OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 30, 2020

यु ए इ प्रार्थना भारतसर्वकारेण अङ्गीकृता - अचिरादेव वैद्यसङ्घं प्रेषयिष्यति।
    नवदहली > कोविड्१९ व्यापनवेलायामस्यां भारतेन आवश्यकः वैद्यसङ्‌घः प्रेषणीयः इति यु ए इ अधिकृतानां प्रार्थना भारतसर्वकारेण अङ्गीकृता। एतद्विषये गतसोमवासरे एव यु ए इ अधिकृतैः अभ्यर्थिता। भारतेन कुवैत् राष्ट्रं प्रति १५ अङ्‌गपरिमितः सैनिकवैद्यसङ्घः प्रेषितः आसीत्। अधुना विदेशराष्ट्राणि प्रति सेवनमण्डलात् विरमितानां सैनिकवैद्यानां प्रेषणमेव केन्द्रसर्वकारेण उद्दिश्यते। भारते प्रतिवर्षं सैनिकमण्डलात् शताधिकाः वैद्याः चत्वारिंशदधिकाः आतुरसेवकाः च विरम्यन्ते। एतेषां प्रेषणमेव केन्द्रसर्वकारेण प्रमुखतया क्रियते। विविधेभ्यः गल्फ् राष्ट्रेभ्यः वैद्यसम्बन्‍धं साहाय्यम् अभ्यर्थ्य निवेदनानि विदेशकार्यमन्त्रालये लब्धानि वर्तन्ते। एतदुपरि उचितः निर्णयः स्वीकरिष्यतीति मन्त्रालयेन सूचितं च। अधुना हैड्रोक्सिक्लोरोक्विन् औषधानि विविधाः औषधनिर्माणसामग्र्यः च भारतेन विदेशराष्ट्राणि प्रति प्रेष्यन्ते च।