OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 27, 2020

पिधानदीर्घीकरणम् अपेक्षितमिति ६ राज्यानि। 
मुख्यमन्त्रिभिः सह प्रधानमन्त्रिणः 'वीडियोसम्मेलनम्' अद्य। 
नवदिल्ली >  कोविड् - १९ रोगस्य व्यापनं रूक्षतया अनुवर्तते इत्यतः पिधानमपि अनुवर्तनीयमिति ६ राज्यैः अपेक्षितम्। दिल्ली, महाराष्ट्रं, पश्चिमवंगः, पञ्चाबः, मध्यप्रदेशः, ओडीषा इत्येतानि राज्यानि केन्द्रसर्वकारम् अभ्यर्थयन्। तेलुङ्कानेन तु पिधानं मेय् सप्तमदिनाङ्कपर्यन्तं दीर्घीकृतम्। इदानीं मेय् ३तममेव पिधानमुद्घुष्टम्। 
  तथा अद्य प्रधानमन्त्री नरेन्द्रमोदी मुख्यमन्त्रिभिः साकं वीडियोद्वारा सम्मेलनमायोजितवान् अस्ति। तदा अमुं विषयं चर्चिष्यति। स्वदेशं प्रत्यागमनेच्छुनां प्रवासिनां निवेदने अपि निर्णयः भविष्यतीति प्रतीक्षते।