कोट् आरक्षिमेधाविना उक्तम्। लघुविमानेन सहित आधुनिक उपाधीनुपयुज्यैव निरीक्षणम् प्रचलति। पठान्कोट् व्योमसेनाक्षेत्रं ,परितः ग्रामाः,कर्मकारिणां आवासस्थानानि इत्यादि स्थानेषु विशेषनिरीक्षणं चलति।
गतसंवत्सरे जनवरि १ ,२ दिनयोः आसीत् पठान्कोट् व्योमसेनाक्षेत्रे भीकराणां आक्रमणम् अभवत्। आक्रमणे तस्मिन् सप्त सुरक्षा कर्मकराः हताः । चत्वारि भीकराः मारिताः च।

 बीजे पी विजयः गङ्गाशुचीकरणपद्धत्याः वेगतावर्धकः भवेत् ।
 नवदिल्ली  -  उत्तरप्रदेशे उत्तराखण्डे च बी जे पिना प्राप्तविजयः गङ्गाशुचीकरणपद्धत्याः  नवजीवनप्रदायकः भवेत् । गङ्गा प्रधानतया पञ्चराज्येषु प्रवहति।तत्र उत्तरप्रदेशः , उत्तराखण्डः, झारखण्डः एतेषु राज्येषु बी जे पी एव शास्ति ।मोदिनः स्वप्नपद्धत्याः नमामि गङ्गायाः पूर्तीकरणाय अनुकूलवातावरणं प्राप्तमस्ति । 2015 मई मासे मोदिसर्वकारैः पद्धत्याः प्रारम्भः कृतः ।पञ्चवत्सरपद्धत्याः कृते 20000 कोटि रूप्यकाणि सम्भावितानि । गङ्गायाः उद्भवस्थानस्य उत्तराखण्डस्य प्रत्येकप्राधान्यमस्ति । एकस्य दलस्य प्रवाहभूमिषु शासनकालः पद्धतिनिर्वहणवेगतां वर्धयेत्।
मणिपुरे मन्त्रिमण्डलस्य शपथग्रहणमद्य 
इम्फ़ल् >मणिपुरस्य राज्‍यपालः नजमाहेपतुल्‍ला राज्‍ये प्रशासनविरचाय भाजपादलस्य विधायकदलनेतृत्वेन प्रचितं एन.बिरेन.सिंहम् आमन्त्रितवती।
शपथग्रहणसमारोहः अद्य अपराह्णे एकवादने आयोजयिष्यते। सोमवासरे श्रीबिरेनसिंहः एकविंशतिः सदस्‍यीयविधानसभायाः सर्वसम्‍मत्याः विजेतृदलनेता प्रचितः। गतदिने इम्‍फालनगरे राजभवने वार्ताहरै: सह सम्भाषमाणया नजमाहेपतुल्‍लया प्रोक्तं यत् राज्‍यविधानमण्डले बहुमतसामर्थ्ययुताय भाजपादलं प्रशासनविरचनाय आमन्त्रितः। अपि च अस्य मासस्य 22, 23 दिनांकयोः भाजपादलेन बहुमतं प्रकटितव्यम्। 

 कोच्ची मेट्रो - उद्घाटनम् एप्रिल् मासान्त्ये।
अनन्तपुरी> केरले कोच्ची मेट्रो रेल्यानपद्धतेः प्रथमसोपानस्य उद्घाटनम् एप्रिल् मासान्त्ये भविष्यति। रेल्वे सुरक्षासमित्याः निरीक्षणानन्तरं दिनाङ्कनिर्णयः भविष्यति। आलुवातः आरभ्य पालारिवट्टपर्यन्तं प्रथमसोपानगतागताय सर्वकारस्य अनुज्ञा लब्धेति के एम् आर् एल् मुख्योपदेष्टा ई श्रीधरः निगदितवान्।
     अनन्तपुर्यां मुख्यमन्त्रिणः सान्निध्ये एतद्विषयमधिकृत्य अवलोकनोपवेशनं कृतम्। आलुवातः पालारिवट्टं यावत् १३.२६ कि मी परिमितं मेट्रोनिर्माणं मार्च्मासान्त्ये सम्पूर्णतां प्राप्स्यति। ततः सि एम् आर् ऐ समित्याः स्फुटतापत्रं  लब्ध्वा गतागतम् आरब्धुं शक्यते।
Episode 37- Sanskrit News
Saraswati N, Std.9, Nirmmala Public School, Moovattupuzha, Ernakulam, Kerala.

Tuesday, March 14, 2017

आंगलशासनावसरे सार्धत्रिकोटि भारतीयाः मारिताः- शशितरूरः।
नवदेहली-आंगलशासनं भारतराष्ट्रं समूलं अविध्वंसन्निति शशि तरूरः ।तेषां किरातशासनावसरे सार्धत्रिकोटि जनाः मारिताः इति सः अवदत्।कोल्कत्ता नगरे स्थापितः विक्टेरिया स्मारकं आंगलशासनस्य भीकरं मुखं प्रकटीकुर्वन् प्रदर्शकरूपेण परिवर्तनीयम्।
  द्वि शताब्धात् पूर्वं विश्वस्य सम्पन्नतमं राष्ट्रमासीत् भारतम्।किन्तु सर्वं नशीकृत्य ते भारतात् अगच्छन्।सः अयोजयत्।

गोवायां मुख्यमन्त्रिपदस्य गोपनीयतायाः शपथग्रहणम् अद्य भविष्यति 
पनाजी > भा ज पा दलस्य वरिष्ठो नेता मनोहरपर्रीकरः अद्य गोवायाः  मुख्यमंत्री पदस्य गोपनीयतायाः शपथवचनं स्वीकरिष्यति । अस्माकं वार्ताहरेण विज्ञापितं यतसौ अद्य सायं गोवायाः राजधान्यां पणजीनगर्यां पदगोपनीयतायाः शपथवचनम् अंगीकरिष्यति ।
आईआईटी इत्यस्मिन्  स्‍नातकः  मनोहरपर्रीकरः मुख्‍यमंत्रित्वेन पुनरेकवारं गोवायाः  प्रगतेः प्रशासनस्य च दायित्वं निर्वक्ष्यति ( निभालयिष्यति )। भाजपादलस्य विधायकैः समर्थनप्रदातृभिश्च पर्रीकरस्य  प्रशासनानुभवं कौशलतं च निध्याय राज्यस्य मुख्यमन्त्रिपदाय  तस्य नेतृत्‍वम् अभियाचितम् , अनेनैव कारणेन भाजपादले विषयेस्मिन् साहमत्यं सञ्जातम् । गोवामनत्रिमण्डले द्वादशमन्त्रिणः भवितुं शक्यन्ते। परं नूतनमन्त्रिमण्डलस्य संरचनायाः स्थितिः स्पष्‍टा नैव विद्यते ।
जनाः राष्ट्रविकासार्थं अचिन्वन्। ते जनाधिपत्यम् आघुष्यन्ते-मोदी
नवदेहली>जनाः न तु वैकारिकवि षयाणां कृते राष्ट्रविकासार्थं अचिन्वनिति प्रधानमन्त्री नरेन्द्रमोदी। उत्तरप्रदेशस्य उत्तराखण्डस्य च उज्वलविजयात्परं दिल्यां दलास्थाने भाषमाणः आसीत् सः।
प्रधानमन्त्रिणः भाषणस्य प्रसक्तः अंशाः।
* जनाधिपत्यं तथा तस्य जनैः सह दृढं बन्धं निर्मातुं मार्गं भवति चयनम्।
* पूर्वं राष्ट्रविकासः अस्माकं लक्ष्यमिति वक्तुं दलाः विमुखाः आसन्।किन्तु वयं तमेव प्रधानतया स्वीचकार।
*अद्य अहं एकं नूतनं राष्ट्रं पश्यामि।युवजनानां प्रियतरं राष्ट्रम्।नवीनस्य भारतस्य निर्माणम् पश्यामि।
* विजयस्य पृष्टतः बहूनि कारणानि स्युः।किन्तु एतादृशः उज्वलविजयः जनाधिपत्यस्य चिह्नमेव।
* नवभारते स्वपद्भ्यां स्थातुं दरिद्राः अपि इच्छन्ति। तदर्थं वयमपि बद्धश्रद्धाः भवेम।
*एतादृशविजयदानेन भा जा पा विनयान्वितः सञ्जातः। एतत् जनसेवायै अवसरः भवति।
* दरिद्राणामपि अध्येतुं आजीविकां कर्तुं अवसरः स्यात्।तदा एव भारतस्य विकासः।मध्यवर्गाणां आर्थिकभारः लघूकरणीयः।
*भारते सर्वदा चयनेषु भा जा पायाः विजयप्रतिशतं वर्धमानं अस्ति। तस्य विजयस्थपतयः भवन्ति दलाध्यक्षः अमित्षा राष्ट्रीयदलनेतारः,तथा राज्यस्तरीयनेतारः।
*बृहत्तरं जनाधिपत्यदलं भवति भा जा पा।विजयं बृहत्तरं न तस्य मान्यरूपेण संरक्षणं बृहत्कार्यम्।
*चयनस्स गणितेषु न विश्वसिमि।मम लक्ष्यं न तु २०१९ परन्तु २०२२ एव।भारत स्वातन्त्रस्य पञ्चसप्तति तमः भवति २०२२.
* भारतस्य परिवर्तनाय अस्माकं सकाशे पञ्च संवत्सराणि सन्ति।
*दरिद्राणां शक्तिः तथा मध्यवर्गाणां इच्छा च भारतं ऊर्ध्वं  नयति।
*भा जा पायां समर्पितं विश्वासं वृथा न भवति इति पञ्चराज्यान् वदामः।
*सामान्यजनान् दत्ताः वाण्यः चयिताः सर्वे कार्यान्वयिष्यन्ति।
*किमर्थं एवं कष्टतां सोढ्वा कार्यं करोमि इति जनाः पृच्छन्ति।इतः परं अभिनन्दनं किमस्ति।
* त्रीणि कार्याणि मया उक्तम्।वयं नवीनाः,परिचयरहिताः,स्खलितानि स्युः।परन्तु दरुद्देश्येन कदापि न प्रवर्तयामः।कष्टताम् अनुभूयैव प्रवर्तयामः।
*अस्माभिः निर्मितेषु सर्वकारेषु सर्वेषां कृते, अनुकूलानां प्रतिकूलानां च कृते शासनं कुर्मः।विवेचनं प्रदर्शयितुं अस्माकं अधिकारः नास्ति।
* सर्वकारः सर्वेषाम् अस्ति।दरिद्राणां कृते वयं प्रयत्नं कुर्मः।नवभारतनिर्माणाय प्रयत्नं कुर्मः। मोदी व्यक्तीचकार।
 योगानन्तरं द्वयोः अपि राज्ययोः मुख्यसचिवान् निर्णेतुं अनुबन्धयोगः प्रारभत।

