OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 15, 2017

मणिपुरे मन्त्रिमण्डलस्य शपथग्रहणमद्य 
इम्फ़ल् >मणिपुरस्य राज्‍यपालः नजमाहेपतुल्‍ला राज्‍ये प्रशासनविरचाय भाजपादलस्य विधायकदलनेतृत्वेन प्रचितं एन.बिरेन.सिंहम् आमन्त्रितवती।
शपथग्रहणसमारोहः अद्य अपराह्णे एकवादने आयोजयिष्यते। सोमवासरे श्रीबिरेनसिंहः एकविंशतिः सदस्‍यीयविधानसभायाः सर्वसम्‍मत्याः विजेतृदलनेता प्रचितः। गतदिने इम्‍फालनगरे राजभवने वार्ताहरै: सह सम्भाषमाणया नजमाहेपतुल्‍लया प्रोक्तं यत् राज्‍यविधानमण्डले बहुमतसामर्थ्ययुताय भाजपादलं प्रशासनविरचनाय आमन्त्रितः। अपि च अस्य मासस्य 22, 23 दिनांकयोः भाजपादलेन बहुमतं प्रकटितव्यम्। 

 कोच्ची मेट्रो - उद्घाटनम् एप्रिल् मासान्त्ये।
अनन्तपुरी> केरले कोच्ची मेट्रो रेल्यानपद्धतेः प्रथमसोपानस्य उद्घाटनम् एप्रिल् मासान्त्ये भविष्यति। रेल्वे सुरक्षासमित्याः निरीक्षणानन्तरं दिनाङ्कनिर्णयः भविष्यति। आलुवातः आरभ्य पालारिवट्टपर्यन्तं प्रथमसोपानगतागताय सर्वकारस्य अनुज्ञा लब्धेति के एम् आर् एल् मुख्योपदेष्टा ई श्रीधरः निगदितवान्।
     अनन्तपुर्यां मुख्यमन्त्रिणः सान्निध्ये एतद्विषयमधिकृत्य अवलोकनोपवेशनं कृतम्। आलुवातः पालारिवट्टं यावत् १३.२६ कि मी परिमितं मेट्रोनिर्माणं मार्च्मासान्त्ये सम्पूर्णतां प्राप्स्यति। ततः सि एम् आर् ऐ समित्याः स्फुटतापत्रं  लब्ध्वा गतागतम् आरब्धुं शक्यते।