OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत - जगद्गुरु भारतीतीर्थस्वामिनः। व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 26, 2020

‘मनोगतम्’ [०२.११] ‘मन की बात’ प्रसारण-तिथि: - २६-एप्रिल, २०२०         
[भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-पुरुषोत्तम-शर्मभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]           


            मम प्रियाः देशवासिनः, नमस्कारः | भवन्तः सर्वे lockdown-इति सञ्चाररोधे ‘मन की बात’-‘मनोगतं’ शृण्वन्ति | अस्य ‘मनोगत’-स्य कृते सम्प्राप्यमाणा परामर्श-दूरभाषाकारणानां संख्या, सामान्यतः अनेकधा अधिकास्ति | अनेकान् विषयान् स्वस्मिन् समाकलय्य, भवतामिदं ‘मनोगतम्’, मम पार्श्वे, आगतम्  | मया प्रयतितं, यदहं एतान् विषयान् अधिकाधिकान् पठेयम्, शृणुयाम् च | भवतां वृत्तेभ्यः अनेके तादृशाः पक्षाः अवगताः, ये नाम दुष्करेsस्मिन् सङ्घर्षमये काले, सरलतया अवधातुं नैव शक्यन्ते | नूनं समीहे, यत्  सङ्घर्षमयेsस्मिन् काले, प्रसार्यमाणे ‘मनोगते’, तान् एव काँचन् पक्षान्, भवद्भ्यः देशवासिभ्यः सम्विभाजयेयम्|
        सखायः, कोरोना-विरोधि भारतीयं युद्धं वस्तुतस्तु people driven- इति जन-सञ्चालितमस्ति | भारते कोरोना-विरोधि युद्धं जनाः सञ्चालयन्ति, भवन्तः प्रवर्तयन्ति, जनैः सम्भूय शासनम्, प्रशासनञ्च सञ्चालयतः | भारत-सदृशः विशालोsयं देशः, यो हि विकासार्थं सततं प्रयतते, निर्धनतां विरुद्ध्य निर्णायक-सङ्घ
र्षं विदधाति | अस्य पार्श्वे, कोरोना-विषाणुना योद्धुं तञ्च जेतुम् अयमेव पन्था | तथा च, वयं सौभाग्यशालिनः यत्, साम्प्रतम्, अशेष-देशः, देशस्य प्रत्येकमपि नागरिकः, प्रतिजनञ्च, अस्य युद्धस्य योद्धास्ति, अस्य युद्धस्य नेतृत्वं करोति | भवन्तः कुत्रचिदपि अवलोकयन्तु, नूनम् अनुभविष्यन्ति यत् भारतीयं युद्धं जन-सञ्चालितमस्ति, यदा अशेषमपि विश्वम् अस्याः महामार्याः सङ्कटेन सङ्घर्ष-निरतं वर्तते | भविष्यति काले, यदा एतद्विषयिणी चर्चा भविता, एतद्-प्रतिरोधस्य पद्धति-सम्बद्धा च चर्चा भविता, दृढं विश्वसिमि यत् भारतस्य अस्य जन-सञ्चालितस्य सङ्घर्षस्य चर्चा नूनं भविता | सम्पूर्णेsपि देशे, प्रति-प्रतोली, सर्वत्र, साम्प्रतं जनाः अन्योन्य-साहाय्यार्थम् अग्रेसृताः सन्ति | निर्धनानां कृते भोजनम्, भवतु तत् भोजन-सामग्री वा सञ्चार-रोधस्य अनुपालनम्, चिकित्सालयानां व्यवस्था भवतु वा, चिकित्सकीयानाम् उपकरणानां देशे एव निर्माणं स्याद्वा – सम्प्रति पूर्णोsपि देशः, एकमेव लक्ष्यम्, एकामेव दिशम्, संलक्ष्य युगपदेव अग्रेसरति | करताडनं, स्थाली-वादनं, दीपानां सिक्थवर्तिकानाञ्च प्रज्वालनम्, एतैः कार्यैः ते भावाः समुत्पादिताः, सा भावना जनानां मनस्सु जाता, येन देशवासिनः, किञ्चित् किञ्चिदपि कर्तुं निर्णीतवन्तः – एते भावाः प्रत्येकमपि प्रेरितवन्तः | भवतु नाम पुरं वा ग्रामः, एवं प्रतीयते - यथा देशे कश्चन बृहत्तमः महायज्ञः प्रवर्तते, यस्मै स्वीयं योगदानमर्पयितुं प्रत्येकमपि जनः समुत्साही दृश्यते | अस्मदीयान् कृषक-भगिनी-भ्रातॄन् एव अवलोकयन्तु– एकतः ते, अस्यां महामार्यां निज-क्षेत्रेषु अहर्निशं परिश्रमन्ते, युगपदेव एवमपि चिन्तयन्ति यत् देशे न कश्चन अपि क्षुधितः एव शयीत | प्रत्येकमपि, स्वीय-सामर्थ्यानुसारं, युद्धमिदं युध्यते | कश्चन स्वीयं भाटकं नैवादत्ते, तर्हि कश्चन नैजं पूर्णमपि सेवानिवृत्ति-वेतनम् आहोस्वित् पुरस्कार-राशिमेव, PM CARES-इति प्रधानमन्त्रिणः कोषाय ददाति | कश्चन स्वीय-क्षेत्रस्य सर्वमपि शाकादि-जातं दानवृत्या ददाति, तर्हि अपरत्र कश्चन अपरः, प्रतिदिनं सहस्रशो निर्धनेभ्यः निःशुल्कं भोजनं परिवेषयति | कश्चन मुखाच्छादकानि निर्माति, कुत्रचिच्च अस्मदीयाः श्रमिकाः भगिनी-भ्रातरो यत्र विद्यालयीय-भवनेषु quarantine-इति सङ्ग-रोधे निवसन्ति, तानि धातु-चूर्णैः लेपयन्ति रञ्जयन्ति च |                                               
मित्राणि, अन्येषां सहायतायै भवद्भिः हृदये आलोडमानः यद्भावः वर्तते तद्धि कोरोनां विरुद्ध्य भारतस्य संघर्षं प्रबलं करोति। असावेव भावः यथार्थेषु एतत्संघर्षं जनसंचालितं करोति। अस्माभिः दृष्टं यत् विगतेषु वर्षेषु अस्माकं देशे एषः भावः उत्पन्नः सततं च दृढत्वं याति। प्रत्युत कोटिभिः जनैः वात्यर्थ-साहाय्यत्यागः भवेत्, लक्षैः वरिष्ठनागरिकैः रेलयात्रार्थ-साहाय्यत्यागो वा, स्वच्छभारताभियानस्य नेतृत्वं भवेत् शौचालय-निर्माणं वा; ईदृशाः अगणिताः विषयाः सन्ति। एतैः वृत्तैः ज्ञायते यद्वयं सर्वे अस्माकं मनांसि चैकेन सुदृढेन सूत्रेण आविष्टाः सम्भूय च देशाय किमपि कर्तुं प्रेरिताः।
     मम प्रियाः देशवासिनः, अहं विनम्रतया बह्वादरेण च अद्य त्रिंशदुत्तरैकशतकोटिमितानां देशवासिनां एतद्-भावनां शिरसा नमामि। भवन्तः स्वीयभावनया रुचिपुरस्सरं समयानुसारेण च देशाय किमपि कर्तुमिच्छन्ति चेत्तर्हि सर्वकारेण एतस्य कृते एकं डिजिटल-इति अन्तर्जालीयं पटलं उपकल्पितम्। अस्याभिधानं covidwarriors.gov.in  इत्यस्ति। अहं आवर्तयामि covidwarriors.gov.in इति। सर्वकारेण एतत्पटलमाध्यमेन सर्वासामपि सामाजिक-संस्थानां स्वयंसेवकाः, जनसमाजस्य प्रतिनिधयः स्थानीयप्रशासनं च परस्परं सम्बद्धीकृतमस्ति। अत्यल्पसमये एतत्पटलेन सपादैक-कोटिजनाः संयुक्ताः। एतेषु चिकित्सकैः परिचारिकाभिः आशा-ए.एन्.एम्.-भगिनीभिः अस्माकम् एन्.सी.सी., अपि च, एन्.एस्.एस्.-मित्रैः, भिन्नक्षेत्रेभ्यश्च नैकैः व्यवसायिभिः एषः आत्मीय-पटलत्वेन अंगीकृतः। एते जनाः संकटप्रबन्धन-योजनाकारैः साकं आपूर्तिकार्येषु साहाय्यं कुर्वन्ति। भवन्तोऽपि covidwarriors.gov.in इत्येतेन संयुज्य कोविड-योद्धृरूपेण देशसेवां कर्तुं पारयन्ति।
   मित्राणि, प्रत्येकं कठिन-परिस्थितिः संघर्षं च किमपि शिक्षयति, मार्गदर्शनं करोति। कासाञ्चन संभावनानां मार्गं प्रदर्शयति, केषांचन लक्ष्याणां च दिशासूचनं करोति। अस्यां परिस्थितौ भवद्भिः देशवासिभिः या संकल्पशक्तिः प्रदर्शितास्ति तया भारते नूतनपरिवर्तनस्य समारम्भः जातः। अस्माकं व्यवसायाः, कार्यालयाः शिक्षणसंस्थानानि चिकित्साक्षेत्रं च प्रत्येकमपि नूतनं प्राविधिक- परिवर्तनम् अनुसरति । प्राविधिकसन्दर्भे तु वस्तुतः प्रतीयते यद्देशस्य प्रत्येकं नवप्रवर्तनकर्ता सद्यः उपस्थापित-परिस्थित्यनुसारेण किमपि नूतनं परिकल्पयति।