Monday, March 13, 2017

गोवायां परीक्करः मुख्यमन्त्री, मणिप्पूरे अपि भाजपा भविष्यति। 
नवदिल्ली > त्रिशङ्कुस्वर्गे वर्तिते गोवाराज्ये केन्द्रक्षामन्त्री भाजपा नेता च मनोहरपरीक्करः मुख्यमन्त्री भविष्यति। गोवा राजनैतिकमण्डले स्वस्य स्वीकार्यतायाः प्रभावस्य आधारे स्वतन्त्रसामाजिकानां लघुदलानां च सहयोगं प्राप्तवान् परीक्करः सर्वकाररूपवत्करणस्य अधिकारवादेन राज्यपालं मृदुल सिंहम् अमिलत्। ४० अङ्गयुक्तविधानसभायां भाजपादलाय २२ सामाजिकानां सहयोगः प्रतीक्ष्यते। मुख्यमन्त्री भवितुं पराक्करः देशस्य रक्षामन्त्रिपदं त्यक्ष्यति।
    मणिप्पूरे अपि भाजपादलेन मन्त्रिसभां रूपवत्कर्तुं प्रयत्नः आरब्धः। ६०अङ्गविधानसभायां  दलाय २१ स्थानानि सन्ति। नागा पीप्पिल् पार्टी , लोक जनशक्ति पार्टी च भाजपायै सहयोगं प्रख्यापितवन्तौ।  किन्तु मणिप्पुरविधानसभायां अङ्गसंख्यायां बृहत्तमेन कोण्ग्रस्दलेनापि मन्त्रिसभारूपवत्करणयत्नः आरब्धः अस्ति। तत्र कोण्ग्रस् दलाय २८ सामाजिकाः सन्ति। केवलभूरिपक्षाय अङ्गत्रयस्य न्यूनता। राज्यस्य कोण्ग्रस्दलस्य शोधनासमित्यध्यक्षस्य रमेश् चेन्नित्तलावर्यस्य नेतृत्वे प्रादेशिकदलानां सहयोगाय चर्चा आरब्धाः।

साम्पत्तिकभारः न्यूनीक्रियते  इति  नरेन्द्रमोदिः
उत्तरप्रदेशजनविधिः भारताय नूतनदिशाबोधं प्रददाति इति प्रधानमन्त्रिणा सूचितम् । तमे वर्षे नवीनभारतं भविष्यति । तस्य आधारशिला जनविधिना स्थापिता इति च तेन योजितम् ।सामान्यजनानां  साम्पत्तिकभारसम्मर्दानां लघूकरणमेव सर्वकाराणाम् अनन्तरयोजना इति अनेन उद्घोषितम् ।
संस्कृताध्यापकानां कर्मसुरक्षा कार्या - संस्कृताध्यापकफेडरेषन्।
कोच्ची> केरळेषु विद्यालयीयैः संस्कृताध्यापकैः तेषाम् अध्यापनमण्डले अनुभूयमानानां सेवनसंबन्धिनां समस्यानां शाश्वतपरिहारः कार्य इति अध्यापक संघटनस्य राज्यनिर्वाहकसमित्या निवेदितम्। संस्कृतपठनाय केषाञ्चनछात्राणां न्यूनतया बहवः अध्यापकाः सेवनमण्डलात् बहिर्गच्छन्तः सन्ति। तेषां कर्मसुक्षायै सर्वकारस्य जाग्रता भवितव्या।
    तथा च भागिककालिक [part-time]   अध्यापकानां भविष्यनिधिः , नीचस्तरीय कक्ष्यासु अध्यापकनियुक्तिः इत्यादिविषयेष्वपि अनुकूलनिर्णयः भवितव्यः इति समित्या निवेदितम्।
     एरणाकुलम् अध्यापकभवने आयोजिते समित्याः उपवेशने राज्याध्यक्षः पद्मनाभः आध्यक्ष्यम् अवहत्। कार्यदर्शिप्रमुखः पि जि अजित्प्रसादः, सनल् चन्द्रः, टि के सन्तोष् कुमारः, अय्यम्पुष़ा हरिकुमारः इत्यादयः चर्चां नीतवन्तः।

Sunday, March 12, 2017

उत्तराखण्डे अपि भाजपा; मणिप्पूरपञ्चाबौ कोण्ग्रस् दलाय आश्वासः; 
गोवायां त्रिशङ्कुः।
 नवदिल्ली> उत्तरप्रदेशम् अधिकतया उत्तराखण्डराज्ये अपि भाजपादलस्य उज्वलविजयः। स्पर्धितेषु सप्ततिस्थानेषु सप्तपञ्चाशत् स्थानानि सम्प्रप्य भाजपादलं विजयपीठमारूढवत्। किन्तु राज्याध्यक्षः अजयभट्टः पराजितः। तथा इदानांतनमुख्यमन्त्री कोण्ग्रस्नेता च हरीष् रावत्तः स्पर्धिते स्थानद्वये अपि अभिभूतः अभवत्। पञ्चाबराज्ये तु दशवर्षीयाणां शिरोमणि अकालिदल्- भाजपा सख्यशासनास्य

