OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 24, 2020

कोविडीयकालस्य विद्यालयीयछात्राणां रचनाः
अक्षरवृक्षः प्रथमभागः  प्रकाशितः। 
'अक्षरवृक्षस्य' प्रकाशनं केरलस्य मुख्यमन्त्री पिणरायि विजयः सांस्कृतमन्त्रिणे जि. सुधाकराय ददन् निर्वहति।
अनन्तपुरी > कोविड्काले केरले सम्पूर्णपिधाने प्राप्ते विद्यालयीयछात्राः वृथा कालं नीतवन्तः नासन्। शिक्षाविभागस्य निर्देशं शिरसा वहन्तः तेषाम् अध्यापकानां प्रोत्साहने स्वकीयसर्गशक्तेः प्रकाशनाय प्रयतितवन्तः। कथा कविता लेखनरूपैः तेषां कोविड्कालचिन्ताः बहिरागताः। ताः डिजिटल् रूपेण स्वीकृतवत्यः विद्यालयस्थानां ऐ टि अध्यापकानां साह्येन 'स्कूल् विक्की' नामिकां डिजिटल् मासिक्यां निवेशिताः। 
  ताः रचनाः राज्यस्तरे क्रोडीकृत्य श्रेष्ठरचनाः निर्वाच्य केरलशैक्षिकविभागेन पुस्तकरूपेण प्रकाशिताः। कथा-कविता-लेखनविभागेषु त्रयः ग्रन्थाः प्रकाशिताः। तेषां प्रथमभागस्य प्रकाशनं मुख्यमन्त्री पिणरायि विजयः सांस्कृतिकमन्त्रिणे जि सुधाकराय समर्प्य कृतवान्। शिक्षामन्त्री प्रोफ. सि. रवीन्द्रनाथः, एस् ई आर् टि निदेशकः प्रोफ. प्रसादः इत्यादयः तस्मिन् कार्यक्रमे सन्निहिताः आसन्।