     मित्राणि, देशं यदा एकदलरूपेण कार्यमाचरति तदा किं भवतीति वयमद्यत्वेऽनुभवामः। साम्प्रतं केन्द्रसर्वकारः भवेद्, राज्यशासनानि वा भवेयुः; एतेषां प्रत्येकं विभागः संस्थानं च जनसाहाय्यार्थं सम्भूय पूर्णजवेन कार्यं सम्पादयन्ति। अस्माकं वैमानिकक्षेत्रस्य कर्मकराः रेलविभागीयाः वा कर्मचारिणः, सर्वे अहर्निशं परिश्रमं कुर्वन्ति येन देशवासिनां समस्याः स्वल्पाः भवेयुः। भवत्सु अत्यल्पेभ्यः एव जनेभ्यः ज्ञातं स्यात् यत् देशस्य प्रत्येकं क्षेत्रे औषधीनां आपूर्तये लाइफलाइन-उड़ान-नाम्ना एकं विशेषाभियानं प्रचलति। अस्माकमेतैः मित्रैः अत्यल्पसमये देशाभ्यन्तरे त्रिलक्ष-किलोमीटर-विमानसंचालनेन पंचशत-टनमितोsप्यधिकानां औषधीनाम् आपूर्तिः अशेषदेशे सम्पादितास्ति। एवमेव अस्माकं रेल-मित्राण्यपि संचाररोधे सततं परिश्रमं कुर्वन्ति येन देशस्य जनसाधारणेभ्यः आवश्यकवस्तूनाम्  अभावः न भवेत्। अस्य कृते भारतीयरेलविभागः प्रायशः षष्टिमितेषु मार्गेषु शतोप्यधिकानि पण्य-यानानि संचालयति। एवमेव औषधीनामापूर्तये अस्माकं प्रैष-विभागीयाः जनाः महत्त्वाधायिभूमिकां निर्वहन्ति। एतानि सर्वाण्यस्माकं मित्राणि यथार्थेषु अर्थेषु कोरोनायोद्धारः एव सन्ति।
   मित्राणि, प्रधानमंत्री निर्धन-कल्याण-योजनान्तर्गतं निर्धनानां लेखासु प्रत्यक्षं धनान्तरणं विधीयते। वृद्धावस्थावृत्तिरपि वण्टितास्ति। निर्धनेभ्यः मासत्रयस्य कृते निःशुल्कं वातिभाण्डानि, भोज्यानां च सुविधाश्चापि दीयन्ते। एतेषु कार्येषु सर्वकारस्य भिन्नविभागानां, बैंक-क्षेत्रस्य च जनाः एकदलवद्भूत्वा अहर्निशं कार्यं निर्वहन्ति। अहं च देशस्य राज्यसर्वकारानभिनन्दामि ये हि महामारीनिवारणे अतिसक्रियां भूमिकां निर्वहन्ति। स्थानीय-प्रशासनं राज्यशासनानि च यदुत्तरदायित्वं संभालयन्ति, तस्य कोरोना-विषाणुं विरुद्ध्य संघर्षे महती भूमिका वर्तते। तेषां परिश्रमः बहुप्रशंसनीयः अस्ति।
   मम प्रियाः देशवासिनः, अखिलदेशे स्वास्थ्यसेवासु युक्तैः जनैः सद्यः अभ्युपगतम् अध्यादेशं प्रति सन्तोषः प्रकाशितः। अस्मिन् अध्यादेशे कोरोनायोद्धृन् विरुद्ध्य हिंस्राचरणम् उत्पीडनं आघातकर्तृभ्यश्च अत्यधिक-कठोरदण्डस्य प्रावधानं विहितमस्ति। अस्माकं चिकित्सकाः परिचारिकाः उपचिकित्सा-कार्मिकाः समुदायस्वास्थ्यकर्मिणः अन्ये च जनाः ये देशं कोरोनामुक्तं कर्तुं अहर्निंशं प्रयतन्ते; तेषां रक्षायै पदमिदं अपरिहार्यमासीत्।
     मम प्रियाः देशवासिनः, वयं सर्वे अनुभवामः यन्-महामारीं विरुद्ध्य अस्मिन् संघर्षे अस्माभिः स्वीयजीवनं समाजः पारिवेशिक- घटनाश्च नूतन-मन्तव्य-परीक्षणार्थम् अवसरत्वेन उपलब्धः। सामाजिक-मन्तव्येऽपि व्यापकं परिवर्तनं दृश्यते। अद्य स्वीय- जीवनसम्बद्धस्य प्रत्येकं मानवस्य महत्त्वं वयमनुभवामः। अस्माकं गृहेषु कार्यकर्तारः भवेयुः, अस्माकमावश्यकतानां आपूर्त्यर्थं कार्यरताः सामान्याः कर्मकराः, प्रतिवेश्यापणेषु नियुक्ताः कर्मिणः वा;  एतेषां कीदृशी महती भूमिका वर्तते इति वयं साम्प्रतमनुभवामः। एवमेव आवश्यकसेवानाम् आपूर्तिकर्तारः हाटकेषु युक्ताः श्रमिक-भ्रातरो भगिन्यः चास्माकं प्रतिवेशिनः स्वयंयान-चालकाः रिक्शाचालकाश्च - अद्य वयमनुभवामः यदेतान् विना अस्माकं जीवनं कियत्कठिनं भवितुमर्हति।