रुप्यकपत्राणां निरोधनं जनप्रीतिः न्यूनीकृतम् तथापि मोदीप्रभावेन उत्तरप्रदेशं भा जा पा अग्रहीत्।
वाराणसी>उत्तरप्रदेशेन साकं पञ्चराज्याणां नियमसभा चयनात् मासेभ्यः प्राक् आसीत् नरेन्द्रमोद्याः सहस्र पञ्चशत रुप्यकपत्राणां निरोधनोद्घोषणम्।भारतराष्ट्रस्य प्रायः सर्वे पत्रिकाः तथा नवमाद्ध्यमाः च मोद्याः एनं निर्णयं असमीचीनतया अविमर्शन्।किन्तु इदानीं तेषां वाणीषु किञ्चित् परिवर्तनं दृश्यते। रुप्यकपत्राणां निरोधनानन्तरं कतिपयसप्ताहाभ्यन्तरे एकस्य राष्ट्रीयमाध्यमस्य नेतृत्वेन युपी राज्ये एकसप्तति जिल्लासु सर्वेक्षणं आयोजितम्।तस्मिन् भा जा पायाः जनप्रीतिः विशिष्य ग्रामेषु न्यूनं जातमिति तैः प्रस्तुतीकृतम्।परन्तु इदानीं ३८४ मध्ये ३१२ मण्डलेषु विजयं प्राप्य इदानीमपि युपी राज्यं मोद्या सहैव इति व्यक्तीकृतम्।मोदी युप्याः हितायैव तिष्ठतीति जनविकारः एव एतस्य विजयस्य निदानम्। तथा देवभूमौ उत्तराखण्ड् राज्ये अपि ७० स्थानेषु ५७ मण्डले भा जा पा विजयं प्राप्तः।शासन दलस्य कोण्ग्रस् कृते केवलं एकादशैव आसनमेव लब्धम्।द्वौ स्वतन्तन्त्रतया विजयं प्राप्तौ।राज्ये भा जा पा ४६.५ प्रतिशतं सम्मतिदानं प्राप्तम्।उत्तराखण्डस्य राजनीतौ प्रथमवारमेव एकस्य देशीयदलस्य एतादृश विजयं अभवत्। सर्वेषां दलाड्गानां कृते नरेन्द्रमोदी तथा दलाध्यक्षः अमित् षा च अभिनन्दनानि व्याचक्रतुः।

 न्यायाधिपाय कर्णाय सर्वोच्चन्यायालयस्य ग्रहणपत्रम्।
नवदेहली>न्यायालयालक्ष्य उपक्षेपे न्यायालये अनुपस्थितौ कोल्कत्ता उच्चन्यायालयस्यस्य न्यायाधिपाय कर्णाय परमोन्नतनीतिपीठस्य ग्रहणपत्रम्।भारतस्य इतिहासे प्रथमा एतादृशी न्यायाधिपं  प्रति प्रवृत्तिः।उन्नतन्याधिपः जे एस् कोहर अद्ध्यरूपेण वर्तमाना सप्ताड्गसमितिः निर्णयमिदं स्वीकुर्वन्।
   अस्मिन् मासस्य एकत्रिंशत् दिने प्रभाते उपक्षेपस्य अस्य प्रस्तुतीकरणवेलायां कर्णस्य उपस्थितिः स्थिरीकर्तुं ईदृशं निर्णयं अस्वीकरोदिति न्यायालय स्पष्टीचकार।बंगाल डी जी पि स्वयमेव ग्रहणपत्रं कर्णाय दातव्यमिति न्यायालयः अवदत्। मद्रास्  उच्चन्यायालयस्यस्य उन्नतन्यायाधिपं तथा सेववृतानां न्यायाधिपान् च उद्दिश्य खलवृत्तिः आरोप्य परमोन्नतनीतिपीठस्य न्यायाधिपाय प्रधानमन्त्रिणे तथा प्रतिपक्षनेत्रे पत्रप्रेषणमस्ति कर्णस्य न्यायालयालक्ष्य उपक्षेपः।


 संस्कृतं सङ्गीतं च आक्रमणोत्सुकतां नाशयतः-
श्री शङ्कराचार्य विश्वविद्यालयस्य उपकुलपतिः।
कोची >इदानीं लोके सर्वत्र अशान्तिरेवभवति। वार्ता माध्यमेषु आक्रमणवार्ताः दृश्यन्ते। अस्याः परिहाराय संस्कृतं सङ्गीतं च पाठनीयम् इति कालटी श्री शङ्कराचार्य विश्वविद्यालयस्य उपकुलपतिना डॉ. एम् सि दिलीप् कुमारवर्येण उक्तम्।
एरणाकुलजनपदस्य मूवाट्टुपुषप्रदेशे तिरवुंप्लाविल् -सनातनस्कूल् ओफ् लैफ् इति संस्थया निर्मिता संस्कृतगानगुच्छस्य लोकार्पणं कृत्वा भाषमाणः आसीत् सः। विश्वसंस्कृतप्रतिष्ठानस्य राज्याध्यक्षस्य डा. पी के शङ्करनारायणस्य आध्यक्ष्ये प्रवृत्ते कार्यक्रमे संस्कृतभारत्याः विश्वविभागकार्यदर्शी डा. के एन् पद्मकुमारः मुख्यभाषणं कृतवान्। सनातनस्कूल् ओफ् लैफ् संस्थायाः निदेशकः नारायणशर्मा गानरचयिता धनेष् नम्पूतिरी गायकः प्रवीण् काम्प्रम् इत्यादयः कार्यक्रमे उपस्थिताः आसन्।

Saturday, March 11, 2017

मोसूलतः बाग्दादी पलायितः। 
मोसूल्> इराख् देशे सैन्यस्य अग्रानीके अनुस्यूते ऐ एस् इत्याख्यायाः भीकरसंस्थायाः स्वयंप्रख्यापितनेता अबूबक्कर् अल् बाग्दादी पलायनेन प्राणान् रक्षितवान् इति सूचना। मोसूलस्थान् प्रादेशिकनेतॄन् प्रति युद्धं नेतुम् आह्वानं कृत्वा एव बाग्दादी नगरं त्यक्तवानिति अमेरिक्कन् सुरक्षाविभागेन निगदितम्। ऐएस् भीकरान् पृथक्कर्तुं मोसूल् नगरं प्रति प्रधानवीथेः अभिभवनात् पूर्वमेव बाग्दादी नगरं त्यक्तवानिति अमेरिक्कायाः प्रतिरोधवक्त्रा उक्तम्। अस्मिन् मासाद्ये आसीत् सैन्येन मोसूल् राजवीथेः नियन्त्रणं प्रगृहीतम्।

कूपीजलस्य भिन्नमूल्यानि -केन्द्रसर्वकारः अन्विष्यति।
नवदिल्ली >प्रायशः सर्वाः कूपीजलस्वायत्तसंस्थाः भिन्नस्लेषु भिन्नमूल्यानि स्वीकुर्वन्ति इत्यसिन् विषये केन्द्रसर्वकारः विशदीकरणम् अन्विष्यति  स्म । विमानस्थानकेषु भोजनालयेषु वाणिज्यकेन्द्रेषु मूल्यानां भेदः एव कारणम्। एतत्परित्यज्य समानमूल्यमेव  सर्वत्र भवेत् इति सर्वकारनिर्देशः। अस्मिन् विषये भक्ष्य - उपभोक्तृ-कार्यमन्त्रालयेन दोषारोपणम् अस्तीति सूचितम्। कूपिषु भिन्नमूल्यमेव मुद्रितम् इत्ययं विषयः अपि मन्त्रिणा राम् विलास् पास्वान् महाशयेन सूचितम्। इतः परं समानमूल्ययुक्ताः कूप्यः एव सर्वत्र उपलभ्येरन् इति सः असूचयत्। एतत् विरुद्धः यः कोऽपि लधुपानीयादीनाम् अधिकमूल्येन विक्रयं करोति सः दण्डार्हः इति अक्तूबर मासे मन्त्री उक्तवानासीत्।  दशप्रतिशतात् आरभ्य विंशतिप्रतिशतपर्यन्तम् अधिकं मूल्यं स्वीकृत्यैव जलादीनि पानीयानि विक्रियन्ते स्म। कदाचित् कोक्ककोला पानीयादिकस्य विक्रयं कूप्यां मूल्यम् असूचयित्वापि कुर्वन्ति स्म इत्यपि निरीक्षितम् अस्ति।

