OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 28, 2020

पिधानकारणात् विदेशराष्ट्रेभ्यः भारतम् प्रत्यागन्तुम् अशक्तेभ्यः साहाय्यं दीयते - भारतसर्वकारः।
   नवदहली > भारते तथा विदेशेषु च सम्पूर्णपिधानात् क्लेशमनुभवतां भारतीयानां प्रत्यागमनविषये केन्द्रसर्वकारेण पर्यालोच्यते। भारते सम्पूर्णपिधानस्य प्रतिनिवर्तनात्परम् एतेषां प्रत्यागमनाय उचितः निर्णयः स्वीक्रियतेति सूचना। एतदर्थं विविधमन्त्रालयाधिकारिभिः सह प्रधानमन्त्रिणा नरेन्द्रमोदिना चर्चा कृता। प्रत्यागमनात्परम् एतेषां सम्पर्कनिरोधावासादीनां विषये अवलोकनं समर्पयितुं विविधेभ्यः राज्यस्तरीयाधिकारिभ्यः केन्द्रसर्वकारेण निर्देशः दत्तः वर्तते। एतदर्थं विदेशकार्यमन्त्रालयेन आविष्कृता रूपरेखा केन्द्रमन्त्रिसभायाः कार्यदर्शिनः राजीव् गौब महोदयस्य आध्यक्षे उन्नतसमित्या अवलोकिता। विदेशेषु वर्तमानानां भारतीयानां संख्या, भारते तेषां राज्यानि, प्रत्यागमनाय आवश्यकानां विमानानां संख्या इत्येते अंशाः समित्‍या पर्यालोचिता च ।