OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 15, 2020

कोरोणा - द्वितीयव्यापनं प्रति जाग्रता करणीया। 
कोष़िक्कोट् > केरलं कोविड् प्रतिरोधे अन्ताराष्ट्रप्रशस्तियुक्तां सफलतां प्रापयत् तथापि जनैः  द्वितीयं व्यापनं प्रति जाग्रता करणीया इति राज्यस्थस्वास्थ्यविभागः पूर्वसूचनामदात्। द्वितीयव्यापनं कदाचित् तृतीयव्यापनमपि सम्भवेदिति एतादृशसंपर्कव्याधीनां सविशेषता अस्ति। चीनः, सिङ्गप्पूर्, जप्पान् इत्यादिषु राष्ट्रेषु कोविडस्य द्वितीयव्यापनं आरब्धदृष्टमस्ति। 
  केरले द्वितीयव्यापनस्य साध्यता एवमस्ति। 
१. यदा विदेशात् रोगबाधिताः आगच्छन्ति तदा।
२. समीपराज्येषु अणुबाधा तीव्रतरा इत्यस्मात् व्यापनसाध्यता अधिकमस्ति। 
३. विषाणुबाधा सत्यपि अप्रकाश्यमानलक्षणाः जनाः बहवः समाजे भवेयुः। तेभ्यः रोगबाधा स्यात्। 
 अतः कञ्चित्कालं यावदपि नितान्तजाग्रता आवश्यकी।