Friday, March 10, 2017

सप्ततिसहस्रंकोटिरूप्यकाणाम्  अन्यायधनम् अलभत इति एस् ए टि               
नवदेहली> इतः पर्यन्तं सप्ततिसहस्रंकोटिरूप्यकाणा म् अन्यायधनम् अलभत इति परमोच्चन्यायालयद्वारा नियुक्तः विशिष्टान्वेषणसंघः। एस् ए टि उपाध्यक्षः जस्टिस्  अरिजित् पसायत् एव कार्य मिदं न्यवेदयत्၊ एसएटि इत्यस्य षष्ठ म्आवेदनं एप्रिल मासे परमोच्चन्यायालयाय समर्पयेत् इति न्यायाधिपः न्य वेदयत्।၊
 विविधकेन्र्दसर्वकारविभाग वरिष्ठाध्यक्षाणां मेलनानन्तरमेव एतावत्पर्यन्तं प्राप्तस्य अन्यायधनसम्न्धि वार्तां न्यायाधीशः पसायत् महोदयः प्राकाशयत्। आगामिमासे प्रथमवारे मध्यकालावेदनं समर्पयिष्यति।  अन्यायधननिवारणाय  एस् ए टि अनेकनिर्देशान् असूचयत् इति पसायत् महाशयः अवदत्।

बहून् निर्देशान्  केन्र्दसर्वकारः आविष्कृतवान् आसीत्। शेषाः सर्वकारस्य सजीवपरिगणनायां सन्त्येव। अन्यायधनावरोधाय ऊर्जितकार्यक्रमाः आयोजिताः इति श्रूयते । पञ्चदशलक्षरुप्यकेभ्यः अधिकं धनं यः स्ववशे स्थापयति चेत् अनधिकृत सम्पाद्यरूपेण तत् परिगण्य्य न्यायक्रमः स्वीकरीणीयः इति प्रधाननिर्देशादिकंकेन्द्रसर्वकारः आलोच इति पसायत् महोदयः असूचयत्।
त्रिलक्षाधिकरुप्यकाणां विनिमयः धनपत्ररूपेण येनकेनापि क्रियते चेत् तत् दण्डार्हमिति  निर्देशं च केन्द्रसर्वकारः परिगणयति इति च सः असूचयत्।

गार्हिकभोजनं रोगान् निष्कासयति- डी जी पि लोकनाथ बेहरा
तिरुवनन्तपुरम्>क्रित्रिम भोज्यानि  तथा पेयानि त्यक्त्वा गार्हिकभोज्यं पेयं च स्वीकुर्युश्चेत् मारकरोगेभ्यः मोक्तुं शक्यते इति डीजीपि लोकनाथ बेहरा।विश्व यकृत् दिनसंबन्धिनं समारोहं उद्घाटयन्नासीत् सः।
  प्रतिदिनं समीचीनतया जलपानं कुरुते चेत् मूत्राशयसंबन्धिभ्यः व्याधिभ्यः मुक्तिः प्राप्यते।तेन सह व्यायामोपि आवश्यकः इति सः अयोजयत्।
   चिकित्सा महाविद्यालयस्य नेफ्रोलजी विभागः, मृतसञ्जीवनी,तिरुवन्तपुरस्य नेफ्रोलजी संघः ,समग्रं हेल्त् फौण्डेषन् इत्यादयः संयुक्ततया समारोहः समायोजयन्।अड्गदान प्रोत्साहन अन्तर्जालजालकस्य उद्घाटनं सी आर पी एफ् डीऐजी डा.अशोक् कुमारेण निर्व्यूढम्।
  डा.मोहनदास् महोदयेन रचिताः अवयवदानसंबन्धीनि कविताः तथा केरलराज्ये यकृत् रोगाः इत्यादि ग्रन्थाणां प्रकाशनञ्च अभवत्।

ग्वाटिमाला शिशुभवने अग्निबाधा- २० संख्याः मृताः
ग्वाटिमाला सिट्टी > अग्नि बाधया ग्वाटिमाला शिशुभवने विंशति छात्राः मृताः पञ्चविंशति व्रणिताः च । सान्होसायाः वेर्जिन् डि ला असुन् सियोन् शिशुभवनस्य सप्तदश वयःपर्यन्ताः शिशवः एव इयं घटनायां पतिताः । व्रणिताः ग्वाटिमाला सिट्टीस्थां आतुरालये प्रविष्टाः
गार्हिक पीडनेन दुखितानां अलक्ष्येन पथि परिभ्रमन्तां शिशूनां पालनकेन्द्रः भवति अयम् । ४०० शिशूनां वासस्थाने अष्टचत्वारिंशदधिक सप्तशत (७४८ ) संख्यामिताः शिशवः उषिताः आसन् । अन्न पेयादयः उचित रुपेण न आसन् इत्यनेन शिशवः प्रतिषेधं प्रकाश्य तिष्टन्नासीनः सन्दर्भः आसीदयम्। अस्याः दुर्घटनायाः सन्दर्भस्य आनुकूल्यमुपयुज्य षष्टिसंख्यामितः शिशवः पलायिताः च।

Thursday, March 9, 2017

मृतदेहः न आवश्यकम् - तीव्रवादेः पिता
लख्नौ> आरक्षकानां नालिका-शस्त्रप्रहरणेन मृतस्य सयिफुल्लनामकस्य पिता सर् ताज़ः एवं वदति। सः वञ्चकः अस्माकं पुत्रः न। वयं भारतीयाः, अत्र जन्मलब्धाः, अस्माकं पूर्वजाः अपि भारतीयाः । देशद्रोह प्रवर्तनरताः अस्माकं पुत्रः न अतः तस्य मृत शरीरः न आवश्यकम् इति पित्रा उक्तम्।
पुत्रस्य देशद्रोह प्रवर्तनान्‌ अधिकृत्य पूर्वज्ञानं नासीत् इति च तेन निगदितम्।
ताक्कूर् गञ्च् परिसरे १२ घण्टा पर्यन्तं वर्तमाने मिथयुद्धे एव सेय्फुल्ला मारितः। ऐ एस् पताका रयिल् यानस्य समय सारिणी, कर्तरी, धनम्, नालिकाशस्त्राणि गोलिका च एतस्य पार्श्वतः लब्धानि वस्तूनि आसन्

निश्शुल्कतया पाकवातकं लब्धुम्  आधारपत्रम् अनिवार्यम्।
नवदेहली>दरिद्ररेखायाः अधस्तानां वनितानां निश्शुल्कपाकवातकं लब्धुम् आधारपत्रम् अनिवार्यम्। गतसंवत्सरे दरिद्ररेखायाः अधस्तानां पञ्च कोटि स्त्रीणां पाकवातकं दीयमाना प्रधानमन्त्री उज्वल योजना राष्ट्रसर्वकारः स्थापिता।
  इतः आधारपत्ररहितानां कृते पाकवातकं न लभ्यते। तादृशाः मेई मासस्य  एकत्रिंशत् दिनाभ्यन्तरे निवेदनं दातव्यम्। निवेदनं दत्वा तस्य प्रत्यभिज्ञानपत्रेण निश्शुल्कपाकवातकार्थं निवेदनं कर्तुं शक्यते। तेन सह सर्वकाराड्गीकृत प्रत्यभिज्ञानपत्रेषु एकमपि समर्पणीयम्।

केरळेपि पेप्सि - कोला विक्रयनिरोधाय वणिक्समूहः। 
कोष़िक्कोट् >पेप्सि-कोला उत्पन्नानां विक्रयणं समापयितुं केरलेषु व्यापारिसंधैः निर्णीतम्। आगामिनि सप्ताहे मुख्यमन्त्रिणा सह चर्चां कृत्वा एतदधिकृत्य प्रख्यापनं भविष्यतीति व्यापारि-व्यवसायि एकोपनसमितीत्यस्य वणिक्सङ्घस्य अध्यक्षः टि नसिरुद्दीनः प्रोक्तवान्।
    शीतलपानीयव्वसायशालानां जलचूषणे प्रतिषिध्य एव एतादृशनिर्णयः व्यापारिभिः स्वीकृतः। केरले सप्तलक्षं व्यापारिणः पेप्सी-कोला उत्पन्नानां विक्रेताररूपेण सन्ति।  अस्मात् मासाद्यादारभ्य तमिल् नाट् राज्ये अपि समानकारणेन एतेषां विक्रयणं समापितमासीत्।

