OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 7, 2017

160 जनानां प्राणापहरणे पाकिस्थानस्य हस्तक्षेपं व्यक्तीकृत्य दुरानी।
 नवदेहली>षट्षट्यधिकैकशत जनानां प्राणापहृत मुम्बाई भीकराक्रमणस्य पृष्टतः पाकिस्थानराष्ट्रं आस्थानीकृत्य प्रयतमाना भीकरसंघटना अस्तीति पाक् नयतन्त्रज्ञः महम्मूद् अलि दुरानी अवदत्। मुम्बाई आक्रमणस्य पृष्टतः लक्षर ई तोयिबा अस्तीति भारतस्य प्रस्तावं शाक्तीकुर्वन्ति दुरान्याः वाण्यः।सीमामुल्लंख्य कृतस्य आक्रमणस्य निदर्शनमासीत् तदिति सः एकोनविंशतितम ऐषियन् सुरक्षा परियोजनायां अभाषत। इदानीं पाकिस्थाने वर्तमानं हाफिस् सयिद् इति भीकरं प्रति तीव्रं दण्डनरीतयः पाक्सर्वकारः स्वीकुर्यादिति तेन उक्तम्।
२००८ तमे समुद्रेण आगतैः दश भीकरैः मुम्बाई नगरे आक्रमणं अकुर्यात्। तदानीं पाक् सुरक्षा उपदेशकः आसीत् अलि दुरानी। आक्रमणानन्तरं सप्राणग्रहीतस्य अज्मल् कसबिति भीकरस्य वधदण्डनं अभवत्।
आक्रमणानन्तरं पाकिस्तान दूरदर्शने आक्रमणमधिकृत्य मया कृताः प्रस्तावाः पाकिस्तानाय न अरोचत अत एव अहं स्वस्थानात् निष्कासितवानिति सः अयोजयत्। ग्रहीतः भीकरः अज्मल् कसब् पाक् नागरिकः इति वादेन तदान्तीन्तन पाक् प्रधानसचिवः यूसफ् रासा गिलानी दुरानिं स्थानभ्रष्टः अकरोत्।

अल्पिष्ठावशेषदण्डं ए टि एम् व्यवहारशुल्कं च निराकर्तुं सर्वकारस्य निर्देशः।
नवदिल्ली > वित्तकोशसंख्यानेषु अल्पिष्ठावशेषराहित्यस्य तथा  धनादानयन्त्राणि [एटिएम्] निश्चितवारैः अधिकम् उपयोक्तुं च धनशुल्कदण्डनाय वित्तकोशानां निर्णयं निराकर्तुं केन्द्रसर्वकारेण आदिष्टम्। वित्तकोशाधिकृतानां निर्णयं विरुध्य जनरोषः उद्भूतः। सञ्चयसंख्यानेषु (savings account) यैः अल्पिष्ठावशेषः न प्रतिपाल्यन्ते तेभ्यः २० - १०० रूप्यकाणां धनदण्डं स्वीकर्तुं निर्णयः कृतः आसीत्।
       तथा च भारतीय स्टेट् बैंकस्य धनादानयन्त्रेभ्यः प्रतिमासं पञ्चवारेष्वधिकानां व्यवहाराणां दशरूप्यकाणि स्वीकृतानि । एषः निश्चय अपि जनरोषाय कारणमभवत्। अत एव निर्णयस्य पुनःशोधनाय आदेशः कृतः।