     अद्यत्वे सामाजिकमाध्यमेषु वयं सर्वे सततं पश्यामः यत्संचाररोधावधौ जनाः स्वीयान् एतान्सहायकान् न केवलं स्मरन्ति, तेषाम् आवश्यकतानां चिन्तां कुर्वन्ति, अपितु, तेषां विषये सम्मान-पुरस्सरं लेखनमपि कुर्वन्ति। अद्य देशस्य विभिन्न-भागेभ्यः चित्राकृतयः दृश्यन्ते, यज्जनाः स्वच्छता-कर्मिषु पुष्पवर्षां कुर्वन्ति। पूर्वं चेत्तेषां कार्यं भवद्भिः कदापि नैवाकलितं स्यात्। चिकित्सकाः स्युः स्वच्छताकर्मिणः वा, अन्येषु वा सेवाकार्येषु युक्ताः जनाः आरक्षिकार्मिकाश्च तान् सर्वान् एव प्रति जनसामान्यस्य चिन्तने प्रभूतपरिवर्तनं समागतम् । पूर्वम्, आरक्षिविषये चिन्तनमात्रेण नकारात्मक-चिन्तनं विहाय अन्यः भावः नाच्छति स्म। अद्यास्माकं आरक्षिकर्मिणः निर्धनेभ्यः अकिंचनेभ्यश्च भोजनं प्रयच्छन्ति औषधवितरणं च कुर्वन्ति। यथा सर्वविध-साहाय्यं प्रदातुं आरक्षिणः प्रस्तुताः, तेन आरक्षिसेवायाः मानवीयः सम्वेदनशीलश्च पक्षः अस्माकं सम्मुखं प्रस्तुतः। एतेनास्माकं मनांसि सर्वथा झङ्कृतानि हृदयं च गहनतया स्पृष्टमस्ति। अस्मिन्नवसरे जनाः आरक्षिभिः साकं भावनात्मकतया युक्ताः। अस्माकं आरक्षिकर्मिभिः एष अवधिः जनसेवाऽवसरत्वेन स्वीकृतः। अहं विश्वस्तोऽस्मि यदेताभिः घटनाभिः अनागते समये वस्तुतः अतिसकारात्मकं परिवर्तनं सम्भाव्यते । अस्माभिश्च एष सकारात्मकभावः कदापि वैपर्यभावे नैव परिवर्तनीयः।
     मित्राणि, वयं प्रायः प्रकृतिः विकृतिः संस्कृतिश्चेति शब्दान्  शृणुमः। एतेषां शब्दानां आहत्य विचारेण एतेषां अन्तर्हितभावस्य   अनुभवेन च जीवनबोधस्य नूतनमेकं द्वारमनावृतं भवति। यदि मानवानां प्रकृतिविषये चिन्तयामः तर्हि ‘एतन्ममास्ति’, ‘अहमेतस्य उपयोगं करोमि’इत्येषः भावः स्वाभाविकः मान्यते। अस्मिन्विषये कोऽपि आक्षेपः न करोति। एषः प्रकृतिः इति कथयितुं शक्यते। परं ‘यन्मम नास्ति’ ‘यस्योपरि ममाधिकारः नास्ति’ ‘तमहं अन्येभ्यः आहरामि’, आहृत्य वा प्रयोगं करोमि तर्हि एषा विकृतिः कथयितुं शक्यते। एतेभ्यः परं प्रकृतिविकृतिभ्यामुपरि यदा संस्कारितं मनः चिन्तयति व्यवहरति वा तदा संस्कृतेः दर्शनं भवति। यदा कोऽपि स्वीयाधिकारेणाधिगतः पदार्थः, परिश्रमेण वार्जितं वस्तु; आत्मनः कृते अधिकावश्यकता वर्तते न्यूना वा, अस्य विचारं विना, अन्यजनस्य आवश्यकतामभिलक्ष्य आत्मनः चिन्तां विहाय स्वीयाधिकारं विभज्य अन्येषामावश्यकतानां पूर्तिं करोति सा हि संस्कृतिर्भवति। मित्राणि, यदा परीक्षाकालः भवति तदैवैतेषां गुणानां परीक्षणं भवति।