 स्वल्पधनमात्रावशिष्टदण्डनं तथा ए टि एम् व्यवहारशुल्कं च निराकर्तुं सर्वकारस्य निर्देशः।
नवदिल्ली> वित्तकोशाधारपुस्तकेषु स्वल्पधनमात्रम् अनवशिष्टं चेत्  तथा  धनादानयन्त्राणि [एटिएम्] निश्चितवारैः अधिकम् उपयोक्तुं च धनशुल्कदण्डनाय वित्तकोशानां निर्णयं निराकर्तुं केन्द्रसर्वकारेण आदिष्टम्। वित्तकोशाधिकृतानां निर्णयं विरुध्य जनरोषः उद्भूतः। सञ्चयसंख्यानेषु (savings account) यैः अल्पिष्ठावशेषः न प्रतिपाल्यन्ते तेभ्यः २० - १०० रूप्यकाणां धनदण्डं स्वीकर्तुं निर्णयः कृतः आसीत्।
       तथा च भारतीय स्टेट् बैंकस्य धनादानयन्त्रेभ्यः प्रतिमासं पञ्चवारेष्वधिकानां व्यवहाराणां दशरूप्यकाणि स्वीकृतानि । एषः निश्चय अपि जनरोषाय कारणमभवत्। अत एव निर्णयस्य पुनःशोधनाय आदेशः कृतः।

Wednesday, March 8, 2017

छात्रेषु उत्तमव्यक्तित्वनिर्माणः एव अध्यापकानां कर्तव्यः - मद्रास् उच्चन्यायालयः।
चेन्नै > सहाध्यापकान् प्रतिरोद्धुं  व्याज पीडनारोपेन याचिकां दत्तवती विद्यालयस्य प्रथमाध्यापिका । घटेनेयं रामनाथपुरं सर्वकारीयविद्यालये सञ्जाता। अध्यापिकया कृतं नीचकर्मं कदापि न सम्भव्यमासीत् इति उच्चन्यायालयेन निगदितम्। प्रधान अध्यापिकायाः अध्यापनदोषान् अधिकृत्य संक्षोपिताः त्रयः शिक्षकाः इत्यस्मात् तान् प्रति विप्रतिपत्ति-कारणात् एव इयम् अध्यापिका एतादृशं नीचप्रवृत्यर्थम् उद्यता । छात्रेषु उत्तमव्यक्त्व निर्माणः अध्यापकानां धर्म एवI तस्मिन् सन्दर्भे दुष्कर्माय एका छात्रा अनाया प्रेरितम् इत्यस्मात् २५०० चतुरश्रपादमितां भूमिं करुवेल नाम दुष्टसस्यस्य समूलनाशः करणीयः इति दण्डः न्यायाधिपेन एस् वैद्यनाथेन प्रख्यापितः। करुवेल सस्यस्य व्यापनेन जल दौर्लभ्यं भविष्यतीति विज्ञाः वदन्ति।

एस् एस् एल् सि , एछ् एस् एस् परीक्षाभ्याम् अद्य शुभारम्भः।
कोच्ची>केरलीयछात्राणां शैक्षिकमण्डले सुप्रधानं परीक्षाद्वयम् अद्य समारभते। SSLC नामिका  दशमीकक्ष्यायाः संवत्सरीयपरीक्षा तथा उच्चतरस्तरीया Plus 2 परीक्षा च मार्च् अष्टमदिनाङ्कादारभ्य प्रचलति। plus1परीक्षा अपि अद्यैव आरभते।
       SSLC परीक्षायै ४,५५,९०६ छात्राः Plus2  परीक्षार्थं ४,४२,४३४ छात्राश्च भवन्ति। दशमीकक्ष्यापरीक्षा मार्च् २७तमे समाप्यते। अस्याः मूल्यनिर्णयः एप्रिल् तृतीयदिनाङ्कादारभ्य एकविंशति तम दिनाङ्कपर्यन्तं भविष्यति।

सि बी एस् इ छात्राणां कृते Mobile App
नव दिल्ली > केन्दीयमाध्यमिकशिक्षाबोर्डद्वारा परीक्षाकेनद्राण्यन्वेष्टुं छात्राणां साहायतार्थं Mobile App इति दूरभाषचरिष्णुतन्त्रमेकं विनिर्मितमस्ति, अनेन मोबाइल-एप्प्-माध्यमेन छात्राः परीक्षाकेन्द्राणामन्वेषणकर्तुं पारयिष्यन्ति | ध्यातव्यमिदं यत् बोर्ड-परीक्षायाा श्वो  प्ररब्धा  भविता | अस्यां परीक्षायां १०th १२th कक्षयो: छात्राः सम्मिलिताः भविष्यन्ति |
Episod 36, Abita Hallej, Sree Narayana U P School, Ayavana, Moovattupuzha, Ernakulam, Kerala.

Tuesday, March 7, 2017

160 जनानां प्राणापहरणे पाकिस्थानस्य हस्तक्षेपं व्यक्तीकृत्य दुरानी।
 नवदेहली>षट्षट्यधिकैकशत जनानां प्राणापहृत मुम्बाई भीकराक्रमणस्य पृष्टतः पाकिस्थानराष्ट्रं आस्थानीकृत्य प्रयतमाना भीकरसंघटना अस्तीति पाक् नयतन्त्रज्ञः महम्मूद् अलि दुरानी अवदत्। मुम्बाई आक्रमणस्य पृष्टतः लक्षर ई तोयिबा अस्तीति भारतस्य प्रस्तावं शाक्तीकुर्वन्ति दुरान्याः वाण्यः।सीमामुल्लंख्य कृतस्य आक्रमणस्य निदर्शनमासीत् तदिति सः एकोनविंशतितम ऐषियन् सुरक्षा परियोजनायां अभाषत। इदानीं पाकिस्थाने वर्तमानं हाफिस् सयिद् इति भीकरं प्रति तीव्रं दण्डनरीतयः पाक्सर्वकारः स्वीकुर्यादिति तेन उक्तम्।
२००८ तमे समुद्रेण आगतैः दश भीकरैः मुम्बाई नगरे आक्रमणं अकुर्यात्। तदानीं पाक् सुरक्षा उपदेशकः आसीत् अलि दुरानी। आक्रमणानन्तरं सप्राणग्रहीतस्य अज्मल् कसबिति भीकरस्य वधदण्डनं अभवत्।
आक्रमणानन्तरं पाकिस्तान दूरदर्शने आक्रमणमधिकृत्य मया कृताः प्रस्तावाः पाकिस्तानाय न अरोचत अत एव अहं स्वस्थानात् निष्कासितवानिति सः अयोजयत्। ग्रहीतः भीकरः अज्मल् कसब् पाक् नागरिकः इति वादेन तदान्तीन्तन पाक् प्रधानसचिवः यूसफ् रासा गिलानी दुरानिं स्थानभ्रष्टः अकरोत्।

अल्पिष्ठावशेषदण्डं ए टि एम् व्यवहारशुल्कं च निराकर्तुं सर्वकारस्य निर्देशः।
नवदिल्ली > वित्तकोशसंख्यानेषु अल्पिष्ठावशेषराहित्यस्य तथा  धनादानयन्त्राणि [एटिएम्] निश्चितवारैः अधिकम् उपयोक्तुं च धनशुल्कदण्डनाय वित्तकोशानां निर्णयं निराकर्तुं केन्द्रसर्वकारेण आदिष्टम्। वित्तकोशाधिकृतानां निर्णयं विरुध्य जनरोषः उद्भूतः। सञ्चयसंख्यानेषु (savings account) यैः अल्पिष्ठावशेषः न प्रतिपाल्यन्ते तेभ्यः २० - १०० रूप्यकाणां धनदण्डं स्वीकर्तुं निर्णयः कृतः आसीत्।
       तथा च भारतीय स्टेट् बैंकस्य धनादानयन्त्रेभ्यः प्रतिमासं पञ्चवारेष्वधिकानां व्यवहाराणां दशरूप्यकाणि स्वीकृतानि । एषः निश्चय अपि जनरोषाय कारणमभवत्। अत एव निर्णयस्य पुनःशोधनाय आदेशः कृतः।

