![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEids8WeDwQ_ztoGE9t7VQXR0P_TOOezAUVr_cefB510OnWwEGp2To1GfUIFE1O-Q23a3HSmmhUQ3FV8tfwPGv0zD91j9FnXKs0r_M3YmotRcf_s-O4ybPbyACpIZZRAJhuXZzTh-z4XGYRZ/s320/winnie-mandela.jpg) |
Photo from -5news |
जोहन्नास्बर्ग् > दक्षिणाफ्रिक्काराष्ट्रस्य विमोचननायकस्य तथा भूतपूर्वराष्ट्रपतेः नेल्सन् मण्डेलावर्यस्य पत्नीपदमलङ्कृतवती विन्नी मण्डेला सोमवासरे दिवं गता। दक्षिणाफ्रिक्कायां वर्तितं वर्णविवेचनम् अवसादयितुं प्रवृत्ते आन्दोलने मण्डेलावर्येण सह वीन्नी अपि सेनामुखे कार्यनिरता आसीत्। नवदक्षिणाफ्रिक्काराष्ट्रस्य माता इति विशेषणं प्राप्तवती विन्नी दीर्घकालेन रोगबाधिता आसीत्। तद्राष्ट्रस्य प्रशस्ततमे राजनैतिकदम्पती आस्तां नेल्सन् मण्डेला विन्नी मण्डेला च।