       भवद्भिः दृष्टं स्यात् यत्भारतेन स्वीयसंस्कारानुरूपेण स्वीयचिन्तनानुसारेण अस्माकं संस्कृत्यनुसारं च अनेके निर्णयाः कृताः। अस्मिन् संकटकाले संसारस्य कृते नैकेभ्यः समृद्धदेशेभ्यश्च औषधीनां संकटं अतीव गहनमवर्तत। अस्मिन् समये यदि भारतं संसाराय औषधिप्रदानं नैव करोति तदाऽपि भारतं दोषित्वेन नैव ख्यापयितुं शक्यते। प्रत्येकं देशः अवगच्छति यद्भारतस्य प्राथमिकता स्वीय-नागरिकाणां जीवनरक्षणमस्ति। परं मित्राणि, भारतेन प्रकृतिविकृत्योः अवधानमुल्लंघ्य, स्वीय-संस्कृतिमवेक्ष्य निर्णयः कृतः। अस्माभिः भारतस्य आवश्यकतानां पूर्तये यत्किमपि आचरणीयमासीत्तस्य प्रयासस्तु जवीकृतः परम् अखिलविश्वतः प्रतिध्वन्यमानं मानवतायाः आह्वानमपि संवेदनया अवधत्तम्। अस्माभिः विश्वस्य प्रत्येकं वंचितं प्रति औषधानाम् आपूर्तये दायित्वं सोढं मानवतायाश्चैतत्दायित्वं सफलतया सम्पन्नम्। अद्याहं यदा नैकदेशानां राष्ट्राध्यक्षैः दूरभाषेण सम्भाषे तदा ते भारतीय- नागरिकाणाम् आभारं अवश्यं प्रकाशयन्ति। यदा ते कथयन्ति ‘थैंक्यू इण्डिया’, ‘थैंक्यू पीपल ऑफ़ इण्डिया’ तदा देशस्य गौरवम् इतोsप्यधिकतरं जायते। एवमेव साम्प्रतं अखिलविश्वे भारतस्य आयुर्वेदस्य योगस्य च महत्त्वमपि जनाः विशिष्टभावेन परिभावयन्ति । सामाजिकमाध्यमेषु अवलोकयन्तु यत्र जनाः रोगप्रतिरोधक्षमतायाः संवर्धनार्थं आयुर्वेदस्य योगस्य चोपयोगविषये चर्चां कुर्वन्ति। कोरोनायाः दृष्ट्या आयुष-मन्त्रालयेन रोगप्रतिरोधक्षमतायाः प्रबलीकरणाय यः परामर्शः प्रसारितः तस्य विषये अहं विश्वस्तोsस्मि यद्भवन्तः तस्यानुपालनं अवश्यमेव कुर्वन्ति। कदुष्णजलस्य आसेवनम् अन्येषां च आयुषमंत्रालयेन प्रसारितानां दिशानिर्देशानां परिपालनेन तेषां स्वीय-जीवनचर्यायां समावेशेन भवन्तः प्रभूतलाभं प्राप्स्यन्ति। 
        मित्राणि, दुर्भाग्यमिदम् अविद्यत यद्वयं बहुधा आत्मनः एव शक्तेः समृद्धपरम्परायाः च अभिज्ञानात् अस्वीकृतिं प्रयच्छामः। परं यदा जगतः अपरं राष्ट्रं evidence based research- इति  प्रमाणाधारितानुसन्धानस्याधारेण तद्वचनं प्रकटयति। अस्माकमेव सूत्रम् अस्मान् शिक्षयति तदा वयं सहर्षं स्वीकुर्मः। सम्भवत:, अस्य कारणभूतं शतवर्षाणां परतन्त्रतायाः कालखंडम् वर्तते । अनेन कारणेन यदा-कदा वयम् आत्मनः शक्तौ नैव विश्वासं कुर्मः। अस्मासु आत्मविश्वासस्य नैयून्यं दृश्यते। अतः वयं निज देशस्य शोभनाः वार्ताः, अस्माकं पारम्परिकसिद्धान्तान्, प्रमाणाधारिता- नुसन्धानाधारेण, अग्रे सम्मुन्नयापापेक्षा तान् परित्यजामः, हेयं च अवगच्छामः। भारतस्य युवसन्तत्या इदानीं समाह्वानमिदं स्वीकर्तव्यम्,  यथा विश्वेन  योगः सहर्षं स्वीकृतः, तथैव सहस्रवर्षपुरातनान्, अस्माकमायुर्वेद-सिद्धान्तान् अपि विश्वम् अवश्यं स्वीकरिष्यति। आम् एतदर्थं युवसन्तत्या संकल्पः स्वीकरणीयः अथ च जगदिदं यस्यां भाषायां जानाति तस्यां वैज्ञानिक-भाषायाम् अस्माभिः प्रबोधनीयम्, किञ्चित् करणीयम् |