Monday, March 6, 2017

कण्णूर् नगरे व्याघ्रस्य आक्रमणं -  व्रणिताः चत्वारः आतुरालयं प्रविष्टाः
कण्णूर्>कण्णूर्  रयिल् निस्थानस्य परिसरे विद्यमानः  रयिल् पारंगमन-द्वारसमीपे व्याघ्रस्य स्वैरविहारः। मोय्दीन् देवालय समीपस्थे सस्यगुञ्जेषु मध्यानानन्तरं त्रिवादने एव व्याघ्रः दृष्टः। व्याघ्रस्य आक्रमणेन व्रणिताः  चत्वाराः पथिकाः आतुरालयं प्रविष्टाः। एषु एकः बंगालराज्यस्थः भवति।

जनाः बहिः न गन्तव्याः। सदा जाग्रतया स्थातव्याः इति वनपाल विभागः निर्देशः अदात्। आरक्षकाः वनपालकाः अग्निशमन सेनानिनः च अष्टघण्टा पर्यन्तं प्रयत्नं कृत्वा व्याघ्रः गृहीतः।
शीघ्रम् आगतानां जनानां आक्रोशात् भीतः व्याघ्रः सस्यनिकुञ्जे निलीनः आसीत्। जनपदाधिकारिणः अनुज्ञया नालिकाशास्त्र-प्रयोगेण एव व्याघ्रः गृहीतः।


शौचकूपमालिन्यं नद्यां प्रक्षेप्तुमागताः  देशवासिभिः धाविताः। भारवाहनं पतितञ्च।
मलप्पुरम्> शौचकूपमालिन्यं नद्यां प्रक्षेप्तुमागताः देशवासिभिः जनैः धाविताः।रक्षापरिश्रमेण भारवाहनं   त्रिशत् मीट्टर अधः पतित्वा त्रयः क्षतजाः सञ्जाताः।निलम्बूर जिला आतुरालयस्थं शौचकूपमालिन्यं निष्कासयितुं समयार्जितं भारवाहनं शौचकूपमालिन्यं क्षेप्तुं कुतिरनद्याः वटपुरप्रान्ते आगतम्। देशवासिनां मेलनेन भारवाहनं झटिति तैः चालितम्।पञ्च जनाः आसन् भारवाहने। औडायिक्कल् क्षेत्रे पञ्च कि.मि दूरे जलप्रवाहः स्थगितः। तत्र मालिन्य-निक्षेपणमासीत् तेषां उद्देश्यम्।
 चतुः चत्वारिशत् नदीभिः सम्पन्नमपि जलदौर्लभ्येन तप्तं राज्यं भवति केरलम्। अत्रत्य ईदृशं जनविद्रोह कर्माणां तादृशनि दण्डनानि दातव्यानि यानि राष्ट्रविद्रोहिणां देयानि।

Sunday, March 5, 2017

केरलस्य आयव्ययपत्रम् - सार्वलौकिकमण्डलानाम् आधारसुविधाविकासाय प्राधान्यम्। 
अनन्तपुरी >स्वास्थ्य शैक्षिकादिषु  सार्वजनीनमण्डलेषु आधारविकासं लक्षीकृत्य केरलसर्वकारस्य आयव्ययपत्रं वित्तमन्त्रिणा डो.तोमस् ऐसक् वर्येण विधानसभायाम् अवतारितम्। आधारसुविधाविकासनिधिरेव  [किफ्बि] सुप्रधानपद्धतीनां वित्तस्रोत़रूपेण परिगण्यते।
प्रमुखपद्धयः - चिकित्सा कलालयेषु उच्चतरविद्यालयेषु च अध्यापकपदानि स्रक्ष्यन्ते।
स्त्रीसुरक्षार्थं नूतना पद्धतिः आविष्करिष्यते।

Saturday, March 4, 2017


गणितोत्सवे  रसकरं गणितम्।
कोच्ची >केरल-राज्ये सर्वशिक्षा अभियानस्य गणितोत्सवः समाप्ति प्रायः अभवत्, । अस्मिन् शैक्षिकसंवत्सरे सर्वशिक्षा अभियानेन विशेषतया आयोजिता योजना भवति गणितोत्सवम् । राज्यस्तरीय जनपदस्तरीय , उपजनस्थरीय उत्सवाः परिसमाप्ताः। अनन्तर-परिशीलनाय विद्यालयस्तरीययोजना आयोक्ष्यते।  एर्णाकुळेम् जनपदे आयोजितः गणितमहोत्सवः कोच्चि कोर्परेषन् भौतिक कार्य समित्याः अध्यक्षेन पि. एम् हारिस् महोदयेन उद्घाटनम् कृतम् । वार्ड् कौण्सिलर् एलिसबत्त् इटिक्कुळा अध्यक्षा रूपेण सन्निहिता आसीत् । गणितस्य सर्वाङ्गत्वमधिकृत्य तेवरा SH कलाशालायाः भूतपूर्व प्राचार्यः फा. डॉ. जोस् कुरियेडत्त् वर्यः भाषितवान्।  सर्व शिक्षा अभिथानस्य  योजनाधिकारिणी श्रीमती दीपा जि एस् महोदयया योजना विशदीकृता। BRC अधक्षा श्रीमति फौसिया मल्लिशेरी , लतिका पणिक्कर् प्रभृतयः भाग भाजः आसन् । छात्राः प्रत्येकं सज्जीकृते प्रकोष्टे गणित क्रिया: सोत्साहं कृतवन्तः I
चतुरधिकशतम् उपग्रहविक्षेपणम् अशनिपातः इव - अमेरिक्का ।
वाषिङ्टण् >एकस्यामेव विक्षेपिण्याम्   चतुरधिकशतम् उपग्रहाः। भारतस्य अपूर्वताफलप्राप्तिः  अस्माकं वज्रताडनमिव अनुभूयत इति अमेरिक्कायाः गूढान्वेषणविभागानां नियुक्ताध्यक्षः डान् कोट्स् इत्याख्यः उक्तवान्।
    विविधोद्देश्याः लघुशरीरिणः उपग्रहाः स्युः। परन्तु एकेनैव विक्षेपणेन एतावत्संख्यकाः उपग्रहाः भ्रमणपथमानीताः इति न सरलगणनीम् । सः अद्भुतं प्रदर्शितवान्।  व्ययं यावच्छक्यं न्यूनीकृत्य भारतेन मङ्गलयाने विक्षेपिते यू एस् माध्यमाः भारतम् कार्टूण् द्वारा उपहसितवन्तः आसन्। इदानीम् अमेरिक्कायाः सहिता षट् विदेशराष्टाणां एकोत्तरशतम् उपग्रहाः एव एकेनैव विक्षेपिण्या विक्षिप्ताः। अमेरिक्कन् माध्यमेभ्यः भारतेन प्रवृत्तिरूपेण दत्ता मधुरप्रतिकृतिः।

Friday, March 3, 2017

असहिष्णुता भारतीयमुखं नास्ति - राष्ट्रपतिः।
 कोच्ची >धर्म - संस्कृतिषु असहिष्णुता भारतसंस्कृतेः अनुयुक्तं मुखं नास्तीति राष्ट्रपतिः प्रणब् मुखर्जी अवोचत्। संवादैः सत्यान्वेषणमेव भारतस्य पारम्पर्यम्। वैविध्यानाम् आघोषैः जनाधिपत्यस्य शक्तीकरणमेव भारतस्य संस्कृतिरिति राष्ट्रपतिना उक्तम्। कोच्च्यां ले मेरिडियन् कण्वेन्षन् सेनटर् मध्ये सप्ततिसंवत्सराणां भारतम् इति विषये के एस् राजामणि स्मारक प्रभाणं कुर्वन्नासीत् मुखर्जीवर्यः। भारते अनेकाः भाषाः , उपभाषाः , संस्कृतयश्च सन्ति। एतासु या कापि विभागीयतायाः असहिष्णुतायाः वा प्रवक्त्री न। विद्यमानायाम् असहिष्णुतायां राष्ट्रस्य अस्तित्वं न भवेत्। अतः सर्वाणि वैविध्यानि एकत्वलक्ष्यकानि भवेयुःइति राष्ट्रपतिः उदबोधयत्।