          मित्राणि, एवं तु covid-19 कारणेन नैकानि सकारात्मकानि परिवर्तनानि दृष्टानि, अस्माकं कार्य पद्धतिः, अस्माकं जीवन-शैली, अस्माकं सात्म्येषु च स्वाभाविकरूपेण निजस्थानं निर्मान्ति। भवद्भिस्सर्वैः अनुभूतं स्यात् यदनेन संकटकालेन कथं पृथक्-पृथक् विषयेषु अस्माकं दृष्टिः चेतना च जागरिते। ये प्रभावाः अस्मान् परितः दृश्यन्ते तेषु सर्वादौ मुखावेष्टनधारणं मुखाच्छादनं च वर्तेते| कोरोना-कारणेन परिवर्तिस्थितौ मुखावेष्टनमपि अस्माकं जीवनस्य  सत्याङ्गं सञ्जायते | अस्माकं सात्म्ये कदापि मुखावेष्टनधारणं नैवासीत्, परमिदानीम् इदमेव प्रचलति| अस्य अयम् अर्थः नास्ति यत् ये मुखावरणं धारयन्ति ते सर्वे रोगिणः | अपि च यदाहं मुखावरणे वच्मि, तदा पुरातनं स्मरणं भवति, भवन्तः अपि जानन्ति, एकः कालः आसीत् यदा अस्माकं देशस्य नैकानि क्षेत्राणि तादृशानि भवन्ति स्म यत्र यदि कश्चन् नागरिकः फलं क्रीणाति स्म तदा परितः जनाः पृच्छन्ति स्म यत्– गृहे कोSपि रुग्णो वा? अर्थात्, फलम् इत्युक्ते केवलं रुग्णावस्थायामेव खाद्यन्ते–एतादृशी एका धारणासीत् | परं कालक्रमेण धारणेयं परिवर्तिता| एवमेव mask-इति  मुखावेष्टनविषयिणी धारणापि परिवर्तमानास्ति | भवन्तः अवलोकयिष्यन्ति यत् मुखावेष्टनम् इदानीं सभ्य-समाजस्य प्रतीकस्वरूपं भविष्यति| यदि रोगात् स्वस्य सुरक्षा अन्येषां च रक्षा करणीया चेत् मुखावरणं धारणीयम्, मम परामर्शस्तु अस्त्येव– प्रोञ्छनं, मुखावेष्टनमिति |
    मित्राणि, अस्माकं समाजे इयम् अपरैका जागरूकता आगता, यदिदानीं सर्वे जनाः जानान्ति यत् सार्वजनिकस्थलेषु निष्ठीवनेन हानिः भवितुं शक्यते | यत्र-तत्र, कुत्रापि निष्ठीवनं, दुष्प्रवृत्तिः वर्तते। इदं हि स्वच्छतायै स्वास्थ्याय च गभीरसमाह्वानं प्रयच्छति| एवम् एकतः  पश्यामः यत् वयं सर्वदा समस्यामिमां जानीमः, परमियं समस्या समाजात् समाप्तिं नैव गच्छति स्म - अधुना समय आगतः, इयं दुष्प्रवृत्तिः अनन्तकालाय समाप्तिं गच्छेत् | कथ्यते च यत्  “better late than never” विलम्बेन भवतु परं समीचीनमिति | विलम्बेन एव परम् इदानीम् एषा दुष्प्रवृत्तिः त्यक्तव्या,| ये विचाराः  एकतो  मूलस्वास्थ्य-स्तरं संवर्धयिष्यन्ति तत्रैव कोरोना-संक्रमणस्य निराकरणे साहाय्यमपि करिष्यन्ति |           
    मम प्रियाः देशवासिनः! सुखदः संयोगः अयं यद् यदाहं भवद्भिस्साकं मनोगतस्य विचाराभिव्यक्तिं करोमि तदाद्य अक्षय-तृतीयायाः पवित्रं पर्व विद्यते| मित्राणि, ‘क्षय’ इत्यस्यार्थः विनाशः परं यत् कदापि नष्टं न भवति, यत् कदापि समाप्तिं नैव याति तत् ‘अक्षयः’ वर्तते | निजगृहेषु पर्वेदं  वयं प्रतिवर्षं परिपालयामः, परमस्मिन् वर्षे अस्मभ्यमस्य विशेषमहत्त्तवं वर्तते | अद्यतने कठिन-समये अयं तादृशो दिवसो वर्तते यदस्मान् स्मारयति यदस्माकम् आत्मा, भावना, ‘अक्षयः’ स्तौ | दिवसोयं स्मारयति यत् भवति नाम काठिन्यं मार्गे, भवन्ति नाम विपत्तयः, भवन्ति नाम रोगाः, परमेतेषां समेषां निवारणाय मानवीयाः भावनाः अक्षय्याः वर्तन्ते | विज्ञायते यदयमेव दिवस: आसीत् यदा भगवत: श्रीकृष्णस्य भगवतः सूर्यदेवस्य च आशीर्वादेन पांडवैः अक्षय-पात्रम् अवाप्तमासीत् | अक्षय-पात्रम् अर्थात् तादृशं भाण्डं यस्मिन् भोजनं न कादापि समाप्तिं गच्छति | अस्मभ्यम् अन्नदातार: कृषकाः सर्वदैव देशाय, अस्मभ्यम्, अनया एव भावनया परिश्रमं कुर्वन्ति| एतेषां परिश्रमेणैव अद्य अस्मभ्यम् निर्धनेभ्यः च देशस्य पार्श्वे अक्षय्य अन्न-भण्डारः वर्तते| अस्याम् अक्षय-तृतीयायाम् अस्माभिः पर्यावरणस्य, वनानां, नदीनां सम्मूर्ण-पारिस्थितीयतन्त्रस्य च  संरक्षणविषयेपि विचारणीयम्, इमानि अस्माकं जीवने महत्त्वपूर्णां भूमिकां निभालयन्ति| यदि वयम्  ‘अक्षय्यतां’ इच्छामः चेत् अस्माभिः सर्वादौ इदं सुनिश्चेयं यदस्माकं धरा अक्षया स्यात् |
    किं भवन्तः जानन्ति यत् अक्षय-तृतीयायाः पर्वेदं दानस्य शक्तेः चावसरः भवति। वयं हृदयस्य भावनाभि: यत् किमपि दास्यामः यथार्थ-रूपेण तस्यैव महत्त्वं भवति। महत्त्वपूर्णमिदं नास्ति यत् वयं किं कियच्च दद्मः। संकटकालेसेमिन् अस्माकं लघीयान् प्रयासः अस्माकं परितः बहुभ्यः साहाय्यं प्रदास्यति | मित्राणि, जैनपरम्परायामपि अयं पवित्रो दिवसो वर्तते, यतोहि प्रथम-तीर्थंकरस्य भगवतः ऋषभदेवस्य जीवनस्य महत्वपूर्ण-दिवसः आसीत् । एवं प्रकारेण जैनसमाजः दिवसमेनं पर्वत्वेन परिपालयति, अतः सारल्येन बोध्यमस्ति यदस्मिन् दिने जनाः किमर्थं शुभकार्यणां प्रारम्भं कुर्वन्ति। यतोहि अद्य किमपि नूतनारम्भस्य दिवसो विद्यते, अतो वयं सम्भूय निजप्रयासैः धराम् अक्षय्याम् अविनाशिनीं च कर्तुं संकल्पं स्वीकर्तुं शक्नुमः ? मित्राणि, अद्य भगवतो बसवेश्वरस्य जयन्ती अपि वर्तते। सौभाग्यं मे वर्तते यन्मया भगवतो बसवेश्वरस्य स्मृतिभिः सन्देशैः च साकं बहुवारं सम्पृक्तेः ज्ञानस्य चावसरो लब्धः। देशे जगति च भगवतो बसवेश्वरस्य सर्वेभ्य अनुयायिभ्यः बसवेश्वर-जयन्त्यवसरे बहुशः शुभकामनाः |
     सखायः, रमज़ानस्यापि पवित्र-मासः आरब्धः | यदा विगते क्रमे रमज़ान-मासः आमानितः तदा न केनापि विचारितमासीत् यत् ऐषमः क्रमे रमज़ानावसरे एतावन्ति सङ्कटानि अपि प्रतीकर्तव्यानि भविष्यन्ति | किन्तु, अधुना यदा विश्वस्मिन् विश्वे संकटमिदं समापन्नमेव तदा अस्माकं पुरस्ताद् अवसरोsस्ति – रमज़ानमिदं वयं सद्भावना-संवेदनशीलता-संयम-सेवाभावानां प्रतीकत्वेन करवाम | अस्मिन् क्रमे वयं, पूर्वतोsपेक्षया अधिकाम् उपासनां करवाम येन ईदागमनात् प्रागेव विश्वमिदं कोरोनातो मुक्तं स्यात्, तथा च वयं पूर्वकालमिव हर्षोत्साहेन ईद-पर्व आयोजयेम | दृढं विश्वसिमि यत् रमज़ान-दिनेषु स्थानीय-प्रशासनस्य दिशा-निर्देशान् अनुपालयन्तः वयं कोरोना-विरोधिनं सङ्घर्षमिमं दृढतरं विधास्यामः | मार्गेषु, विपणीषु, वीथीषु च, दैहिकान्तरालस्य नियमानुपालनं साम्प्रतं परमावश्यकम् | अहम्, अद्य तेभ्यः सर्वेभ्यः समुदाय-नेतृभ्यः अपि आभारं प्रकटयामि ये द्वि-गज़-मितान्तरालं, गृहाद् बहिर्गमनञ्च अभिलक्ष्य जनान् जागरुकान् कुर्वन्ति | सत्यमेव कोरोना-महामारी अस्मिन् क्रमे भारतोपेते अशेष-जगति उत्सवानाम् आयोजनस्य रङ्ग-रूपं स्वरुपञ्चैव परावर्तितवती | नातिचिरं, विगतेषु दिनेषु, अस्माकमपि, बिहू-बैसाखी-पुथंडू-विशू-ओड़ियानूतनवर्ष-सदृशाः उत्सवाः समागताः| वयं दृष्टवन्तः यत् जनाः केन प्रकारेण गृहेषु एव स्थित्वा, अतितरां सरल-रीत्या