मौबैल् बाड्गिङ् -इतः विनिमय शुल्कः न स्वीकुर्युः।
नवदेहली> येषां चलनदूरवाण्यः सन्ति सर्वेषां एतेषां कृते मौबैल् बाड्गिङ् सौविध्यं संस्थापनीयमिति अर्थालयान् प्रति केन्द्रसर्वकारः निर्देशम् अयच्छत्।
 मौबैल् बाड्गिङ् संविधानाय अस्मिन् मासस्य एकत्रिंशत् दिनाङ्गपर्यन्तं सामान्यजनानां कृते बहु प्रचारणं कार्यमित्यपि निर्देशः अस्ति।
  राष्ट्रे इदानीं १०८ कोटि चलनदूरवाणी उपभोक्तारः सन्ति।तेषु २८.५ कोटि समर्थदूरवाण्यः सन्ति।प्रायशः ११० कोटि आधारपत्राणि  अपि सन्ति ।एतेषां उपयोगः करणीयः। दूरवाणीसड्केतेन सह आधारपत्रस्य तथा क्रमसंख्यया सह बन्धनम् अर्थालयस्य उत्तरदायित्वं स्यात्।

संस्कृतम् उद्योगसाध्यताश्च-सङ्गोष्ठी समायोजिता
पिलात्तरा - भारतीयसंस्कृतमहाविद्यालयस्य वार्षिकाघोषेनानुबन्धत्वेन संस्कृतच्छात्रेभ्य: संगोष्ठी समायोजिता। संस्कृतम् उद्योगसाध्यताश्च इत्यस्मिम् विषये श्री शङ्कराचार्या संस्कृतसर्वकलाशालाया: व्याकरणविभागाचार्य: डा. एम्.वि नटेशन् महाशय: पत्रप्रस्तुतिम् अकरोत्। कण्णूर् विश्विद्यालयस्य  अनुसन्धानविभागाध्यक्ष: डा. पि. मनोहरन् महाशय: कार्यक्रमस्य उद्घाडानम् अकरोत्। कार्यक्रमे कलालयस्य प्राचार्या के.जयलक्ष्मी आध्यक्षमानहत्। श्रीमति श्रीविद्या स्वागतम् विष्णुप्रसाद् कृतज्ञतां च उक्तवन्तौ।
कार्यक्रमे शताधिकाः छात्रा: भाागग्राहिण: आसन्।

काबुल विस्फोटे षोडशजना: मृता:
अफगानिस्तानदेशस्य राजधान्यां काबुल नगरे बुधवासरे आतंकवादिनां भीरु आक्रमणेन् १६ जनानां मृत्यु तथा च बह्वोपि आहता: जाता:। अफगानिस्तानदेशस्य गृहमंत्रालय पक्षत: सूचनागतं यत् विस्फोटानन्तरं ५ निमेषाभ्यन्तरे य: विस्फोटं कृतवान् स: स्वयमेव अपगान् खुफिया एजेंसी इत्यस्य द्वारेव स्वयमपि मृतवान् ।

मनुष्याधिकार-आयोगस्य  रिक्ततस्तिकाः पूरणीयाः - सर्वोच्चन्यायालयः।
नवदिल्ली> राष्ट्रियमनुष्याधिकार आयोगे रिक्ततस्तिकाः एप्रिल् त्रिंशत् दिनाभ्यन्तरे  पूरणीयाः इति  सर्वोच्चन्यायालयेन निर्दिष्टाः केन्द्रसर्वकाराः। सर्वोच्चन्यायालयाधीशस्य जे . एस्. खेहरस्य अध्यक्ष्ये न्यायालयाध्यक्षः डि. वै चन्द्रचूडः भञ्जयकिषन् कोलः आदिभिः युक्तविभागोत्पीठिकया निर्देशः दत्तः।  सर्वोच्चन्यायालयस्य अभिभाषकेन राधाकन्त त्रिपाठिना दत्तायां सार्वजनिक तात्पर्यापेक्षायाम् एव परिहार निर्देशः।

Thursday, March 2, 2017

तमिल् नाटे पेप्सी कोला उत्पन्नानां विक्रयः समापितः।
चेन्नै> तमिल्नाट् राज्ये आपणेषु पेप्सी कोक्कोकोला इत्यादिशीतलपानीयानां विपणनं मार्च् प्रथमदिनाङ्कादारभ्य समापितः। सार्थवाहकसंघटनानां निर्देशमनुसृत्यैव अयं विक्रयनिरोधनिर्णयः। एतेषु संघटनेषु पञ्चदशलक्षाधिकाः अङ्गाः वर्तन्ते। सामाजिक - नैतिकसमस्याः एव अस्य निश्चयस्य प्रेरकशक्तिः। महत्या अनावृष्ट्या जनाः दुरितमनुभवन्ति। तदा भूगर्भजलरिक्तेन शीतलपानीयानि उत्पाद्य जनान् चूषयति।
     अपि तु एतादृशानि पानीयानि विषयुक्तानीति परिशोधनासु स्पष्टीकृतानि। एवं स्थिते तेषां विक्रयणं अपराधकरमिति वणिजां विश्वासः। अत एव विक्रयनिरोधः निर्णीतः।

ऐ एस् परिषदं निष्कासितुं यु एस् पद्धतिः सन्नद्धा।
वाषिड्टण्> इस्लामिक स्टेट् इति भीकरपरिषदं विश्वात् शीघ्रं निष्कासितुं यु एस् प्रतिरोधविभागेन निर्मितं प्रथमपद्धतिं सर्वकाराय समर्पितः।एषा न केवलं सेनापद्धतिः अपि तु सर्वकारस्य इतरान् विभागान् संयोज्य आविष्कृता अस्ति इति क्याप्टन् जेफ् टेविस् अवदत्।
   ऐ एस् अल् खोयिदा युक्त राष्ट्रान्तरे वर्तमानाः सर्वे भीकरपरिषदः अस्यां पद्धत्याम् अन्तर्भवन्ति।विश्वे भीकरप्रवर्तननिरताः सर्वे राष्ट्राः अस्यः परिधौ आगच्छन्ति।सर्वकारप्रतिनिधीनां चर्चायः अनन्तरं पद्धतिरस्याः अन्तिमं रूपं आविष्करोति।
   यदि मम अधिकारः ऐ एस् निष्कासनं करिष्यामीति ड्रंप् स्व चयनावसरे वाग्दानमकरोत्।गतमासे पेण्टगण् सन्दर्शनवेलायां त्रिंशत् दिनाभ्यन्तरे पद्धतिः निर्मातुं माट्टिसं अवोचत्।
 इराख् राष्ट्रस्य मोसूल्,सिरिया राष्ट्रस्य रखा च आगामिनि षण्मासाभ्यन्तरे ऐ एस् तः पुनः स्वीकर्तुं अस्ति यु एस् श्रमः।तदर्थं अॉधिकान् भटान् पृच्छेयः।

दिव्यांग टी-२० विश्वचषक विजेतृभि सह प्रधानमन्त्रे: मेलनम् 
नवदिल्ली>मंगलवासरे दिव्यांग टी-२० क्रिकेट विजेता दलसदस्या: प्रधानमंत्री नरेन्द्रमोदी महोदयेन सह मेलनं कृतवन्त:। एभि: दलसदस्येभि: अनुस्यूततया वारद्वयं ब्लाइंड टी-२० क्रिडाचषकं जितं वर्तते । प्रधानमन्त्रिणा मोदिना छायाचित्रमेकं संविभजन लिखितमस्ति "ब्लाइंड टी-२० विश्वचषक विजेता सदस्यै सह् अविस्मरणीयं पलं" इति । कार्यक्रमेस्मिन् क्रीडामंत्री विजय् गोयल् महोदय: अपि उपस्थित: आसीत् ।