समाजञ्च प्रति शुभचिन्तनेन साकम् एतान् उत्सवान् आयोजितवन्तः | सामान्यतया ते, एतान् समुत्सवान् निजैः मित्रैः कौटुम्बिकैः च साकं पूर्णोत्साहेन हर्षोल्लासेन चायोजयन्ति स्म | गृहाद् बहिः निर्गत्य स्वीयां प्रसन्नतां सम्विभाजयन्ति स्म | परञ्च, क्रमेsस्मिन् प्रत्येकमपि संयमेन व्यवहृतवत् | लॉकडाउन-इति सञ्चार-रोधस्य नियमानुपालनम् अकरोत् | वयं दृष्टवन्तः यत् अस्मिन् क्रमे अस्मदीयाः ख्रिष्टीय-सखायः ‘ईस्टर(Easter)’-इत्युत्सवमपि गृहे एव आयोजितवन्तः | नैजं समाजं, स्वीयं देशञ्च प्रति एतद्दायित्व-निभालनं हि, अद्यत्वे अतितराम् आवश्यकम् | तदैव वयं कोरोना-प्रसारम् अवरोद्धुं सफलाः भविष्यामः | कोरोना-सदृशीं वैश्विक-महामारीं निरस्तां करिष्यामः |
       मम प्रियाः देशवासिनः, अस्याः वैश्विक-महामार्याः प्रवर्तितेsस्मिन् सङ्कटे भवतां परिवार-सदस्यत्वेन, तथा च, भवन्तः सर्वेsपि मम कुटुम्ब-जनाः सन्ति – इति कृत्वा केषाञ्चन सङ्केतानां परामर्शानाञ्च प्रदानं हि मम दायित्वमपि भवति | मम देशवासिनः, भवतः अहं साग्रहं निवेदयामि – वयं ईषदपि अत्यात्मविश्वासं नैव सन्धारयेम, न मनागपि विचारयेम यत्  अस्माकं नगरे, अस्मदीये ग्रामे, अस्माकीनायां वीथ्यां, अस्मदीये कार्यालये वा, साम्प्रतं यावत् कोरोना-विषाणुः नैव सम्प्राप्तः, अतः नेतः परं सम्प्राप्स्यति- इति | पश्यन्तु, एतादृशं त्रुटिं कदापि नैवाचरन्तु | जगतः अनुभवः अस्मान् सुबहु निर्दिशति | तथा च, अस्मदीये परिवेशे तु पौनःपुनिकं कथ्यते– ‘अवधानम् अपास्तं दुर्घटना घटिता’-‘सावधानी हटी तो दुर्घटना घटी’- इति | अवश्यं स्मरन्तु, अस्मदीयाः पूर्वजाः एतेषां विषयाणां कृते अस्मभ्यं समीचीनतरं मार्ग-दर्शनं कृतवन्तः | ते उक्तवन्तः – ‘अग्नि: शेषम् ऋण: शेषम्, व्याधि: शेषं तथैव च |
पुनः पुनः प्रवर्धेत, तस्मात् शेषं न कारयेत्     ||
अर्थात्, उपेक्षा-पुरस्सरं त्यक्तः अग्निः, ऋणम्, व्याधिः च, प्राप्ते सत्यवसरे पुनः एधित्वा सङ्कटं जनयन्ति | अतः एतेषां पूर्णोपचारः अतितराम् आवश्यकः | अत एव अत्युत्साह-कारणात्, स्थानीय-स्तरे, कुत्रचिदपि किञ्चिदपि अनुत्तर-दायित्वं नैव स्यात् | अस्य सर्वदैव अस्माभिः विशेषावधानं नूनमेव सन्धारणीयम् | तथा च, पुनरेकवारं कथयामि – ‘द्वि-गज़-मितान्तरालं धारयन्तु, आत्मानं स्वस्थं स्थापयन्तु’ - “दो गज़ दूरी, बहुत है ज़रूरी”|  भवतां सर्वेषां उत्तम-स्वास्थ्यं कामयमानः, स्वीयं निवेदनम् अत्रैव पूर्णतां नयामि | यदा भाविनः ‘मनोगत’स्य अवसरे मिलेम तदा,  अस्याः वैश्विक-महामार्याः मुक्ति-वृत्तानि सम्पूर्ण-संसारात् आगच्छेयुः, मानव-जातिः एतेभ्यः सङ्कटेभ्यः निर्गच्छेत् – अनया प्रार्थनया सहैव... भवतां सर्वेषां भूरिशो धन्यवादाः |                         
                            *****
            - [भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-पुरुषोत्तम-शर्मभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]               
                    अणुप्रैषः  - baldevanand.sagar@gmail.com