पर्यावरणविभागस्य भविष्यवाणी अस्मिन्  वर्षे सामान्यत: अधिकम् उष्णं भविष्यति
नवदिल्ली>अस्मिनवर्षे पर्वतीयक्षेत्रेषु अधिकं शैत्यं अभवत् । प्राय: २५ वर्षाणां तुहिनपत्तनस्य स्तरं भग्नमभवत् । अनेन कारणेन समतलक्षेत्रेष्वपि वर्षेस्मिन् शैत्याधिकं आसीत् । शैत्यमधिकमासीत् इत्यस्मात् कारणात् एवं न चिन्तनीयं यत् अस्मिन् वर्षे उष्णम् अधिकं न भविष्यति इति । परञ्च अस्मिन् वर्षे अस्माभिः भीषणः उष्णस्य साक्षात्कार: करणीय: भवति इति पर्यावरण-विभागीयानां वक्तव्यमस्ति । एतै: उक्तम्  (मार्चमासात् मईमास पर्यन्तं) उष्णवायु: वाति अस्य लक्षणानि गते जनवरीमासेsपि अस्माभिः साक्षात् कृतानि । गतेषु  ११६ वर्षेषु जनवरी मास: अष्टम् सर्वाधिक मास: इत्यपि उक्तम् । भारतीय पर्यावरणविभाग- (आइएमडी)जनै: उक्तं उत्तर-पश्चिम् क्षेत्रेषु अस्य अधिक: प्रभाव: भविष्यति इति । अन्येषु अवशिष्टेषु क्षेत्रेषु सामान्यमेव तापमानं भविष्यति इति ।
आइएमडी जनै: उक्तं , 'पंजाब, हिमाचलप्रदेश, उत्तराखंड, दिल्ली, हरियाणा, राजस्थान, उत्तर प्रदेश, गुजरात, मध्य प्रदेश, छत्तीसगढ़, बिहार, झारखंड, पश्चिम बंगाल, ओडिशा और तेलंगानादिषु राज्येषु सामान्यत: अधिकम् उष्णं भविष्यति । एतदतिरिच्य मराठवाड़ा, मध्यमहाराष्ट्रे, विदर्भ , आंध्र प्रदेश जनै: भीषणस्य उष्णस्य साक्षात्कारं करणीयं भवति इति ।

Wednesday, March 1, 2017

 आकाशयन्त्रायै 60,000रुप्यकैः ग्लैडर् निर्मितिः
पळनि>पञ्चविंशत् वर्षीय डिण्डिगल् स्वदेशी अष्टमकक्ष्यापर्यन्तं पठितवान् के ए राजा ज्ञानप्रकाशः आकाशयन्त्रायै षष्ठिसहस्ररुप्यकैः ग्लैडर् निर्मितिः। पळनिसमीपस्थः एषः वयनूर ग्रामवासी त्रयोत्रिंशति वयसः आरभ्य ग्लैडर् निर्माणम् आरब्धवान् इदानीमेव सफलः अभवत्।एकस्य द्वयोः वा यात्रायै सक्षमं भवति इदम्। उन्नतसंख्याः  चतुलक्षरुप्यकाणि मूल्यत्वेन यस्मै स्वीकुर्वन्ति तत् षष्ठिसहस्रं रुप्यकैः एव निर्मीयते अनेन।

कार्षिकावश्यकायै उपयुज्यमानानि यन्त्राणि उपयुज्य एव निर्माणं कृतम्। वायुवेगतामापकं उन्नतिमापकं च अस्मिन्नस्ति। 60-70 किलोमीटर यावत् एतद्वाहनं डयितुं समर्थमस्ति। पञ्चशतं पादमिदोन्नतिं यावत् डयितुं कस्यापि अनुमतिः नावश्यकी। एकया होरया विंशत्युत्तर शतकिलोटर यावत् वेगेन डयेत् चतुर्दशलिटर् परिमितेन इन्धनतैलेन चतुर्घण्टाः यावत् इदं डयते।                       
सूर्यस्स रहस्यम् अध्येतुं नासा बहिराकाशपेटकंविक्षेपणं करिष्यति।
वाषिड्टण्>सूर्यस्य रहस्यम् अद्ध्येतुं बहिराकाशपेटकंविक्षेपणं करिष्यतीति नासा।यन्त्रमनुष्येण नियन्त्रितं पेटकं आगामिनि संवत्सरे प्रेषयितुमस्ति नासायाः निर्णयम्।पृथिवीतः पञ्चदशकोटि किमी दूरे अस्ति सूर्यः।षष्ठि लक्षं किमी समीपं यावत् गत्वा निरीक्षणं कर्तुं शक्यते इति विचारः।
प्रधानतया त्रीणि कार्याणि अद्ध्येतुम् उद्दिश्यते।सूर्यस्य अन्तरीक्षापेक्षया उपरिक्षेत्रे उष्णं कुतः  न्यूनं भवतीति क्लिष्टॉः प्रश्नःअस्ति प्रथमः।कोरोणा इति प्रथिते अन्तरीक्षे उष्णं विंशति लक्षं डिग्री चेत् उपरिक्षेत्रे फोटोस्फियरमद्ध्ये उष्णं केवलं ५५०० डिग्री अस्ति।सूर्यात् बहितः सर्वतः प्रति खण्डेषु दशलक्षं मैल वेगेन प्रसरिताः ऊर्जकणाः सन्ति।किन्तु तेषां एतावत् प्रसरणवेगं कुतः लभ्यते इति प्रश्नस्य समाधानान्वेषणं करिष्यति।कदाचित् सूर्यात् विनाशकाराः ऊर्जकणाः किमर्थं बहिर्गच्छतीति प्रश्नस्यापि अन्वेषणं करिष्यति।१३७० डिग्री पर्यन्तं उष्णसहनशेषिवन्तं पेटकं नासाद्वारा निर्मीयते।

ओस्कार् पुरस्काराः प्रख्यापिताः-  
मूण् लैट्  श्रेष्ठं चित्रं , डामियन् षासेल् निदेशकश्रेष्ठः।
होलिवुड् > २०१६ संवत्सरस्य ओस्कार्  पुरस्काराः प्रख्यापिताः। श्यामवंशीयस्य चरितप्रतिपादकं बारी जेन् किन्स् इत्यनेन निदेशितं  मूण् लैट् [ Moon Light] नामकं चलनचित्रं श्रेष्ठतमं निर्णीतम्। ला ला लान्ड् (La La Land) नामकचित्रस्य निदेशकः डामियन् षासेल् इत्यनेन  श्रेष्ठतमनिदेशकस्य पुरस्कारः प्राप्तः। ला ला लान्ड् चित्रस्य अभिनयेन एम्मा स्टोण् श्रेष्ठा अभिनेत्री रूपेण  समादृता। केसी अफ्लेक् श्रेष्ठनटः भविष्यति- चित्रं माञ्चस्टर् बै दि सी। ला ला लान्ट् षड् ओस्कार् पुरस्काराः लब्घाः!


" वृक्षरोपणेन प्रकृतिं संरक्षयन्तु " -  तालिबान्।
काबूल्> अफ्गान् भूमिं सुन्दरीं कर्त्तुं वृक्षरोपणाय उद्बोधनम् मकरोत् तालिबान् नेता हिब्बित्तुला अगुन्साद। राष्ट्रे सामान्याः सेनान्याः च  जनाः फलवृक्षान् अन्यवृक्षान् वा रोपयित्वा भूमेः सौन्दर्यं वर्धयन्तु इति नेतोः आह्वानम् ।

तालिबानस्य ओद्योगिक अन्तर्जाल-शृड़्खलाद्वारा एव आह्वानं रविवारे आगतम्। परिस्थिति संरक्षणम्, सामत्तिक विकसनम्, भूमेः सौन्दर्यवत्करणम् इत्यादिषुः वृक्षरोपणस्य प्राधान्यम् अतीव वर्तते इति तस्य अभिप्रायः। गत मईमासे सः तालिबानस्य नूतननेता इति पदवीम् आरूढवान्। तीव्रवादसड़्घनेतृत्वोपरि मतनेता इति परिवेषम् आर्जयितुं सः शक्तः अभवत्। क्रूरकृतचरित्रस्य तालिबानस्य अपकीर्तं दूरीकर्तुम् आगोलसमाजस्य पुरतः स्वीकार्यता लभ्यतायै च एषः परिश्रमः इति सर्वकारवृत्ताणाम् आरोपणम्। भीकरतया वननशीकरणात् भीता अफ्गानभूमिः। अनधिकृतदारुव्यवसाय एव वननशीकरणस्य प्रधानकारणम्।
Episode 35, Sanskrit News

Taraa G Std. 8, Bhavans Munshi Vidyasram, Thiruvankulam, Ernakulam, Kerala.